________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आवां प्रेष्य प्रेषणेन, दृरदेशान्तरं विभो ! । पुत्रेभ्यो भरतादिभ्यस्त्वया दत्ता विभज्य भूः ॥ १३६ ॥ मही गोष्पदमात्राऽपि, त्वयाऽऽवाभ्यां न किं ददे ?। इदानीमपि तद्देहि, विश्वनाथ ! प्रसादतः॥१३७ ॥ दोषः किमावयोः कोऽपि, देवदेवेन वीक्षितः ? । यद् दत्से नोत्तरमपि, दूरेऽन्यद् देयमस्तु तत् ॥१३८॥
प्रभुन किश्चित् प्रत्यूचे, वदन्तावपि तौ तदा । निर्ममा हि न लिप्यन्ते, कस्याऽप्यहिकचिन्तया ॥१३९ ॥ 5 न ब्रूते यद्यपि स्वामी, तथाऽपि गतिरेष नौ । इति निश्चित्य तौ देवं, प्रवृत्तावुपसेवितुम् ॥ १४० ॥
जलं जलाशयान्नित्यमानीय नलिनीदलैः । ववृषुः स्वामिनोऽभ्यर्णे, रजःप्रशमहेतवे ॥ १४१ ॥ तावुज्झाञ्चक्रतुर्धर्मचक्रिणः पुरतः प्रगे । पुष्पप्रकरमामोदमाद्यन्मधुकरोत्करम् ॥ १४२ ॥ कृष्टासी च सिषेवाते, स्वामिनं पारिपार्श्विकौ । अहर्निशं मेरुगिरि, सूर्याचन्द्रमसाविव ॥ १४३॥ त्रिसन्ध्यं च प्रणम्यैवं, ययाचाते कृताञ्जली । आवयो ऽपरः स्वामी, स्वामिन् ! राज्यप्रदो भव ॥१४४॥ ___ अन्येधुर्धरणो नागकुमाराणामधीश्वरः । श्राद्धः समाययौ तत्र, स्वामिपादान् विवन्दिपुः ॥१४५॥ स्वामिनं सेवमानौ तौ, याचमानौ श्रियं ततः । बालाविव ऋजू नागराजः साश्चर्यमैक्षत ॥ १४६ ॥ स तौ जगाद पीयूषस्यन्दसोदरया गिरा । कौ युवां ? किं च याचेथे, दृढं विरचिताग्रहौ ? ॥ १४७ ।। संवत्सरं जगत्स्वामी, महादानं किमीप्सितम् । प्रददावनवच्छिन्नं, तदानीं व गतौ युवाम् ? ॥ १४८ ॥
वर्तते सम्प्रति स्वामी, निर्ममो निष्परिग्रहः । रोषतोषविनिर्मुक्तो, निराकासो वपुष्यपि ॥ १४९ ॥ 15 स्वामिनः सेवकः कश्चिदेषोऽपीति सगौरवम् । धरणं पन्नगाधीशं, प्रत्यूचतुरुभावपि ॥ १५० ॥
भृत्यावावामसौ भर्ता, क्वचिदप्यादिशत् स्वयम् । राज्यं विभज्य सर्वेभ्यः, स्वपुत्रेभ्यो ददावथ ॥१५१॥ अपि प्रदत्तसर्वस्वो, दाताऽसौ राज्यमावयोः । अस्ति नाऽस्तीति का चिन्ता ?, कार्या सेवैव सेवकैः ॥१५२॥ याचेथां भरतं गत्वा, स्वामिवत् स्वामिभूरपि । इत्युक्तौ धरणेन्द्रेण, पुनस्तावेवमूचतुः ॥ १५३ ॥
विश्वस्वामिनमाप्याऽमुं, कुर्वः स्वाम्यन्तरं न हि । कल्पपादपमासाद्य, कः करीरं निषेवते ? ॥ १५४ ॥ 20 आवां याचावहे नाऽन्यं, विहाय परमेश्वरम् । पयोमुचं विमुच्याऽन्यं, याचते चातकोऽपि किम् ? ॥१५५॥
वस्त्यस्तु भरतादिभ्यस्तव किं चिन्तयाऽऽनया ? । स्वामिनोऽसाद् यद् भवति, तद् भवत्वपरेण किम् ? ॥ तदुक्तिमुदितोऽवादीदथेदं पन्नगेश्वरः । पातालपतिरेषोऽसि, स्वामिनोऽस्यैव किङ्करः ॥ १५७ ॥ महाभागौ महासत्त्वौ, खाम्यसावेव नाऽपरः । सेवनीय इति दृढा, प्रतिज्ञा साधु साधु वाम् ॥ १५८ ॥ भुवनस्वामिनोऽमुष्य, सेवया राज्यसम्पदः । पुमांसमुपसर्पन्ति, पाशाकृष्टा इव द्रुतम् ॥ १५९ ॥ सेवया चाऽस्य वैतात्यगिरौ विद्याधरेन्द्रता । नितान्तसुलभैवेह, पालम्बफलवन्नृणाम् ॥ १६० ॥ सेवामात्रेण चाऽमुष्य, भवनाधिपतिश्रियः । अयत्नप्राप्यतां यान्ति, पादाधःस्थनिधानवत् ॥ १६१ ।। अमुं च सेवमानानां, पुंसामुपनमत्यलम् । वशंवदा व्यन्तरेन्द्र श्रीः कार्मणवशादिव ॥ १६२ ॥ अस्यैव सेवकं ज्योतिष्पतिश्रीरपि सत्वरम् । स्वयं वृणीते सुभगं, स्वयंवरवधूरिव ॥ १६३ ॥
भवन्त्यस्यैव सेवातः, पौरन्दर्योऽपि सम्पदः । वसन्तादेव जायन्ते, विचित्राः कुसुमर्द्धयः ॥ १६४ ॥ 30 अस्यैव सेवनादाशु, लभन्ते दुर्लभामपि । अहमिन्द्रश्रियं मुक्तेरिव यामि कनीयसीम् ॥ १६५ ॥
अमुमेव जगन्नाथं, सेवमानः शरीरभाक् । प्रामोत्यपुनरावृत्ति, सदानन्दमयं पदम् ॥ १६६ ॥ इह त्रिभुवनाधीशः, सिद्धरूपः परत्र च । असाविव भवेद् देही, स्वामिनोऽस्यैव सेवया ॥ १६७ ॥ दासोऽहं स्वामिनोऽमुष्य, युवामपि च सेवको । तत्सेवायाः फलं विद्याधरैश्वर्यं ददामि वाम् ।। १६८ ॥
खामिसेवाप्तमेवैतद्, बुध्येथां हन्त ! माऽन्यथा । उझ्योतोऽरुणजन्माऽपि, सूर्यजन्मैव यद् भुवि ॥१६९ ॥ 35 सम्बोध्यैवं ददौ गौरीप्रज्ञप्तीप्रमुखां तयोः । अष्टचत्वारिंशद्विद्यासहस्री पाठसिद्धिदाम् ॥ १७० ॥
* °दादिष्टवान् सं १, °दप्यादिदेश व खं, आ॥ । भगिनीम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org