________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । कुम्भिकुम्भे मृदं न्यस्य, प्रवितन्य च पाणिना । पात्रं चक्रे तदाकारं, शिल्पानां प्रथमं प्रभुः ॥ ९५० ॥ स्वामीत्यूचे कुरुतैवं, भाजनान्यपराण्यपि । तान्यग्नौ न्यस्य पचतौषधीस्तदनु खादत ॥९५१॥ ततश्च चक्रिरे ते तु, तथैव स्वामिशासनम् । तदादि जज्ञिरे कुम्भकाराः प्रथमकारवः ॥ ९५२ ॥ चक्रे वर्द्धक्ययस्कार, गृहायर्थं जगत्पतिः । विश्वस्य सुखसृष्टय हि, महापुरुषसृष्टयः ॥ ९५३ ॥ गृहादिचित्रकृतये, कृती चित्रकृतोऽपि सः । सूत्रयामास लोकानां, क्रीडावैचित्र्यहेतुना ॥ ९५४ ॥ 5 कुविन्दान कल्पयामास, लोकसंव्यानहेतवे । सर्वकल्पद्रुमस्थाने, ह्येकः कल्पद्रुमः प्रभुः ॥ ९५५ ॥ रोम्णां नखानां वृद्ध्या च, वाध्यमाने भृशं जने । जगदेकपिता स्वामी, नापितानप्यसूत्रयत् ॥ ९५६ ॥ तानि पञ्चाऽपि शिल्पानि, प्रत्येकं विशिभेदतः । शतधा प्रासरल्लोके, स्रोतांसि सरितामिव ॥ ९५७ ॥ तृणहारकाष्ठहारकृपिवाणिज्यकान्यपि । कमाण्यासूत्रयामास, लोकानां जीविकाकृते ॥९५८ ॥ स्वामी सामदानभेददण्डोपायचतुष्टयम् । जगद्व्यवस्थानगरीचतुष्पथमकल्पयत् ॥ ९५९ ॥ 10 ___ द्वासप्ततिकलाकाण्डं, भरतं सोऽध्यजीगपत् । ब्रह्म ज्येष्ठाय पुत्राय, ब्रूयादिति नयादिव ॥९६०॥ भरतोऽपि स्वसोदस्तिनयानितरानपि । सम्यगध्यापयत् पात्रे, विद्या हि शतशाखिका ॥ ९६१ ॥ नाभेयो बाहुबलिनं, भिद्यमानान्यनेकशः । लक्षणानि च हस्त्यश्वस्त्रीपुंसानामजिज्ञपत् ॥ ९६२ ॥ अष्टादश लिपीाया, अपसव्येन पाणिना । दर्शयामास सव्येन, सुन्दर्या गणितं पुनः॥ ९६३ ॥ मानोन्मानाऽवमानानि, प्रतिमानानि वस्तुषु। पोतान् प्रोतांश्च मण्यादीन , प्रभुः प्रावर्तयत् तदा ॥९६४ ॥15 राजाध्यक्षकुलगृहसाक्षिभिः समजायत । व्यवहारस्तदादिष्टो, विवादिप्रतिवादिनाम् ॥ ९६५ ॥ नागाद्यर्चा धनुर्वेदश्चिकित्सोपासने रणः । अर्थशास्त्रं बन्धघातवधगोष्ठयस्ततोऽभवन् ॥ ९६६ ॥ असौ माता पिता भ्राता. भार्या पत्रो गहं धनम । ममेत्यादि च ममताऽभजनानां तदादिका॥९६७॥ दृष्ट्वा स्वामिनमुद्वाहे, प्रसाधितमलङ्कृतम् । प्रासाधयदलचके, लोकोऽपि स्वं ततः परम् ॥ ९६८ ॥ तदा दृष्ट्वा प्रभुकृतं, पाणिग्रहणमादिमम् । लोकोऽपि कुरुतेऽद्यापि, ध्रुवो ह्यध्वा महत्कृतः ॥ ९६९॥ 20 दत्तकन्योपयमनं, प्रभूद्वाहात् प्रभृत्यभूत् । चूडोपनयनक्ष्वेडापृच्छा अपि ततोऽभवन् ।। ९७० ॥ एतच्च सर्व सावद्यमपि लोकानुकम्पया । स्वामी प्रवर्त्तयामास, जानन् कर्त्तव्यमात्मनः ॥ ९७१ ॥ नदाम्नायात् कलादीदमद्यापि भुवि वर्तते । अर्वाचीनैर्बुद्धिमद्भिर्निबद्धं शास्त्ररूपतः ॥ ९७२ ॥ स्वामिनः शिक्षया दक्षो, लोकोऽभूदखिलोऽपि सः । अन्तरेणोपदेष्टारं, पशुवन्ति नरा अपि ॥ ९७३ ॥
तदोन-भोग-राजन्य-क्षत्रभेदैश्चतुर्विधान् । जनानासूत्रयद् विश्वस्थितिनाटकसूत्रभृत् ॥ ९७४ ॥ 25 आरक्षपुरुषा उग्रा, उग्रदण्डाधिकारिणः । भोगा मत्र्यादयो भर्तुत्रायस्त्रिंशा हरेरिव ॥ ९७५ ॥ राजन्या जज्ञिरे ते ये, समानवयसः प्रभोः । अवशेषास्तु पुरुषा, बभूवुः क्षत्रिया इति ॥ ९७६ ॥ विरचय्य नवामेवं, व्यवहारव्यवस्थितिम् । नवोढामिव बुभुजे, नवां राज्यश्रियं विभुः ॥ ९७७ ॥ यथाऽपराधं दण्ड्येषु, दण्डं प्रायुत नाभिभूः । व्याधितेषु यथा व्याधिचिकित्सक इवाज्गदम् ॥९७८॥ दण्डभीतस्तदालोकश्चक्रे चौर्यादिकं न हि । एकैव दण्डनीतिर्हि, सर्वान्यायाहिजाङ्गुली ॥ ९७९ ॥ 30 क्षेत्रोद्यानगृहादीनां, मर्यादां कोऽपि कस्यचित् । नाऽत्यक्रामत् प्रभोराज्ञामिव लोकः सुशिक्षितः॥९८०॥ कालेऽवर्षजलधरः, सस्यनिष्पत्तिहेतवे । न्यायधर्म जगद्भर्तुर्गर्जाव्याजात् स्तुवन्निव ॥ ९८१॥ सस्यक्षेत्ररिक्षुबाटैर्गोकुलैश्वाऽऽकुलास्तदा । रेजुर्जनपदाः स्वा, स्वाम्यगर्दाभिधायिनः ॥ ९८२ ॥ हेयादेयविवेकज्ञीकृतैलॊकैर्व्यधाद् विभुः । प्रायेण भरतक्षेत्रं, विदेहक्षेत्रसनिभम् ॥ ९८३ ॥
* लोकानां गृहहेतोश्च, प्रभुळधित वर्द्धकीन् आ॥ १ तन्तुवायकान् । + विंशभे सं १, २, आ॥ २ परमतत्वम् । ३ दक्षिणेन । 'न्मानप्रमाणानि सं १ ॥ ४ गजादिपूजा। ५ स्थिरः। ६ पशुवदाचरन्ति । ७ सर्पोच्चाटनी मनविद्या ।
त्रिषष्टि. ८
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org