________________
कलिकालसर्वज्ञ श्रीहमचन्द्राचार्यप्रणीतं
तृतीयः सर्गः ।
आजूहवदथ स्वामी, सामन्तादीन् समन्ततः । भरतं बाहुबल्यादींस्तनयानितरानपि ॥ १ ॥ प्रभुर्बभाषे भरतं, राज्यमादत्स्व वत्स ! नः । वयं संयमसाम्राज्यमुपादास्यामहेऽधुना ॥ २ ॥ स्वामिनो वचसा तेन, स्थित्वा क्षणमधोमुखः । प्राञ्जलिर्भरतो नत्वा, जगादैवं सगइदम् || ३ || त्वत्पादपद्मपीठाग्रे, लुठतो मे यथा सुखम् । रत्नसिंहासने स्वामिन्नासीनस्य तथा नहि ॥ ४ ॥ त्वदग्रे धावतः पद्भ्यां यथा मम सुखं विभो ! । सलीलसिन्धुरस्कन्धाधिरूढस्य तथा नहि || ५ || त्वत्पादपङ्कजच्छायानिलीनस्य यथा सुखम् । जायते मे सितच्छत्रच्छायाच्छन्नस्य नो तथा ॥ ६ ॥ त्वया विरहितः स्यां चेत्, तत् किं साम्राज्यसम्पदा ? । त्वत्सेवासुखदुग्धान्धे, राज्यसौख्यं हि विन्दुवत् ॥७॥ स्वाम्यपीत्यवदद् राज्यमस्माभिस्तावदुज्झितम् । पृथ्व्यां च पार्थिवाभावे, मात्स्य न्यायः प्रवर्तते ॥ ८ ॥ पृथिवीं तदिमां वत्स !, यथावत् परिपालय । आदेशकारकोऽसि त्वमादेशोऽप्ययमेव नः ॥ ९ ॥ सिद्धादेशं प्रभोरेवं, स लङ्घितुमनीश्वरः । आमेत्यभाषत गुरुध्वेपैव विनयस्थितिः ॥ १० ॥ प्रणम्य स्वामिनं मूर्ध्ना, विनीतो भरतस्ततः । सिंहासनमलञ्चक्रे, पित्र्यं वंशमिवोन्नतम् ॥ ११ ॥ स्वाम्यादेशादथाऽऽमात्यसामन्तानीकपादिभिः । प्रभोरिव सुरैश्चक्रेऽभिषेको भरतस्य तु ॥ १२ ॥
तदा च शुशुभे छत्रं, पार्वणेन्दुसहोदरम् । स्वामिनः शासनमिवाऽखण्डं भरतमूर्द्धनि ॥ १३ ॥ तत्पार्श्वयोश्चकाशाते, आपतन्तौ च चामरौ । भरतार्द्धद्वयादेष्यच्छ्रियोर्दृताविवाऽऽगतौ ॥ १४ ॥ चकासामास वासोभिर्मुक्तालङ्करणैरपि । गुणैरिव स्वैरत्यन्तविशदैर्वृषभात्मजः ॥ १५ ॥ शशीव स नवो राजा, महामहिमभाजनम् । नमश्चक्रे राजचक्रेणाऽऽत्मकल्याणकाम्यया ।। १६ ।। अथ ददौ बाहुबलिप्रभृतिभ्यो यथोचितम् । अन्येभ्योऽपि च पुत्रेभ्यो, विभज्य विषयान् विभुः || १७॥ ततश्च सांवत्सरिकं, दानमारभत प्रभुः । कल्पद्रुम इव स्वेच्छाप्रार्थनानुगुणं नृणाम् ॥ १८ ॥ यो येनाऽर्थी स तद् गृह्णात्वेवमाघोषणां विभुः । चतुष्पथप्रतोल्यादिस्थानेषूच्चैरकारयत् ॥ १९ ॥ चिरभ्रष्टानि नष्टानि, प्रक्षीणस्वामिकानि च । अतिप्रनष्टसेतूनि, गिरिकुञ्जगतानि च ॥ २० ॥ श्मशानस्थानगूढानि, गुप्तानि च गृहान्तरे । रजतस्वर्णरत्नादिधनान्याहृत्य सर्वतः ॥ २१ ॥ वासवादिष्टधनदप्रेरिता जृम्भकाः सुराः । ददतोऽपूरयन् भर्तुः पयांसीव पयोमुचः ॥ २२ ॥
[ त्रिभिर्विशेषकम् ] एकi कोटीं हिरण्यस्य, लक्षाण्यष्टौ च नाभिभूः । दिने दिने ददौ सूरोदयादा भोजनक्षणम् ॥ २३ ॥ वत्सरेण हिरण्यस्य, ददौ कोटीशतत्रयम् । अष्टाशीतिं च कोटीनां, लक्षाशीतिं च नाभिभूः ॥ २४ ॥ जातसंसारवैराग्या, दीक्षया स्वामिनो जनाः । शेषामात्रमदोऽगृह्णन्निच्छादानेऽपि नाऽधिकम् ।। २५ ।। अथ वार्षिकदानान्ते, वास्रवश्चलितासनः । भक्त्याऽन्य इव भरतो, भगवन्तमुपास्थित ॥ २६ ॥ समं सुरवरैरम्भस्कुम्भहस्तैर्जगत्पतेः । दीक्षोत्सवाभिषेकं स चक्रे राज्याभिषेकवत् ॥ २७ ॥ 30 मपनीतं तदधिकारिणेव बलारिणा । दिव्यालङ्कारवस्त्रादि, पर्यधत्त जगद्विभुः ।। २८ ।। अनुत्तरविमानानां विमानमिव किञ्चन । सुदर्शनाख्यां शिविकां, पत्ये हरिरसूत्रयत् ।। २९ ।। दत्तहस्तो महेन्द्रेण, शिविकामारुरोह ताम् । प्रभुः प्रथमसोपानमिव लोकाग्रवेश्मनः ॥ ३० ॥ आदौ रोमाञ्चितैर्मत्यैरमत्यैस्तदनन्तरम् । उदधे शिविका मूर्त्तपुण्यभार इवाऽऽत्मनः ॥ ३१ ॥ वर्यमङ्गलतूर्याणि, ताडिवानि सुरासुरैः । अपूरयन् दिशो नादैः पुष्करावर्त्तका इव ॥ ३२ ॥ चकाशे चामरद्वन्द्वं, पार्श्वतस्त्रिजगत्पतेः । नैर्मल्यमिव मूर्तिस्थं, परलोकेहलोकयोः ॥ ३३ ॥ १ यथा गुरुलघु मत्स्यानू मक्त्याः भक्षयन्ति तद्वद् राजानं विना लोका अपि एवं कुर्वन्ति । * भरतेशितुः सं १, २ खं ॥
5
10
15
20
25
६०
35
Jain Education International
[ प्रथम पर्व
For Private & Personal Use Only
www.jainelibrary.org