________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्य प्रणीतं
[ प्रथमं पर्व
क्वचिनीलशिलारश्मिप्ररोहैः सोऽतिहारिभिः । पुनरुक्तोप्तमङ्गल्ययवाङ्कुर इवाऽऽबभौ ॥ ७७९ ॥ क्वचिन्मरकतक्षोणिरश्मिदण्डैरखण्डितैः । आर्द्रापनीतमङ्गल्यवंशशङ्कां दिदेश सः ॥ ७८० ॥ श्वेतदिव्यांशुकोल्लोचच्छलेन गगनस्थया । गङ्गयेवाऽऽश्रितः सोऽभूत्, तत्कौतुकदिदृक्षया ॥ ७८१ ॥ उल्लोचं परितस्तं च, लम्बिता मौक्तिकस्रजः । अष्टानां ककुभां हर्षहसितानीव रेजिरे ॥ ७८२ ॥ 5 चतस्रो रत्नकलस श्रेणयोऽभ्रंलिहाग्रकाः । पर्यष्ठाप्यन्त देवीभिर्निधानानि रतेरिव ॥ ७८३ ।।
आर्द्राः शुशुभिरे वंशाः, कुम्भावष्टम्भदायिनः । विश्वावष्टम्भदखामिवंशवृद्धेर्नु सूचकाः ॥ ७८४ ॥ आरभख स्रजो रम्भे !, दुर्वामुर्वशि ! सञ्जय । घृताचि ! घृतदध्यादि, वरार्घाय समाहर ।। ७८५ ।। मञ्जुघोषे ! मञ्जुघोषयाऽऽलीर्घवलमङ्गलान् । त्वं सुगन्धे ! सुगन्धीनि वस्तूनि प्रगुणीकुरु ॥ ७८६ ॥ स्वस्तिकानुत्तमान् द्वारदेशे देहि तिलोत्तमे । । मेने ! सम्मानयाऽऽयातानुचितालापभङ्गिभिः ।। ७८७ ॥ 10 सुकेशि ! केशाभरणं, वधूवरकृते धर । सहजन्ये ! जन्ययात्रानृणां स्थानं प्रदर्शय ।। ७८८ ।।
चित्रलेखे ! लिखाऽऽलेख्यं, विचित्रं मातृवेश्मनि । प्रगुणीकुरु तूर्णं त्वं, पूर्णपात्राणि पूर्णिनि ! ||७८९ ॥ पुण्डरीके ! पुण्डरीकैः, पूर्णकुम्भान् विभूषय । त्वं स्थापय यथास्थानमम्लोचे ! वरमञ्चिकाम् ।। ७९० ।। आपादय हंसपादि !, त्वं वधूवरपादुकाः । त्वं पुञ्जिकास्थले ! वेदिस्थलीं लिम्पाऽऽशु गोमयैः ।।७९१ ॥ रामे ! किं रमसेऽन्यत्र !, हेमे ! किं हेम वीक्षसे ? । ऋतुस्थले ! प्रमत्तेव, किमसि त्वं विसंस्थुला १ ।। ७९२ ॥ किं चिन्तयसि मारीचि !?, सुमुख्यसि किमुन्मुखी । किमर्वाग् नाऽसि गान्धर्वि!?, दिव्ये! दीव्यसि किं मुधा! आसन्नं वर्त्तते लग्नं, ननु सर्वात्मना ततः । स्खे स्खे त्वरध्वं कर्त्तव्ये, विवाहोचितकर्मणि ।। ७९४ ॥ मिथ इत्यादिशन्तीनां, नामग्राहं मुहुर्मुहुः । सरसोऽप्सरसां जज्ञे तुमुलस्तत्र सम्भ्रमात् ॥ ७९५ ।। [ एकादशभिः कुलकम् ]
सुमङ्गलां सुनन्दां च मङ्गलस्नानहेतवे । ततश्वाऽप्सरसः काश्चिदासयामासुरासने ॥ ७९६ ॥ 20 तयोरुद्गीयमाने च धवले मङ्गले कले । व्यधुः सर्वाङ्गमभ्यङ्ग, तैलेनाऽथ सुगन्धिना ।। ७९७ ॥ पतदुद्वर्त्तनीपुञ्जपवित्रितमहीतलम् । पिष्टातकैः सूक्ष्मपिष्टैश्चक्रुश्चोद्वर्त्तनं तयोः ॥ ७९८ ।। पादयोर्जानुनोः पाण्योरंसयोरलिके तयोः । सुधाकुण्डान्नवेवाऽङ्गलीनांस्तास्तिलकान् व्यधुः ॥ ७९९ ॥ कौसुम्भसूत्रैस्तर्कस्थैरङ्गं सव्यापसव्ययोः । ताः स्पृशुः समचतुरस्रतामिव वीक्षितुम् ॥ ८०० ॥ एवं ते वरवर्णिन्यौ, वर्णके ताभिहिते । प्रयत्नाद् वारयन्तीभिर्धात्रीभिरिव चापलात् ॥ ८०१ ॥ 23 तदैवोद्वर्णकमपि वर्णकस्येव सोदरम् । व्यधुस्तेनैव विधिना, तयोस्ताः प्रमदोन्मदाः ।। ८०२ ।। निवेश्य चाssसनेऽन्यस्मिन्, स्वर्णकुम्भोदकैरथ । स्त्रपयन्ति स्म तास्ते स्वकुलयोरिव देवते ॥ ८०३ ॥ विदधुर्गन्धकाषाय्या, तयोरङ्गप्रमार्जनम् । केशांच वेष्टयामासुर्वाससा मसृणेन ताः ।। ८०४ ॥ तास्ते क्षौमाणि संव्याय्याssसयित्वा चाऽऽसनान्तरे । केशेभ्योऽश्वोतयन् वारि, मुक्तावृष्टिभ्रमं दिशत् ८०५ ईषदार्द्रानधूपायन्, दिव्यधूपेन कुन्तलान् । स्त्रिग्धधूमलतापुष्टश्रीविशेषांस्तयोश्च ताः ।। ८०६ ॥ पद्मखण्डपतद्बालारुणरोचिर्विडम्बिना । अमण्डयंस्तयोः पादानलक्तकरसेन ताः ।। ८०७ ॥ अङ्गनारलयोरङ्गमङ्गरागेण चारुणा । काञ्चनं गैरिकेणेव, विलिम्पन्ति स्म तास्तयोः ॥ ८०८ ॥ ग्रीवाभुजाग्रवक्षोजगण्डदेशेषु तास्तयोः । प्रशस्तीरिव कामस्य, लिलिखुः पत्रवल्लरीः ॥ ८०९ ॥ अलिके तिलकं चारु, चक्रुस्ताश्चान्दनं तयोः । रतिदेव्यवताराय, प्रग्रमिव मण्डलम् ॥ ८१० ॥ तयोः प्रसाधयामासुर्नयनान्यज्ञ्जनेन ताः । नीलोत्पलवनापातिभृङ्गसब्रह्मचारिणा ।। ८११ ।। तयोर्बबन्धुर्धम्मिल्लमुन्मीलन्माल्यदाम ताः । पुष्पायुधेनेव कृतमायुधागारमात्मनः ।। ८१२ ॥
१ स्थापिते । २ परिधाप्य । ३ ललाटे ।
४ नवीनम् ।
15
30
५२
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org