________________
५०
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व मकरर्षभसिंहाश्वरथस्वस्तिकदिग्गजैः । प्रासादतोरणद्वीपैः, पाणी पादाविवाङ्कितौ ॥ ७०९ ॥ [ युग्मम् ] अङ्गुष्ठोऽङ्गुलयः शोणाः, सरलाः शोणपाणिजाः । प्ररोहा इव कल्पद्रोः, प्रान्तमाणिक्यपुष्पिताः ॥७१० ॥ यवाः स्पष्टमशोभन्त, स्वामिनोऽङ्गुष्ठपर्वसु । यशोवरतुरङ्गस्य, पुष्टिवैशिष्ट्यहेतवः ॥ ७११ ॥
अङ्गुलीमूर्द्धसु विभोः, सर्वसम्पत्तिशंसिनः । दधुः प्रदक्षिणावर्ता, दक्षिणावर्त्तशङ्खताम् ॥ ७१२ ॥ 5 कृच्छ्रादुद्धरणीयानि, जगन्ति त्रीण्यपीत्यभान् । सङ्ख्यालेखा इव तिस्रो, लेखा मूले कराब्जयोः ॥७१३॥
वर्तुलोऽनतिदीर्घश्व, लेखात्रयपवित्रितः । गम्भीरध्वनिराधत्त, कण्ठः कम्बुविडम्बनाम् ॥ ७१४ ॥ विमलं वर्तुलं कान्तितरङ्गि वदनं विभोः । पीयूषदीधितिरिवाऽपरो लाञ्छनवर्जितः ॥ ७१५ ॥ मसृणौ मांसलौ स्निग्धौ, कपोलफलको प्रभोः । दर्पणाविव सौवर्णी, वाग्लक्ष्म्योः सहवासयोः ॥ ७१६ ॥ अन्तरावर्तसुभगौ, कौँ स्कन्धावलम्बिनौ । प्रभोर्मुखप्रभासिन्धुतीरस्थे शुक्तिके इव ॥ ७१७ ॥ ओष्ठौ बिम्बोपमौ दन्ता, द्वात्रिंशत् कुन्दसोदराः । क्रमस्फारा क्रमोत्तुङ्गवंशा नासा महेशितुः ॥ ७१८ ॥ अहवदीर्घ चिबुकं, मांसलं वर्तुलं मृदु । मेचकं बहलं स्निग्धं, कोमलं श्मश्रु तायिनः ॥ ७१९ ॥ प्रत्यग्रकल्पविटपिप्रवालारुणकोमला । प्रभोर्जिह्वाऽनतिस्थूला, द्वादशाङ्गागमार्थमः ॥ ७२० ॥ अन्तरा कृष्णधवले, प्रान्तरक्ते विलोचने । नीलस्फटिकशोणाश्ममणिन्यासमये इव ॥ ७२१ ॥ ते च कर्णान्तविश्रान्ते, कजलश्यामपक्ष्मणी । विकस्वरे तामरसे, निलीनालिकुले इव ॥ ७२२ ॥ बिभराश्चक्रतभत्तः, श्यामले कुटिले भ्रवौ । दृष्टिपुष्करिणीतीरसमुद्भिन्नलताश्रियम् ॥ ७२३ ॥ विशालं मांसलं वृत्तं, कठिनं मसृणं समम् । भालस्थलं जगद्भर्तुरष्टमीसोमसोदरम् ॥ ७२४ ॥ भुवनस्वामिनो मौलिरानुपूर्व्या समुन्नतः । दधावधोमुखीभूतच्छत्रसब्रह्मचारिताम् ।। ७२५ ॥ मौलिच्छत्रे महेशस्य, जगदीशत्वशंसिनि । वृत्तमुत्तुङ्गमुष्णीषं, शिश्रिये कलसश्रियम् ॥ ७२६ ॥ केशाश्चकाशिरे मूर्भि, प्रभोर्धमरमेचकाः । कुञ्चिताः कोमलाः स्निग्धाः, कालिन्द्या इव वीचयः ॥ ७२७॥ गोरोचनागर्भगौरी, स्निग्धस्वच्छा त्वगाबभौ । स्वर्णद्रवविलिप्तेव, तनौ त्रिजगदीशितुः ॥ ७२८ ॥ मृदूनि भ्रमरश्यामान्यद्वितीयोगमानि च । बिसतन्तुतनीयांसि, लोमानि स्वामिनस्तनौ ॥ ७२९ ॥ इत्यसाधारणैर्नानालक्षणैर्लक्षितः प्रभुः । रत्नै रत्नाकर इव, सेव्यः कस्येव नाऽभवत् ? ॥ ७३० ॥
दत्तहस्तो महेन्द्रेण, यक्षरुत्क्षिप्तचामरः । धरणेन्द्रकृतद्वास्थ्यो, धृतच्छत्रः प्रचेतसा ॥ ७३१ ॥ विष्वक् परिवृतो देवैर्जीव जीवेति वादिभिः। अनुत्सित्तो जगत्स्वामी, विजहार यथासुखम् ॥७३२॥ युग्मम् ] देवानीतासनासीनो, बलीन्द्राङ्काहितक्रमः । चमरेन्द्राङ्कपर्यविन्यस्तोत्तरविग्रहः ॥ ७३३ ॥ अप्सरोभिरुभयतो, हस्तशाटकपाणिभिः । उपास्यमानोऽनासक्तः, सङ्गीतं दीव्यमैक्षत ॥७३४॥ [युग्मम् ]
अन्येद्युः क्रीडया क्रीडद्, बालभावानुरूपया। मिथो मिथुनकं किञ्चित् , तले तालतरोरगात् ॥७३५॥ तदैव दैवदुर्योगात् , तन्मध्यानरमूर्द्धनि । तडिद्दण्ड इवैरण्डेऽपतत् तालफलं महत् ।। ७३६ ॥
प्रहतः काकतालीयन्यायेन स तु मूद्धनि । विपन्नो दारकस्तत्र, प्रथमेनाऽपमृत्युना ॥ ७३७॥ 30 ययौ सोऽल्पकषायत्वाद्, दिवं मिथुनदारकः । तूलमप्यल्पभारत्वादाकाशमनुधावति ॥ ७३८ ॥
पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरम्बुधौ ॥ ७३९ ॥ भ्रंशात् तस्याऽनुभावस्य, तदानीं तत्कलेवरम् । तस्थौ तथैवाऽवसर्पत्प्रभावा ह्यवसर्पिणी ॥ ७४०॥ बालिकाऽस्य द्वितीयाऽथ, निसर्गान्मौग्ध्यशालिनी । सा विक्रीतावशिष्टेव, तस्थौ तरलितेक्षणा ॥ ७४१ ॥
आदाय तां तजनकमिथुनं पर्यवर्द्धयत् । नामधेयं पुनस्तस्याः, सुनन्देति विनिर्ममे ॥७४२ ॥ 35 दिनैः कतिपयैस्तस्या, विपनौ पितरावपि । जातापत्यानि युग्मानि, जीवन्ति कियदेव हि ॥७४३॥
निगर्वः। २ उत्तरकायः। ३ महापक्षिणःहीयमानप्रभावा ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org