________________
तृतीयः सर्गः] त्रिषष्ट्रिशलाकापुरुषचरितम् ।
६३ भिक्षामलभमानोऽपि, स्वाम्यदीनमनाः सदा । विहरन् जङ्गमं तीर्थमिव पृथ्वीमपावयत् ॥ १०॥ सप्तधातुविनाभूतशरीर इव सुस्थितः । भगवान् क्षुत्पिपासादीनधिसेहे परीषहान् ॥ १०१॥ अनुयान्तः स्वामिनं ते, पोता इव समीरणम् । तथैव विहरन्ति स्म, राजानो दीक्षिताः स्वयम् ॥१०२ ।।
अथ क्षुदादिभिः क्लान्तास्तत्त्वज्ञानविवर्जिताः । स्वबुद्ध्यनुगुणं दध्युस्ते गजन्यास्तपस्विनः ॥ १०३ ॥ किम्पाकानीव नाऽत्येष, फलानि मधुराण्यपि । न स्वादन्यपि पिवति, क्षाराणीव पयांसि च ॥१०४ ।। । परिकर्मानपेक्षश्च, न स्नाति न विलिम्पति । वस्त्रालङ्कारमाल्यानि, नोपादत्ते च भारवत् ॥ १०५ ॥ आलिङ्गयते शैल इव, वातोद्धृताध्वधृलिभिः । नितान्तं महते मूर्ध्नि, ललाटंतपमातपम् ।। १०६ ॥ शयनादिविहीनोऽपि, नाऽऽयाममनुगच्छति । न परिक्लिश्यते शीतोष्णाभ्यां गिरिवरेभवत् ॥ १०७ ॥ न हि क्षुधां गणयति, न जानाति तृपामपि । लवैरः क्षत्रिय इव, निद्रामपि न सेवते ।। १०८ ॥ अस्माननुचरीभूतान् , कृतागस इवाधुना । न प्रीणयति दृष्ट्याऽपि, सङ्कथायास्तु का कथा ? ॥ १०९ ॥ 10 अपि पुत्रकलत्रादिपरिग्रहपरामुखः । न जानीमः किमपि यञ्चित्ते चिन्तयति प्रभुः ॥ ११० ॥
अथ कच्छमहाकच्छी, भरिभ्यर्णसेवको । आत्मवृन्दपुरोभृतावित्यूचाते तपस्विभिः ॥ १११ ॥ कैष स्वामी क्षुद्विजयी?, क्व वयं चाऽनकीटकाः?। क्व वा जितपिपासोऽयं ?, क वयं वारिदर्दुराः॥११२॥ क चाऽयमातपजयी?, कच्छायामत्कुणा वयम् ? । क शीतापरिभूतोऽयं?, क शीतकपयो वयम् ? ॥११३॥ क्व च निद्रादरिद्रोऽयं ?, क्व निद्राजगरा वयम् ? । क्वाऽयं नित्यमनासीनो ?, वयं काऽऽसनपङ्गवः ॥ 15 व्रतेऽनुगमनं भर्तुस्तदस्माभिः प्रचक्रमे । उदन्वल्लङ्घनविधौ, काकैरिव गरुत्मतः ॥ ११५ ॥ किं निजान्येव राज्यानि, गृहीमो जीविकाकृते ?। किन्तु तानि गृहीतानि, भरतेन क गम्यताम् ? ॥ किं वा व्रजामो भरतमेव जीवनहेतवे ? । अस्माकं स्वामिनं हित्वा, गतानां तत एव भीः ॥ ११७ ॥ तदार्यों ! कार्यमूढानां, किं कार्य ? ब्रूतमद्य नः । अग्रेऽपि नित्यमासन्नौ, भावाभिज्ञौ युवां विभोः ॥११८॥ तावप्येवं बभाषाते, स्वयम्भूरमणाम्बुधेः। आसाद्यते यदि स्ताघो, भावोऽपि स्वामिनस्तदा ॥ ११९ ।। 20 अग्रेऽपि स्वामिनाऽऽदिष्टमेव नित्यमकृष्वहि । अधुना कृतमौनस्तु, नाऽऽदिशत्येष किञ्चन ॥ १२० ॥ वित्थ यूयं यथा नैव, विद्वो नाऽऽवां तथैव हि । गतिः समाना सर्वेषां, बताऽऽवां किमु कुर्वहे ? ॥१२१॥ मम्भूयाऽऽलोच्य सर्वेऽपि, गङ्गातीरवनानि ते । भेजुर्बु जिरे स्वैरं, कन्दमूलफलाद्यथ ॥ १२२ ॥ प्रावर्त्तन्त ततः कालात् , तापसा वनवासिनः । जटाधराः कन्दफलाद्याहारा इह भूतले ॥१२३ ॥ ___ अथ कच्छमहाकच्छतनयो विनयान्वितौ । स्वाम्यादेशाद् दूरदेशान्तराणि गतपूर्विणौ ।। १२४ ॥ 25 आयान्तौ नमि-विनामिनामानों तद्वनाध्वना । अपश्यतां स्वपितरावित्यचिन्तयतां च तो। १२५ ॥ नाथे वृषभनाथेऽपि, किमनाथाविवेशीम् । अवस्थां प्रतिपेदाते, पितरावावयोरिमौ ? ।। १२६ ॥ व तच्चीनांशुकमिदं, किरातार्ह व वल्कलम् ? । क्व सोऽङ्गरागो वपुषि ?, भूरजः क पशूचितम् ? ॥१२७॥ क्व माल्यगर्भो धम्मिल्लः ?, क्व जटा वटवृक्षवत् ? । क्व गजारोहणं? वैष, पादचारः पदातिवत् ॥१२८॥ एवं विचिन्तयन्ती तौ, प्रणम्य पितरौ तदा । पप्रच्छतुः कच्छमहाकच्छावप्येवमूचतुः॥१२९ ॥ 30 त्यक्त्वा राज्यं जगन्नाथो, भगवानृषभध्वजः । भुवं विभज्य भरतादिभ्यो दत्त्वाऽग्रहीद् व्रतम् ॥१३०॥ स्वामिना सममस्माभिरशेष रभसावशात् । तदा तद् व्रतमारेभे, हस्तिनेवेक्षुभक्षणम् ॥ १३१ ॥ क्षुधापिपासाशीतोष्णप्रभृतिक्लेशपीडितः । तद् व्रतं मुमुचेऽसाभिय॑स्ता धूः कसरैरिव ॥ १३२ ॥ यद्यपि स्वामिनो गत्या, वयं गन्तुं न शक्नुमः । तथापि मुक्त्वा गार्हस्थ्यं, वसामोऽत्र तपोवने ॥१३३॥ . स्वामिनो भूसंविभागमावामप्यर्थयावहे । इत्युक्त्वा नमि-विनमी, स्वामिपादावुपेयतुः ॥ १३४ ॥ 35 निःसङ्ग इत्यजानन्तौ, प्रभुं प्रतिमया स्थितम् । प्रणम्यैवं विज्ञपयाम्बभूवतुरुभावपि ॥ १३५ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org