________________
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व शम्यश्वत्थत्वचौ पिष्टवा, हस्तालेपं ततः स्त्रियः । निदधुः कन्ययोः पाणौ, स्मरद्रोरिव दोहदम् ॥ ८४६ ॥ शुभलग्नोदये तूर्णमविहस्तस्ततः प्रभुः । हस्तालेपयुतौ हस्तौ, हस्ताभ्यामग्रहीत् तयोः ॥ ८४७॥ हस्तसम्पुटमध्यस्थहस्तालेपान्तरूमिकाम् । चिक्षेप तत्र सुत्रामा, पल्वले शालिबीजवत् ॥ ८४८॥ ताभ्यामुभाभ्यामुभयहस्तात्ताभ्यां बभौ विभुः । शाखाद्वितयलग्नाभ्यां, लताभ्यामिव पादपः॥ ८४९ ॥ वधूवरदृशोऽन्योऽन्यं, तारामेलकपर्वणि । सरित्पतिसरित्तोयानीवाभिमुखमापतन् ॥ ८५० ॥ दृष्टिदृष्ट्या तदानीं च, निर्वातजलनिश्चला । मनसेव मनस्तेषां, परस्परमयुज्यत ।। ८५१ ॥ कनीनिकासु तेऽन्योऽन्यं, रेजिरे प्रतिबिम्बिताः । प्रविशन्त इवाऽन्योऽन्यं, हृदयेष्वनुरागतः ॥ ८५२ ॥
इतवाऽनुचरीभूय, सुराः सामानिकादयः । पार्श्वेष्वस्थुः प्रभोमेरोरिव विद्युत्प्रभादयः ॥ ८५३ ॥ वधूट्योः पारिपार्श्विक्यश्चतुरा नर्मकर्मणि । एवं कौतुकधवलान्, गातुमारेभिरे स्त्रियः ॥ ८५४ ॥ ज्वरीवाऽब्धि शोषयितुं, मोदकान् परिखादितुम् । श्रद्धालुरनुवरको, मनसा केन नन्वसौ ? ॥ ८५५ ॥ मण्डकेभ्योऽखण्डदृष्टिः, कान्दकस्येव कुकरः । स्पहयालरनवरो. मनसा केन नन्वसौ ?॥८५६ आजन्मादृष्टपूर्वी किं, वटकान् रोरबालवत् ? । श्रद्धत्तेऽत्तुमनुवरो, मनसा केन नन्वसौ ? ॥ ८५७ ॥ तोयानां चातक इव, धनानामिव याचकः । पूगानां श्राद्धोऽनुवरो, मनसा केन नन्वसौ ? ॥ ८५८ ॥ ताम्बूलवल्लीपत्राणां, तृणानामिव तणेकः । श्रद्धालुरद्याऽनुवरो, मनसा केन नन्वसो ? ॥ ८५९ ॥ हैयङ्गवीनपिण्डस्य, बिडाल इव लम्पटः । श्राद्धश्शूर्णस्याऽनुवरो, मनसा केन नन्वसौ ? ॥ ८६० ।। विलेपनस्य केदारकर्दमस्येव कासरः । श्रद्धां दधात्यनुवरो, मनसा केन नन्वसौ ? ॥ ८६१॥ निर्माल्यानामिवोन्मत्तो, माल्यानां लोललोचनः । श्रद्धानुबन्ध्यनुवरो, मनसा केन नन्वसौ ? ॥ ८६२ ॥ एवं कौतुकधवलान्, कौतुकोत्कर्णिताननाः । आकर्णयन्तोऽस्थुलेखा, आलेख्यलिखिता इव ।। ८६३ ॥
लोकेषु व्यवहारोऽयं, दर्शनीय इति प्रभुः । विवाद इव मध्यस्थस्तदुपेक्षितवांस्तदा ॥ ८६४ ।। 20 नावोरिवाञ्चलो देव्योरञ्चलाभ्यां जगत्पतेः । महाप्रवहणस्येव, बबन्ध बॅलसूदनः ॥ ८६५ ॥
कट्यां स्वामिनमारोह्याऽऽभियोगिक इवाऽमरः । अमराधिपतिर्भक्त्याऽचलद् वेदिगृहं प्रति ॥ ८६६ ॥ इन्द्राणीभ्यां द्रुतं देव्यावप्यारोह्य कटीतटे । अवियोजितहस्ताग्रं, चालिते स्वामिना समम् ॥ ८६७॥ शिरोरत्नैत्रिजगतस्ते तैः सह वधूवरैः । पूर्वद्वारेण विविशुर्मध्येवेदिनिकेतनम् ।। ८६८ ॥
त्रायस्त्रिंशसुरस्तत्र, वह्निमहाय कोऽप्यथ । आविश्चक्रे वेदिकुण्डे, पृथ्वीमध्यादिवोत्थितम् ।। ८६९ ॥ 25 समिदाधानतो धूमलेखा व्यानशिरे दिवम् । कर्णावतंसतां यान्त्यश्चिरं खेचरयोषिताम् ॥ ८७० ॥
तमग्निं परितोऽभ्राम्यत, स्वामी स्त्रीगीतमङ्गलः । सुमङ्गलासुनन्दाभ्यां, यावत् पूर्णाष्टमङ्गली ॥ ८७१॥ सहैव पाणिमोक्षेण, तेषामञ्चलमोक्षणम् । गीयमानाभिराशीर्भिः, कारयामास वासवः ॥ ८७२ ॥ सैंकलत्रोऽथ मघवा, हस्ताभिनयलीलया । ननर्त रंगाचार्यन्ति, स्वाम्युत्सवभवा मुदः ॥ ८७३ ॥
तमन्वनृत्यन् मुदिता, अपरेऽपि दिवौकसः । मरुता नर्तितं वृक्षमन्वाश्रितलता इव ॥ ८७४ ॥ 30 कैश्विजयजयारावकारिभिश्चारणैरिव । कैश्चिद् विचित्रचारीकं, नृत्यद्भिर्भरतैरिव ॥ ८७५ ॥
गन्धर्वैरिव गायद्भिरपरैर्जातिबन्धुरम् । वादयद्भिर्मुखान्यन्यैरातोद्यानीव सुस्फुटम् ॥ ८७६ ॥ सम्भ्रमेण प्लवमानैः, प्लवगैरिव कैश्चन । हासयद्भिर्जनं सर्वमन्यै(हासिकैरिव ॥ ८७७ ॥ अपसारयद्भिर्लोकं, प्रतीहारैरिवाऽपरैः । हर्षोन्मत्तैः सुरैरेवं, दर्यमानस्वभक्तिकः ॥ ८७८ ॥ सुमङ्गलासुनन्दाभ्यां, भूपितोभयपार्श्वकः । दिव्ययानाधिरूढोऽथ, स्वस्थानमगमद् विभुः ॥ ८७९ ॥
[पञ्चभिः कुलकम् ] १ अव्याकुलः। २ इन्द्रः। ३ हास्यकर्मणि । ४ अनुवरको लोके "अणवर" इति प्रसिद्धः। ५रवाककवत् । ६ देवाः। .इन्द्रः। * सपत्नीकोऽथ आ॥ रिक्षाचार्यवत् ॥ रजाचार्षपदाचरन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org