________________
द्वितीयः सर्गः
त्रिषष्ठिशलाकापुरुषचरितम् । अहो ! संसारकूपेऽस्मिन् , जीवाः कुर्वन्ति कर्मभिः । अरघट्टघीन्यायेनैहिरेयाहिराक्रियाम् ॥ १०२० ।। धिर धिग् मोहान्धमनसा, जन्मिनां जन्म गच्छति । सर्वथाऽपि मुधैवेदं, सुप्तानामिव शर्वरी ॥ १०२१॥ एते रागद्वेषमोहा, उद्यन्तमपि देहिनाम् । मूलाद् धर्म निकृन्तन्ति, मूषिका इव पादपम् ॥ १०२२ ॥ अहो ! विवय॑ते मुग्धैः, क्रोधो न्यग्रोधवृक्षवत् । अपि वर्द्धयितारं स्वं, यो भक्षयति मूलतः ॥ १०२३ ॥ न किश्चिन्मानवा मानाधिरूढा गणयन्त्यमी । मर्यादालचिनो हस्त्यारूढा हस्तिपका इव ॥ १०२४ ॥ 5 कपिकच्छ्बीजकोशीमिव मायां दुराशयाः । उपतापकरी नित्यं, न त्यजन्ति शरीरिणः ॥ १०२५ ॥ दुग्धं तुषोदकेनेवाऽञ्जनेनेव सितांशुकम् । निर्मलोऽपि गुणग्रामो, लोभेनैकेन दृष्यते ॥ १०२६ ॥ कषाया भवकारायां, चत्वारो यामिका इव । यावजाग्रति पार्श्वस्थास्तावन्मोक्षः कुतो नृणाम् ? ॥ १०२७॥ अङ्गनालिङ्गनव्यग्रा, भूतात्ता इव देहिनः । समन्ततः क्षीयमाणमप्यात्मानं न जानते ॥ १०२८ ॥ तत्तत्प्रकारैराहारैरात्मनोन्माद आत्मनः । उत्पाद्यतेऽनर्थकृते, सिंहारोग्यमिवौषधैः ॥ १०२९ ॥ 10 सुगन्धीदं सुगन्धीदं, किं श्रयामीति लम्पटः ? । मूढो भ्रमरवद् भ्राम्यन्न जातु लभते रतिम् ॥१०३०॥ आपातरमणीयैर्धिग् , रमणीप्रायवस्तुभिः । प्रतारयति लोकः खं, बालं क्रीडनकैरिव ॥ १०३१ ॥ वेणुवीणादिनादेषु, दत्तकर्णो निरन्तरम् । स्वार्थाद् भ्रश्यति निद्रालुरिव शास्त्रानुचिन्तनात् ॥ १०३२ ॥ युगपद् विषयैरेभिर्वातपित्तकफैरिव । लुप्यते प्रबलीभूतैश्चैतन्यं धिक् शरीरिणाम् ॥ १०३३ ॥
एवं संसारवैराग्यचिन्तासन्ततितन्तुभिः । निःस्यूतमानसो यावद् , बभूव परमेश्वरः ॥ १०३४ ॥ 15 तावत् सारखतादित्यवहयो वरुणा अपि । गर्दतोयोस्तुषिताश्चाऽव्याबाधा मरुतस्तथा ॥ रिष्टाश्चेति नवभेदा, ब्रह्मलोकान्तवासिनः । देवा लोकान्तिकाः पादान्तिकमेत्य जगत्प्रभोः ॥१०३६॥ मूर्ध्नि न्यस्तैरञ्जलिभिः, पद्मकोशसहोदरैः । आसूत्रितापरोत्तंसा, इवैवं ते व्यजिज्ञपन् ॥ १०३७॥
[चतुर्भिः कलापकम् ] शक्रचूडामणिविभाम्भोमनचरणाम्बुज ! । भरतक्षेत्रनिर्नष्टमोक्षमार्गप्रदीपक ! ॥ १०३८ ॥ लोकव्यवस्था प्रथमा, यथा नाथ ! प्रवर्तिता । प्रवर्त्तय तथा धर्मतीर्थ कृत्यं निजं स्मर ॥१०३९ ॥
एवं देवास्ते प्रभुं विज्ञपय्य, खं खं स्थानं ब्रह्मलोके दिवीयुः । प्रव्रज्येच्छुः खाम्यपि खं निशान्तं, सद्योऽयासीनन्दनोद्यानमध्यात् ॥ १०४० ॥
20
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि
भगवजन्म-व्यवहार-राज्यस्थितिप्रकाशनो नाम द्वितीयः सर्गः ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org