________________
तृतीयः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम् ।
15
प्रीणितश्रवणो नृणामुचैर्जयजयारवः । चक्रे पत्युर्वन्दिवृन्दैरिव वृन्दारकजैः ॥ ३४ ॥ trist शिविकारूढः पथि गच्छन्नराजत । सुरोत्तमविमानस्थशाश्वतप्रतिमोपमः ।। ३५ ।। भगवन्तं तथाssयान्तं दृष्ट्वा सर्वेऽपि नागराः । सम्भ्रमादन्वधावन्त पितरं बालका इव ।। ३६ । दूरतः स्वामिनं द्रष्टुं, जीमूतमित्र केकिनः । उच्चपादपशाखामु, केचिदारुरुहुर्नराः ॥ ३७ ॥ केचिच्च स्वामिनं द्रष्टुमारूढा मार्गवेश्मसु । चन्द्रातपमित्र प्रौढं, सूर्यातपमजीगणन् ॥ ३८ ॥ अश्वानारुरुहुः केऽपि, कालक्षेपासहिष्णवः । त्वरितं स्वयमेवावा, इव पुलविरे पथि ।। ३९ ।। अन्तः प्रविश्य लोकानां केsपि वारामिवाऽऽतयः । अग्रे प्रादुर्भवन्ति स्म, स्वामिनो दर्शनेच्छया ॥ ४० ॥ अभि त्रिभुवनाधीशं, धावन्त्यः काचिदङ्गनाः । वेगात् त्रुटितहारेण, लाजाञ्जलिमिवाऽमुचन् ॥ ४१ ॥ आगच्छतो जगद्भर्त्तुरग्रे तस्थुर्दिदृक्षया । कटिस्थवाला आरूढवानरा इव वीरुधः ॥ ४२ ॥ भुजावुभयतः सख्योः, काचिदालम्व्य सत्वरम् । कृत्वा पक्षानिवाऽऽगच्छन्, कुचकुम्भभरालसाः ॥ ४३ ॥ 10 गतिभङ्गकरान् भारान, स्वान् नितम्वान् मृगीदृशः । निनिन्दुः काचन स्वामिप्रेक्षणक्षणकाङ्क्षया ॥ ४४ ॥ शुभकौसुम्भवसना, वर्त्मवेश्मकुलाङ्गनाः । पूर्णपात्रान् दधुः काचित्, सेन्दु सन्ध्यासहोदराः ।। ४५ ।। काश्चिदप्यञ्चलान् पाणिपमैश्च पललोचनाः । चामराणीव चलयामासुरालोकने प्रभोः ॥ ४६ ॥ काश्चिदप्यभि नाभेयं, नार्यो लाजान् निचिक्षिपुः । आत्मनः पुण्यबीजानि, वपन्त्य इव निर्भरम् ||४७|| चिरं जीव चिरं नन्देत्याद्याशीर्वचनानि च । काश्चिञ्जगुर्निजकुलसुवासिन्य इवोच्चकैः ॥ ४८ ॥ निश्चलाक्ष्यश्चलाक्ष्योऽपि, मङ्खुगा मन्दगा अपि । प्रभुं पश्यन्त्योऽनुयान्त्यचाभूवन् पुरयोषितः ॥ ४९ ॥ नभस्यथ समापेतुरपि देवाञ्चतुर्विधाः । महाविमानैः कुर्वाणा, एकच्छायं महीतलम् ॥ ५० ॥ मदाम्भोवर्षिभिः केचित, कुञ्जरैर्निर्जरोत्तमाः । आपतन्तो विदधिरे, दिवं मेघमयीमिव ॥ ५१ ॥ अपारगगनाम्भोधेस्तरण्डैस्तुरगोत्तमैः । कशानदण्डसहिता, आपतन् पतिमीक्षितुम् ।। ५२ ।। मूर्तिमद्भिः पवमानैरिवाऽतिशयिरंहसा । स्यन्दनैर्युसदः केचिदासदन्नाभिनन्दनम् ॥ ५३ ॥ अन्योऽन्यं वाहनक्रीडाप्रतिज्ञातपणा इव । प्रतीक्षाञ्चक्रिरे मित्रमपि न त्रिदिवौकसः ॥ ५४ ॥ स्वाम्यसौ स्वाम्यसावेवं, कथयन्तो मिथः सुराः । वाहनानि स्थिरीचक्रुः, प्राप्तग्रामा इवाऽध्वगाः ॥ ५५ ॥ विमानहम्र्म्येः करिभिस्तुरगैः स्यन्दनैरपि । नभस्यभूद् द्वितीयेव, विनीता नगरी तदा ॥ ५६ ॥ परिवत्रे जगन्नाथः, प्रकृष्टसुरमानुषैः । मानुषोत्तरशिखरीवाऽहस्करनिशाकरैः || ५७ ॥ पार्श्वयोर्भरतबाहुबलिभ्यामुपसेवितः । रोधो भ्यामिव पाथोधिर्वभासे वृषभध्वजः ।। ५८ ।। अष्टानवत्या तनयैर्विनीतैरितरैरपि । अन्वगामि जगत्स्वामी, यूथनाथ इव द्विपैः ।। ५९ ।। माता पत्न्यौ च पुत्र्यौ च स्त्रियोऽन्या अपि साश्रवः । सावश्यायकणाः पद्मिन्य इव प्रभुमन्वगुः ॥ ६० ॥ विमानमिव सर्वार्थसिद्धं प्राक्तनजन्मनि । नाम्ना सिद्धार्थमुद्यानमाससाद जगत्पतिः ॥ ६१ ॥ तस्माच्च शिविकारत्नात्, संसारादिव निर्ममः । समुत्ततार नाभेयस्तत्राऽशोकतरोस्तले ॥ ६२ ॥ तानि वस्त्राणि माल्यानि, भूषणानि च नाभिभूः । उज्झाञ्चकार सपदि, कषायानिव सर्वतः ।। ६३ । कोमलं धवलं सूक्ष्मं, व्यूतं चन्द्रकरैरिव । देवदृष्यं देवराजः, स्कन्धदेशे न्यधाद् विभोः ॥ ६४ ॥ तदा च चैत्रैबहुलाष्टम्यां चन्द्रमसि श्रिते । नक्षत्रमुत्तराषाढामो भागेऽथ पश्चिमे ।। ६५ ॥ भवज्जयजयारावकोलाहलमिषाद् भृशम् । उद्भिरद्भिर्मुदमिव वीक्ष्यमाणो नरामरैः ॥ ६६ ॥ उच्चखान चतसृभिर्मुष्टिभिः शिरसः कचान् । चतसृभ्यो दिग्भ्यः शेषामिव दातुमनाः प्रभुः ।। ६७ ।। [ त्रिभिर्विशेषकम् ]
30
१ आतिः अलनिवासी पक्षी । २ चैत्र कृष्णाष्टम्याम् ।
Jain Education International
For Private & Personal Use Only
६१
5
20
25
35
www.jainelibrary.org