________________
द्वितीयः सर्गः ]
त्रिषष्ठिशलाकापुरुषचरितम् । __ एवं निवर्तितोद्वाहः, प्रभुं नत्वा स्वमाश्रयम् । ययौ समाप्तसङ्गीतो, रङ्गाचार्य इवाऽद्रिभित् ।। ८८० ॥ ततः प्रभृति सोद्वाहस्थितिः स्वामिप्रदर्शिता । प्रावर्तत पराय, महतां हि प्रवृत्तयः ॥ ८८१॥ भोगान् स्वाम्यप्यनासक्तः, पत्नीभ्यां बुभुजे चिरम् । सवेंदनीयमपि हि, न कर्म क्षीयतेऽन्यथा ॥८८२॥ विवाहाऽनन्तरं ताभ्यां, समं विलसतः प्रभोः। गतेपु किश्चिदूनेषु, पूर्वलक्षेषु पदस्वथ ॥ ८८३ ॥ बाहुजीवपीठजीवौ, च्युत्वा सर्वार्थसिद्धतः । कुक्षौ सुमङ्गलादेव्या, युग्मत्वेनाऽवतेरतुः ॥ ८८४ ॥ तौ सुबाहुमहापीठजीवौ सर्वार्थसिद्धतः । च्युत्वा कुक्षौ सुनन्दायास्तद्वदेवाऽवतेरतुः ॥ ८८५ ॥ चतुर्दश महास्वामान्, गर्भमाहात्म्यशंसिनः । तदैव मादेवीव, देव्यपश्यत् सुमङ्गला ॥ ८८६ ॥ स्वामिनी स्वामिने स्वमान् , कथयामास तानथ । चक्रभृत् ते सुतो भावीत्याख्यत् प्रभुरपि स्फुटम् ॥८८७।। सूर्यसन्ध्ये इव प्राची. द्यतिधोतितदिअखे । अपत्ये भरतनायो, सुषवेऽथ सुमङ्गला ॥८८८॥ अजीजनद् बाहुबलि-सुन्दयौं सुन्दराकती। सुनन्दा स्वामिनी प्रावृडिव वारिदविद्युतौ ।। ८८९ ॥ 10 देवी सुमङ्गलैकोनपञ्चाशतमथ क्रमात् । असूत मुतयुग्मानि, रत्नानीय विदूरभूः ॥ ८९० ॥ अवर्धन्त क्रमेणाऽमी, रममाणा इतस्ततः । महौजसो महोत्साहा, विन्ध्याद्रौ कलभा इव ॥ ८९१ ॥ शुशुभे वृषभस्वामी, समन्तात् परिवारितः । तैरपत्यैर्महाशाखी, शाखाभिरिव भूरिभिः ॥ ८९२॥
तदा च कालदोषेण, प्रभावः कल्पभूरुहाम् । अहीयत प्रदीपानामिव तेजो दिवामुखे ॥ ८९३ ॥ प्रादुरासन कपायाश्च, मिथुनानां क्रुदादयः । लाक्षाकणा इवाऽश्वत्थपादपानां शनैः शनैः ॥ ८९४ ॥ 15 अथ हाकारमाकारधिक्काराख्यं नयत्रयम् । यतत्रयमिव व्याला, मिथुनान्यत्यलङ्घयन् ॥ ८९५॥ . सम्भूय ऋषभनाथं, मिथुनान्युपतस्थिरे । तच्चाऽसमञ्जसं सर्व, जायमानं व्यजिज्ञपन् ॥ ८९६॥ ज्ञानत्रयधरो जातिस्मरः स्वामीत्यवोचत । मयांदोल्लविनां लोके, राजा भवति शासिता ॥ ८९७ ॥ आसयित्वाऽऽसनेऽत्युच्चेऽभिषिक्तः प्रथमं हि सः । चतुरङ्गवलोपेतः, सादखण्डितशासनः ॥ ८९८ ॥ तेऽप्यूचुर्भव राजा नस्त्वमेव किमुपेक्षसे ? । ईक्ष्यते नाऽपरः कोऽपि, मध्येऽस्माकं य ईदृशः ॥ ८९९ ॥ 20 अभ्यर्थयध्वमभ्येत्य, नाभिं कुलकरोत्तमम् । स वो दास्यति राजानमित्यभाषत नाभिभूः ॥ ९००॥ राजानं याचितस्तैस्तु, नाभिः कुलकराग्रणीः । भवतामृषभो राजा, भवत्विति जगाद तान् ॥ ९०१॥ अथो मिथुनधर्माणो, मुदिताः समुपेत्य ते । अस्माकं नाभिना राजार्पितोऽसीत्यूचिरे प्रभुम् ॥ ९०२ ॥ __ ततः स्वाम्यभिपेकार्थ, तेऽयुनीराय युग्मिनः । सिंहासनं चाऽकम्पिष्ट, त्रिविष्टपपतेस्तदा ॥ ९०३ ॥ विज्ञायाऽवधिना राज्याभिषेकसमयं प्रभोः । तत्राऽऽजगाम सुत्रामा, गेहाद् गेहमिव क्षणात् ॥ ९०४ ॥ 25 सौधर्मकल्पाऽधिपतिः, क्लस्वा काञ्चनवेदिकाम् । अतिपाण्डुकम्बलावत्, तत्र सिंहासनं न्यधात् ॥९०५॥ राज्याभिषेकमृषभवामिनः पूर्वदिक्पतिः । देवानीतैस्तीर्थतोयैः, सौवस्तिक इव व्यधात् ॥ ९०६ ॥ स्वामिना वासयाञ्चके, दिव्यवासांसि वासवः । चारुचन्द्रातपमयानीव नैर्मल्यसम्पदा ।। ९०७ ।। प्रभोर्जगत्किरीटस्य, किरीटादीनि वृत्रहा । रत्नालङ्करणान्यङ्गे, यथास्थानं न्यवेशयत् ॥ ९०८ ॥ आजग्मुर्युग्मिनोऽप्यम्भो, गृहीत्वाऽम्भोजिनीदलैः । उदर्घा इव तस्थुस्ते, पश्यन्तो भूषितं प्रभुम् ॥९०९ ।। 30 दिव्यनेपथ्यवस्त्रालङ्कृतस्य शिरसि प्रभोः । न युज्यते क्षेप्नुमिति, तेऽक्षिपन् पादयोः पयः ॥ ९१० ॥ विनीताः साध्वमी तेन, विनीताख्यां प्रभोः पुरीम । निर्मातं श्रीदमादिश्य, मघवा त्रिदिवं ययौ ॥११॥
द्वादशयोजनायामां, नवयोजनविस्तृताम् । अयोध्येत्यपराभिख्यां,विनीतां सोऽकरोत् पुरीम् ॥९१२।। तां च निर्माय निर्मीयः, पूरयामास यक्षराट् । अक्षय्यवस्त्रनेपथ्यधनधान्यैर्निरन्तरम् ॥ ९१३ ॥ वजेन्द्रनीलवैडूर्यहर्म्य किरिरश्मिभिः । भित्तिं विनाऽपि खे तत्र, चित्रकर्म विरच्यते ॥ ९१४ ॥ 35 १ इन्द्रस्य । २ पुरोहितः। * मूर्तच संता ॥ ३ इन्द्रः। ४ निष्कपटः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org