________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीनं
प्रथमं पर्व प्रतीच्छति स्म सौधर्माधिपतिः कुन्तलान् प्रभोः । वस्त्राञ्चले वर्णान्तरतन्तुमण्डनकारिणः ॥ ६८ ॥ मुष्टिना पञ्चमेनाऽथ, शेषान् केशान् जगत्पतिः । समुच्चिखनिपन्नेवं, ययाचे नमुंचिद्विषा ॥ ६९ ।। नाथ ! त्वदंसयोः स्वर्णरुचोर्मरकतोपमा । वातानीता विभात्येषा, तदास्तां केशवल्लरी ॥ ७० ॥ तथैव धारयामास, तामीशः केशवल्लरीम् । याजामेकान्तभक्तानां, स्वामिनः खण्डयन्ति न ।। ७१ ॥ सौधर्मेशः क्षीरसिन्धौ, केशान् क्षिप्त्वाऽभ्युपेत्य च । रङ्गाचार्य इवारक्षत्, तुमुलं मुष्टिसंज्ञया ॥७२॥ कृतपठतपःकर्मा, कृतसिद्धनमस्कृतिः । देवासुरमनुष्याणां, समक्षमथ नाभिभूः ॥ ७३ ।। सावद्ययोगं सकलं, प्रत्याख्यामीत्युदीरयन् । मोक्षाध्वनो रथमिव, चारित्रं प्रत्यपद्यत ॥७४ । [युग्मम् ] स्वामिदीक्षोत्सवेनाऽऽसीन्नारकाणामपि क्षणम् । शरदातपतप्तानामिवाऽभ्रच्छायया सुखम् ।। ७५ ॥
ज्ञानं प्रभोर्मय॑क्षेत्रमनोद्रव्यप्रकाशकम् । मनःपर्ययमुत्पेदे, दीक्षासङ्केतभागिव ॥ ७६ ॥ 10 वार्यमाणाः सुहृद्वर्गे, रुध्यमानाश्च बन्धुभिः । निषिध्यमाना भरतेश्वरेणाऽपि मुहुर्मुहुः ॥ ७७ ॥
स्मरन्तः स्वामिनः पूर्वप्रसादमतिशायिनम् । तत्पादपद्मविरहस्याऽसहाः षट्पदा इव ॥ ७८ ॥ हित्वा पुत्रकलत्रादि, राज्यं च तृणलीलया । या गतिः स्वामिनोऽस्माकमपि सैवेति निश्चयात् ।। ७९ ।। नृपाः कच्छमहाकच्छादय आददिरे मुदा । दीक्षां सहस्राश्चत्वारो, भृत्यानामेष हि क्रमः॥ ८०॥
[चतुर्भिः कलापकम् ] 15 आदिनाथं प्रणम्याऽथ, शचीनाथादयः सुराः । एवं विरचयामासू, रचिताञ्जलयः स्तुतिम् ॥ ८१ ॥
गुणांस्तव यथावस्थान , वयं वक्तुमनीश्वराः । स्तुमस्तथापि प्रज्ञा हि, त्वत्प्रभावाद् भृशायते ॥ ८२ ।। त्रसस्थावरजन्तूनां, हिंसायाः परिहारतः । स्वामिन्नभयदानैकसत्रिणे भवते नमः ॥ ८३ ॥ नमस्तुभ्यं मृषावादपरित्यागेन सर्वथा । पथ्यतथ्यप्रियवचःसुधारसपयोधये ॥ ८४ ॥
भगवन्नदत्तादानप्रत्याख्यानखिलाध्वनि । प्रथमायाऽध्वनीनाय, नमस्तुभ्यं जगत्पते ! ॥ ८५ ॥ 20 अखण्डितब्रह्मचर्यमहातेजोविवस्वते । भगवन् ! मन्मथध्वान्तमथनाय नमोस्तु ते ॥८६॥
सर्वमेकपदे नाथ !, पृथिव्यादिपरिग्रहम् । पलालवत् त्यक्तवते, तुभ्यं मुक्त्यात्मने नमः ।। ८७ ।। तुभ्यं नमः पञ्चमहावतभारककुमते । संसारसिन्धुतरणकर्मठाय महात्मने ॥ ८८॥ महाव्रतानां पञ्चानामिव पश्चाऽपि सोदराः । बिभ्रते समितीस्तुभ्यमादिनाथ ! नमो नमः ॥ ८९ ॥
आत्मारामैकमनसे, वचःसंवृतिशालिने । सर्वचेष्टानिवृत्ताय, नमस्तुभ्यं त्रिगुप्तये ॥ ९० ॥ 25 इति नाथमभिष्टुत्य, यथास्थानं ययुस्तदा । जन्माभिषेकवन्नन्दीश्वरमध्येन नाकिनः ॥ ९१ ॥
प्रणम्य नाथं भरतबाहुबल्यादयोऽपि ते । जग्मुर्निजनिजस्थानं, कथञ्चिदमरा इव ॥ ९२ ॥ अनुप्रबजितैः कच्छमहाकच्छादिभिनृपैः । अनुयातः प्रभुमौनी, मां विहाँ प्रचक्रमे ॥ ९३ ॥ __ भगवान् पारणाहेऽपि, भिक्षां न प्राप कुत्रचित् । भिक्षादानानभिज्ञो हि, तदैकान्तऋजुर्जनः ॥ ९४ ॥ केऽपि वेगपराभूतोच्चैःश्रवस्कांस्तुरङ्गमान् । शौर्यनिर्जितदिग्नागानपरे नागकुञ्जरान् ॥ ९५ ॥ रूपलावण्यविजिताप्सरसः केऽपि कन्यकाः । विद्युद्विभ्रमधारीणि, केचिदाभरणानि तु ॥ ९६ ॥ नानावर्णानि सन्ध्याभ्राणीव वासांसि केचन । माल्यदामानि मन्दारदामस्पनि केऽपि च ॥ ९७ ॥ केचित् काश्चनराशिं च, मेरुशृङ्गसहोदरम् । रोहणाचलचूलाभ, रत्नकूटमथाऽपरे ॥ ९८॥ स्वामिने ढोकयामासुर्लोका भिक्षार्थमीयुषे । राजानमेव नाथं स्म, जानते ते हि पूर्ववत् ॥ ९९ ॥
[पञ्चभिः कुलकम् ] समुत्खनितुमिच्छन् । २ इन्द्रेण । * °पर्याय खं आ, ॥ ३ अमराः। ४ भृशं भवतीति भृशायते। + "खिलेऽभव. खंता॥ ५ पथिकाय ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org