________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । पारिणेत्राणि वस्त्राणि, ताभ्यां ताः पर्यधापयन् । लम्बमानदशाश्रेणिन्यकृतेन्दुकराण्यथ ॥ ८१३ ॥ तयोरधिशिरो न्यासन् , विचित्रमणिभासुरौ । ताः किरीटौ पुष्पदन्ती, पूर्वापरदिशोरिव ॥ ८१४ ॥ तत्कर्णयोर्मणिमयावतंसौ ता न्यवीविशन् । रत्नाङ्करितमेरुवीगर्वसर्वस्वतस्करौ ॥ ८१५ ॥ ताः समारोपयामासुर्दिव्ये मौक्तिककुण्डले । तत्कर्णलतयोर्नव्यपुष्पगुच्छविडम्बिनी ॥ ८१६ ॥ निष्कं ताश्चित्रमाणिक्यदीप्तिदन्तुरिताम्बरम् । सङ्क्षिप्तेन्द्रधनुर्लक्ष्मीहरं कण्ठे न्यधुस्तयोः ॥ ८१७॥ हारमारोपयामासुरधिस्तनतटं तयोः । आतन्वानं स्थलारोहदवरोहन्नदीभ्रमम् ॥ ८१८॥ भुजयोर्योजयामासुः, केयूरे रत्नमण्डिते । पुष्पवाणधनुर्बद्धवीरपट्टोपमे तयोः ॥ ८१९ ॥ आमुक्तौ च तयोर्मुक्ताकङ्कणी पाणिमूलयोः । आवालाविव पानीयशालिनौ लतयोस्तले ॥ ८२० ॥ प्रक्वणत्किङ्किणीश्रेणिं, श्रोणी व्यश्राणयंस्तयोः । मणिकाञ्ची रतेर्देव्या, इव मङ्गलपाठिकाम् ॥ ८२१ ॥ तयोरारोपयामासुः, पादयो रत्ननूपुरौ । झणज्झणिति कुर्वाणी, स्तुवन्ताविव तद्गुणान् ॥ ८२२ ॥ 10 सञ्जयित्वैवमुत्पाट्य, देव्यौ देवीजनेन ते । नीत्वा मातृगृहस्थाऽन्तरासिते काञ्चनासने ॥ ८२३ ॥
विवाहसजीभवनायोपेत्य नमुचिद्विषा । विज्ञप्यमानो निर्बन्धात्, प्रभुवृषभलाञ्छनः ॥ ८२४ ॥ दर्शनीया स्थितिलॊके, भोक्तव्यं भोग्यकर्म च । अस्ति मे चिन्तयित्वैवमन्वमन्यत तद्वचः ॥ ८२५ ॥
[युग्मम् ] अथ स्वामी महेन्द्रेण, स्नपयित्वा विलिप्य च । यथाविधि विधिज्ञेन, भूपितो भूपणादिना ॥८२६॥ 15 वेत्रिणेव महेन्द्रेण, शोध्यमानायवर्त्मकः । उत्तार्यमाणलवणः, पार्श्वयोरप्सरोजनैः ॥ ८२७ ॥ इन्द्राणीभिर्गीयमानश्रेयोधवलमङ्गलः । सामानिकादिदेवीभिः, क्रियमाणावतारणः ॥ ८२८ ॥ गन्धवौंधैर्वाद्यमानातोद्यः सद्योभुवा मुदा । स्वामी दिव्येन यानेन, मण्डपद्वारमाययौ ।। ८२९ ।। खामी स्वयं विधिज्ञोऽथ, यानादुत्तीर्य तत्र तु । अब्धिवेलेव मर्यादालताभूमाववास्थित ।। ८३० ॥ तत्र त्रिदशनाथेन, दत्तवाहुर्वभौ विभुः । महीरुहमवष्टम्भ्य, स्तम्बेरम इव स्थितः ॥ ८३१ ॥ 20 तटवटिति कुर्वाणलवणानलगर्भितम् । सरावसम्पुटं द्वारि, मुमुचुर्मण्डपस्त्रियः ।। ८३२ ॥ रूप्यस्थालं च दूर्वादिमङ्गल्यद्रव्यलाञ्छितम् । काऽप्यने धारयामास, राकेव मृगलाञ्छनम् ॥ ८३३ ॥ पञ्चशाखेन वैशाखं, प्रत्यक्षमिव मङ्गलम् । उत्क्षिप्याऽर्घाय काऽप्यग्रे, कौसुम्भवसनाऽभवत् ।। ८३४ ।। देह्यर्घमर्घदेऽर्ध्याय, क्षणं म्रक्षणमुत्क्षिप । स्थालादुद्धहि च दधि, पीयूपमुदधेरिव ॥ ८३५ ॥ सुन्दरे ! नन्दनाऽऽनीतचन्दनद्रवमुन्नय । आहृतां भद्रशालोा , दूर्वां समृदमुद्धर ॥ ८३६ ॥ 25 मिलल्लोकेक्षणश्रेणिजातजङ्गमतोरणः । तोरणद्वारि नन्वेप, जगत्रयवरो वरः ॥ ८३७ ॥ ऊध्वस्तिष्ठत्युत्तरीयाच्छादिताशेषविग्रहः । गङ्गातरङ्गान्तरितराजहंसयुवोपमः ॥ ८३८ ॥ वातेनोद्वान्ति पुष्पाणि, चन्दनं च विशुष्यति । तद्द्वारि सुन्दरि ! चिरं, वरं मा धर मा धर ।। ८३९ ।। देवस्त्रीभिर्गीयमानेषच्चकैर्धवलेष्विति । अर्घ त्रिजगदाय, ददावथ वराय सा ।। ८४० ॥
. [पभिः कुलकम् ] 30 प्रारब्धधवलेवोच्चः, कणद्भिर्भुजकङ्कणैः । मंथा चुचुम्ब बिम्बोष्ठी, त्रिलं त्रिजगत्पतेः ॥ ८४१ ।। सरावसम्पुटं साग्निं, हिमकर्परलीलया । पदा सपादुकेनाऽथ, वामेनाऽदलयद् विभुः ॥ ८४२ ॥ ततस्तयाऽर्षदायिन्या, कण्टे कौमुम्भवाससा । प्रक्षिप्तेनाऽऽकृष्यमाणो, ययौ मातृगृहं प्रभुः ॥ ८४३॥ कन्देन मदनस्येव, मदनेनोपशोभितम् । वधूवरस्य हस्तेपु, हस्तसूत्रमबध्यत ।। ८४४ ॥ अग्रतो मातृदेवीनामथोचेः काञ्चनासने । आसाश्चक्रे प्रभुमेरुशिलायामिव केसरी ।। ८४५॥ 35 १चन्द्रसूर्यो। २ कण्ठाभरणम् । ३ मन्थानेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org