________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
७४७ ॥
।
10
किङ्कर्त्तव्यजडा साsपि, बालिका लोललोचना । यूथभ्रष्टा कुरङ्गीव, बभ्रामैकाकिनी वने ॥ ७४४ ॥ सरलाङ्गुलिपत्राभ्यां सा पदाभ्यां पदे पदे । विकखराणि पद्मानि, रोपयन्तीव भुव्यपि ।। ७४५ ॥ जङ्घे काञ्चनतूणीराविव कामस्य विभ्रती । आनुपूर्व्यपृथू वृत्तावृरू करिकरोपमौ || ७४६ ॥ कन्दर्पद्यूतकृत्स्वर्णशाराफलक विभ्रमम् । विभ्राणेन नितम्बेन, मांसलेन गरीयसा मुष्टिग्राह्येण मध्येनाऽऽकर्पेणेव मनोभुवः । तस्यैवाऽऽक्रीडवाप्येव, नाभिदेशेन शोभिता ।। ७४८ ।। रूपास्तत्रिजगत्त्रैणजय रेखात्रयीमिव । वलीतरङ्गत्रितयीमुदरेण च विभ्रती ॥ ७४९ ॥ धारयन्ती रतिप्रीत्योः, क्रीडाशैलाविव स्तनौ । तयोरेव स्वर्णदोलायष्टी इव च दोलते ॥ ७५० ॥ कण्ठेन च त्रिरेखेण, कम्बुविभ्रमहारिणा । अधरेण पराभूतपक्वविम्बफलत्विषा ।। ७५१ ।। दन्तैरधरशुक्त्यन्तःस्थितैर्मुक्ताकणैरिव । नासया नेत्रनलिननाले नेवाऽतिहारिणी ।। ७५२ ।। गण्डौ भालस्पर्द्धयेवान्दुलक्ष्मीमलिम्लुचौ । दधती कुन्तलांचाऽऽस्यपद्मलग्नानलीनिव ॥ ७५३ ॥ सर्वाङ्गसुभगा पुण्य लावण्यामृतकूलिनी । वनान्तर्वनदेवीव, सञ्चरन्ती व्यराजत ॥ ७५४ || [ दशभिः कुलकम् ] ततश्चैकाकिनों मुग्धां मिथुनान्यवलोक्य ताम् । किङ्कर्त्तव्यविमूढानि, श्रीना भेरुपनिन्यिरे ॥ ७५५ ॥ एषा ऋषभनाथस्य, धर्मपत्नी भवत्विति । प्रतिजग्राह तां नाभिर्नेत्रकैरवकौमुदीम् ।। ७५६ ।। अत्रान्तरेऽवधिज्ञानप्रयोगेण पुरन्दरः । भर्तुर्विवाहसमयं ज्ञात्वा तत्र समाययौ ।। ७५७ ॥ प्रणम्य चरणौ पत्युः, पत्तिमात्र इवाऽग्रतः । स्थित्वा दिवस्पतिर्बद्धाञ्जलिरेवं व्यजिज्ञपत् ।। ७५८ ।। अज्ञो ज्ञाननिधिं नाथं, यो मन्त्रणधिया पुमान् । प्रविवर्त्तयिषेत् कार्येषूपहासास्पदं हि सः ।। ७५९ । स्वामिनाऽतिप्रसादेन, सदा भृत्या हि वीक्षिताः । स्वच्छन्दमपि जल्पन्ति, कदाचिदपि किञ्चन || ७६० ।। विदित्वा स्वाम्यभिप्रायं, ये प्राहुस्ते हि सेवकाः । अज्ञात्वा यद् ब्रुवे तत्राऽप्रसादं नाथ ! मा कृथाः ॥ ७६१॥ मन्ये स्वामी वीतरागो, गर्भवासात् प्रभृत्यपि । चतुर्थपुरुषार्थाय, सञ्जोऽन्यार्थानपेक्षया ॥। ७६२ ।। तथाऽपि नाथ ! लोकानां व्यवहारपथोऽपि हि । त्वयैव मोक्षवत्र, सम्यक् प्रकटयिष्यते ॥ ७६३ || 20 तल्लोकव्यवहाराय, पाणिग्रहमहोत्सवम् । विधीयमानं भवतेच्छामि नाथ ! प्रसीद मे ॥ ७६४ ॥ सुमङ्गलानन्दे च देव्यों भुवनभूषणे । स्वानुरूपे रूपवत्यौ, स्वामिन्नुद्वोढुमर्हसि । ७६५ ।। स्वाम्यप्यवधिनाऽज्ञासीत् कर्म भोगफलं दृढम् । व्यशीतिं पूर्वलक्षाणां यावद् भोक्तव्यमस्ति नः ।।७६६।। अवश्यभोक्तव्यमिदं कर्मेत्याधूनयन् शिरः । तस्थावधोमुखः स्वामी, तदा सायं सरोजवत् ॥ ७६७ ॥ अथ भर्तुरभिप्रायमुपलक्ष्य पुरन्दरः । विवाहकर्मारम्भाय, सद्यो देवानजूहवत् । ७६८ ॥ अथाभियोगका देवाः, पाकशासनशासनात् । मण्डपं रचयामासुः, सुधर्माया इवानुजम् ॥ ७६९ || स्वर्णमाणिक्यरजतस्तम्भास्तत्र चकाशिरे । मेरुरोहणवैताढ्यचूलिका इव रोपिताः ।। ७७० ।। शातकुम्भमयास्तत्र, कुम्भाः प्रद्योतकारिणः । चक्रिणः काकणीरत्नमण्डलानीव रेजिरे ।। ७७१ ॥ सुवर्णवेदिकास्तत्र, बभ्रुरुद्यद्भिरंशुभिः । पर्यस्यन्त्य इवाऽऽदित्यं, तेजोऽन्यदसहिष्णवः ॥ ७७२ ॥ प्रविशन्तो मणिशिलाभित्तिषु प्रतिविम्बिताः । के के न प्राप्नुवंस्तत्र, परिवारपरिक्रियाम् १ || ७७३ ॥ रत्नस्तम्भव्यवष्टब्धाः, सङ्गीतश्रान्तनर्त्तकीः । विडम्बयन्त्यस्तत्रोच्चैः, शालभञ्ज्यो भासिरे ।। ७७४ | तोरणानि प्रतिदिशं, सन्तानतरुपल्लवैः । तत्राऽभूवन् धनूंपीव, सञ्जितानि मनोभुवः ॥ ७७५ ।। स्फाटिकद्वारशाखासु, बभ्रुर्नीलाश्मतोरणाः । शरदभ्रावलीमध्यस्थितकीरालिसन्निभाः ।। ७७६ ।। क्वचित् स्फटिकबद्धोबींनिरन्तरमरीचिभिः । सोऽतनोन्मण्डपः क्रीडापीयूषसरसीभ्रमम् ॥ ७७७ ॥ पद्मरागशिलाशोचिनिंचयैः प्रसृतैः क्वचित् । सोऽदिशद् दिव्यविस्तारिकौसुम्भांशुकसंशयम् ॥ ७७८ ॥ १ मोक्षाय । त्रिषष्टि पूर्व आ । २ पुत्तलिकाः ।
"
Jain Education International
For Private & Personal Use Only
५१
5
15
25
30
35
www.jainelibrary.org