________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व तत्रोच्चैः काञ्चनैहम्यरुशैलशिरांस्यभि । पत्रालम्बनलीलेव, ध्वजव्याजाद् वितन्यते ॥ ९१५ ॥ तद्वप्रे दीप्तमाणिक्यकपिशीर्षपरम्पराः । अयत्नादर्शतां यान्ति, चिरं खेचरयोषिताम् ॥ ९१६ ॥ तस्यां गृहाङ्गणभुवि, स्वस्तिकन्यस्तमौक्तिकैः । खैरं कर्करकक्रीडां, कुरुते बालिकाजनः ॥९१७॥
तत्रोद्यानोच्चवृक्षाग्रस्खल्यमानान्यहर्निशम् । खेचरीणां विमानानि, क्षणं यान्ति कुलायताम् ॥ ९१८ ॥ 5 तत्र दृष्ट्वाऽदृहर्येषु, रत्नराशीन् समुच्छ्रितान् । तंदवकरकूटोऽयं, तय॑ते रोहणाचलः ॥ ९१९ ॥
जलकेलिरतस्त्रीणां, त्रुटितैरिमौक्तिकैः । ताम्रपर्णीश्रियं तत्र, दधते गृहदीर्घिकाः ॥ ९२० ॥ तत्रेभ्याः सन्ति ते येषां, कस्याऽप्येकतमस्य सः । व्यवहर्तुं गतो मन्ये, वणिकपुत्रो धनाधिपः ॥ ९२१ ॥ नक्तमिन्दुदृषद्भित्तिमन्दिरस्यन्दिवारिभिः । प्रशान्तपांसवो रथ्याः, क्रियन्ते तत्र सर्वतः ॥ ९२२ ॥ वापीकूपसरोलक्षैः, सुधासोदरवारिभिः । नागलोकं नवसुधाकुण्डं परिवभूव सा ॥ ९२३ ॥ गतायां जन्मतः पूर्वलक्षाणां विंशतौ तदा । तस्यां नगर्या राजाऽभूत् , प्रभुः पालयितुं प्रजाः ॥९२४ ॥ ॐकार इव मन्त्राणां, नृपाणां प्रथमो नृपः । अपत्यानि निजानीव, पालयामास स प्रजाः ॥ ९२५ ॥ असाधुशासने साधुपालने कृतकर्मणः । प्रत्यङ्गानि स्वकानीव, मत्रिणो विदधे विभुः ॥ ९२६ ॥ चौर्यादिरक्षणे दक्षानारक्षानप्यसूत्रयत् । सुत्रामेव लोकपालान् , राजा वृषभलाञ्छनः ॥ ९२७ ॥
अनीकस्याङ्गमुत्कृष्टमुत्तमाङ्गं तनोरिव । राज्यस्थित्यै राजहस्ती, हस्तिनः स समग्रहीत् ॥ ९२८ ।। __ आदित्यतुरगस्पर्द्धयेवात्युद्धरकन्धरान् । बन्धुरान् धारयामास, तुरगान् वृषभध्वजः ॥ ९२९ ॥
सुश्लिष्टकाष्ठघटितान् , स्यन्दनान् नाभिनन्दनः । विमानानीव भूस्थानि, सूत्रयामास च स्वयम् ॥९३०॥ सुपरीक्षितसत्त्वानां, पत्तीनां च परिग्रहम् । नाभिसूनुस्तदा चक्रे, चक्रवर्तिभवे यथा ॥ ९३१ ॥ नव्यसाम्राज्यसोधस्य, स्तम्भानिव बलीयसः। अनीकाधिपतींस्तत्र, स्थापयामास नाभिभूः॥ ९३२॥ गो-बलीवर्द-करभ-सैरिभा-ऽश्वतरादिकम् । आददे तदुपयोगविदुरो हि जगत्पतिः ॥९३३ ॥ कल्पद्रप समच्छन्नेष्वनपत्यान्वयेष्विव । कन्दमलफलादीनि, तदा बुभुजिरे जनाः ॥९३४॥ शालि-गोधूम-चणक-मुद्गाद्या ओषधीरपि । तृणवत् स्वयमुत्पन्नास्ते चखादुरपाकिमाः ॥९३५ ॥ तस्मिन्नजीर्यत्याहारे, तैर्विज्ञप्तोऽवदद् विभुः । मृदित्वा त्वचयित्वा च, हस्तैस्ताः खादताऽधुना ॥ ९३६ ॥ उपदेशं जगद्भर्तुस्तेषां पालयतामपि । काठिन्यादोषधीनां तु, नाऽऽहारो जीर्यति स्म सः ॥ ९३७ ॥
तैर्विज्ञप्तः पुनः स्वामीत्यूचे सङ्घष्य पाणिभिः । तास्तिमित्वा जलैः पत्रपुटे धृत्वा च खादत ॥ ९३८ ॥ 25 ते तथा चक्रिरे तत्राऽप्यजीर्णाहारवेदनाम् । तैर्विज्ञप्तो जगन्नाथः, पुनरप्येवमादिशत् ॥ ९३९ ॥
पूर्वोक्तविधिमाधायौषधीर्मुष्टौ निधाय च । आतपे कक्षयोः क्षिप्त्वा, भक्षयन्तु ततः सुखम् ॥ ९४० ॥ तत्राऽप्यजीर्णाहारेण, विधुरेषु जनेष्वथ । तरुखण्डे मिथः शाखाघर्षणादग्निरुत्थितः ॥ ९४१ ॥ तृणकाष्ठादि स प्रोपंन् , दीप्ररत्नभ्रमेण तु । धावित्वाऽऽदातुमारेभे, प्रसारितकरैर्जनैः ॥ ९४२ ॥
तेनाग्निना दह्यमाना, भीताः प्रभुमुपेत्य ते । नूतनं भूतमुद्भूतं, किञ्चिदप्येवमूचिरे ॥ ९४३ ॥ 30 स्वाम्यप्यूचे स्निग्धरूक्षकालादेषोऽग्निरुत्थितः । नैकान्तरूक्षे नैकान्तस्निग्धे काले भवत्यसौ ॥ ९४४ ॥
स्थित्वाऽस्य पार्श्वतो वह्ने, पर्यन्तस्थं तृणादिकम् । अपसारयताऽशेष, पश्चाद् गृह्णीत तं ननु ॥ ९४५॥ ततः पूर्वोक्तविधिना, साधयित्वौषधीरिमाः । ज्वलनेऽस्मिन् परिक्षिप्य, परिपच्य च खादत ॥ ९४६ ॥
ते तथा चक्रिरे मुग्धा, दग्धाश्चौषधयोऽग्निना । आगत्य कथयामासुरिति च स्वामिने पुनः ॥ ९४७ ॥ ___ स्वामिन् ! न किञ्चिदस्मभ्यं, ददात्येष बुभुक्षितः । कुक्षिम्भरिरिवैकोऽत्ति, क्षिप्ताः सर्वत ओषधीः॥९४८॥ 35 तदानीं सिन्धुरस्कन्धाधिरूढः प्रभुरप्यभूत् । तैः समानाययामास, मृत्तिकापिण्डमाकम् ॥ ९४९ ॥
* दीप्रमा' सं १, २॥ तिदावकरकू आ, सं २ ॥ ग्लोषन् संता ॥
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org