________________
1.
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व राज्याभिषेकात् प्रभृति, पृथिवीं परिपालयन् । त्रिषष्टिं पूर्वलक्षाणि, नाभिभूरत्यवाहयत् ॥ ९८४ ॥
प्रभुः सरकृतावासे, मधुमासे समेयुषि । अगादन्येधुरुधाने, परिवारानुरोधतः ॥९८५ ॥ पुष्पवासगृहे तत्र, पुष्पाभरणभूषितः । आसाञ्चके जगत्स्वामी, पुष्पमास इवाऽङ्गवान् ॥ ९८६ ॥ गुञ्जद्भिः फुल्लमाकन्दमकरन्दोन्मदालिभिः । मधुलक्ष्मीबभूवेव, स्वागतिकी जगत्प्रभोः ॥ ९८७ ।। पूर्वरङ्ग इवाऽऽरब्धे, पञ्चमोच्चारिभिः पिकैः । अदर्शयल्लतालास्यं, मलयानिललासकः ॥ ९८८ ॥ कामुकेभ्य इवाऽऽश्लेषपादपातमुखासवान् । ददुः कुरबकाऽशोकबकुलेभ्यो मृगेक्षणाः ॥९८९ ॥ तिलकः प्रबलामोदप्रमोदितमधुव्रतः। अशोभयद् युवभालस्थलीमिव वनस्थलीम् ॥ ९९० ॥ पुष्पस्तवकभारेण ननाम लवलीलता । पीनोरसिजभारेण, भूयसेव कृशोदरी ॥९९१ ॥ सहकारलतां मन्दमन्दं मुग्धां वधूमिव । विदग्धः कामुक इव, सखजे मलयानिलः ॥ ९९२ ॥ जम्बूकदम्बमाकन्दचम्पकाशोकयष्टिभिः । प्रवासिनो हन्तुमलं, याष्टीक इव मन्मथः ॥ ९९३ ॥ प्रत्यग्रपाटलापुष्पसम्पर्कसुरभीकृतः । वारिवत् कस्य न ददौ, मुदं मलयमारुतः १ ॥ ९९४ ॥ अन्तःसारो मधुरसैर्मधूको मधुभाण्डवत् । मधुपैरुपसर्पद्भिश्चके कलकलाकुलः ॥ ९९५ ॥ गोलिकाधनुरभ्यासं, कर्तुं कुसुमधन्वना । गोलिकाः सजिता मन्ये, कदम्बकुसुमच्छलात् ॥ ९९६ ॥
इष्टापूर्तप्रियेणेव, वसन्तेन प्रकल्पिता । वासन्ती भृङ्गपान्थानां, मकरन्दरसप्रपा ॥ ९९७ ॥ 15 सिन्दुवारेण दुर्वारकुसुमामोदसम्पदा । चक्रे घ्राणविषेणेव, महामोहः प्रवासिनाम् ॥ ९९८ ॥
वसन्तोद्यानपालेन, चम्पकेषु नियोजिताः । आरक्षा इव निःशङ्क, भ्रमन्ति स्म मधुव्रताः॥ ९९९ ॥ उत्तमानुत्तमानामप्यवनीरुहवीरुधाम् । श्रियं मधुर्दिदेश स्त्रीपुंसानामिब यौवनम् ॥ १००० ॥ तत्राऽवचेतुं कुसुमान्यारभन्त मृगीदृशः । महातिथेर्वसन्तस्य, दातुमर्षमिवोत्सुकाः ॥ १००१॥ अस्मास्वायुधभूतासु, सरस्याऽन्यैः किमायुधैः ? । इति बुद्धयेव कामिन्यः, कुसुमान्यवचिच्यिरे ॥१००२॥ उचितेषु च पुष्पेषु, तद्वियोगरुजार्दिता । अरोदीदिव वासन्ती, मञ्जुगुञ्जन्मधुव्रता ॥ १००३ ॥ मल्लीमुच्चित्य गच्छन्ती, काचित् तल्लग्नवाससा । तस्थौ निषिध्यमानेव, तया माऽन्यत्र गा इति ॥१००४॥ चम्पकं चिन्वती काचिदलियूनोत्पतिष्णुना । दश्यते स्माऽधरदले, क्रुधेवाऽऽश्रयभङ्गतः ॥१००५ ॥ उच्चैरुच्चैः सुमनसः, काचिदुत्क्षिप्तदोलता । जहार मनसा सार्द्ध, यूनां दोर्मूलदर्शिनाम् ॥ १००६ ॥
प्रत्यग्रपुष्पस्तवकसनाथीकृतपाणयः । रेजुः पुष्पावचायिन्यो, जङ्गमा इव वल्लयः ॥ १००७॥ 25 प्रतिशाखं विलग्नाभिः, पुष्पोच्चयकुतूहलात् । रेजिरे शाखिनः स्त्रीभिः, सञ्जातस्त्रीफला इव ॥ १००८॥
मल्लिकाकोरकैः कोऽपि, कामिन्याः स्वयमुच्चितैः । सर्वाङ्गाभरणं चक्रे, मुक्तादामविडम्बकम् ॥ १००९ ॥ प्रियायाः कोऽपि धम्मिल्लं, विकचैर्निजपाणिना । कुसुमैः पूरयामास, कुसुमेषोरिवेषुधिम् ॥१०१० ॥ पञ्चवर्णैः स कश्चिद् , ग्रथित्वा कुसुमैः स्वयम् । विडम्बितेन्द्रधनुषं, दत्त्वा कान्तामतोषयत् ॥१०११॥
सलीलं प्रियया कोऽपि, प्रक्षिप्तं पुष्पकन्दकम् । प्रतीच्छति स्म पाणिभ्यां, प्रसादमिव किङ्करः ॥१०१२॥ 30 दोलान्दोलनसञ्जातयातायाता मृगीदृशः। जनुः पादैः पादपायान् , सापराधान् पतीनिव ॥१०१३ ॥
दोलारूढा नवोदूढा, पृच्छन्तीनां धवाभिधाम् । काऽप्यालीनां लताघातान्, सेहे हीमुद्रितानना॥१०१४॥ कातराक्ष्या समं कश्चिदारूढः सम्मुखीनया । गाढमन्दोलयद् दोलां, तबाढालिङ्गनेच्छया ॥१०१५॥ प्रतिशाखं लम्बमानदोलान्दोलनलीलया । रेजुरुधानवृक्षेषु, युवानः प्लवगा इव ॥ १०१६ ॥
एवं खेलायमानेषु, तत्र पौरजनेष्वथ । दध्यौ खामी किमीक्षा, क्रीडाऽन्यत्रापि कुत्रचित् ? ॥१०१७॥ 35 जज्ञेऽथाऽवधिना स्वामी, स्वःसुखं चोत्तरोत्तरम् । अनुत्तरवर्गसुखं, भुक्तपूर्व स्वयं च यत् ।। १०१८ ।।
भूयोऽप्यचिन्तयदिदं, विगलन्मोहबन्धनः । पिगेष विषयाक्रान्तो, वेत्ति नाऽऽत्महितं जनः ॥१०१९ ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org