________________
द्वितीयः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम् । क्रौञ्चीभूयाऽग्रतः केऽपि, मध्यमाराविणोऽरसन् । स्वामिनः प्रीतिमदृष्टिपातामृतपिपासिताः ॥ ६७४ ॥ केपि पुंस्कोकिलीभूय, पञ्चमस्वरमुजगुः । स्थित्वोपस्वामितरुषु, तन्मनःप्रीतिहेतवे ॥ ६७५ ॥ आययुस्तुरगीभूय, धैवतध्वनिहेषिणः । स्वामियानतयाऽऽत्मानं, पिपावयिषवोऽपरे ॥ ६७६ ॥ केऽप्येयुः कलभीभूय, निषादस्वरराविणः । स्पृशन्तोऽधोमुखीभूय, करेण चरणौ प्रभोः ॥ ६७७ ॥ केचिच्च वृषभीभूय, ऋषभस्वरबन्धुराः । ताडयन्तस्तटीः शृङ्गैग्विनोदं व्यधुर्विभोः ॥ ६७८ ॥ 5 महिपीभूय केऽप्यस्थुरञ्जनाचलसन्निभाः । युध्यमाना मिथो युद्धक्रीडां भर्तुरदर्शयन् ॥ ६७९ ॥ केऽपि भतुर्विनोदायाऽऽस्फालयन्तो भुजान मुहुः । मल्लीभूयाऽक्षवाटान्तराह्वासत परस्परम् ।। ६८० ॥ एवं विनोदैविविधैर्वृन्दारककुमारकैः । उपास्यमानः सततं, परमात्मेव योगिभिः ॥ ६८१ ॥ ताभिर्धात्रीभिरुयानपालीभिरिव पादपः । अप्रमत्तं लाल्यमानः, क्रमेण ववृधे प्रभुः ॥६८२॥ [सन्दानितकम्] अङ्गुष्ठपानावस्थायाः, परस्ताद् वयसि स्थिताः । गृहवासेऽपरेऽर्हन्तः, सिद्धमन्नं हि भुञ्जते ॥ ६८३॥ 10 देवानीतोत्तरकम्फलानि बजे सदा । क्षीरोदवारि च पपौ. भगवान्नाभिनन्दनः ॥६८४॥
बाल्यं कल्यमिवोल्लकच, मध्यन्दिनमिवार्यमा । विभुर्विभक्तावयवं. द्वितीयं शिश्रिये वयः ॥ ६८५॥ यौवनेऽपि मृदू रक्तौ, कमलोदरसोदरौ । उष्णावकम्प्रावस्वेदी, पादौ समतलौ प्रभोः ॥ ६८६ ॥ नतार्तिच्छेदनायेव, प्रपदे चक्रमीशितुः । सदास्थितश्रीकरणोरिव दामाङ्कुशध्वजाः ॥ ६८७ ॥ स्वामिनः पादयोर्लक्ष्मीलीलासदनयोरिव । शङ्खकुम्भौ तले पाणी, स्वस्तिकश्च विरेजिरे ॥ ६८८ ॥ 15 मांसलो वर्तुलस्तुङ्गो, भुजङ्गमफणोपमः । अङ्गुष्ठः स्वामिनो वत्स, इव श्रीवत्सलाञ्छितः ॥ ६८९ ॥ प्रभोर्निर्वातनिष्कम्पस्निग्धदीपशिखोपमाः । नीरन्ध्रा ऋजवोऽङ्गुल्यो, दलानीव पदाब्जयोः ॥ ६९० ॥ नन्द्यावर्ता जगद्भर्तुः, पादाङ्गुलितलेप्वभान् । यदिम्बानि क्षितौ धर्मप्रतिष्ठाहेतुतां ययुः ॥ ६९१ ॥ यवाः पर्वस्वङ्गुलीनामधो वापीभिरावभुः । उप्ता इव जगल्लक्ष्मीविवाहाय जगत्प्रभोः ॥ ६९२ ॥ कन्दः पादाम्बुजस्येव, पाणिवृत्तायतः पृथुः । अङ्गुष्टाङ्गुलिफणिनां, फणामणिनिभा नखाः ॥ ६९३ ॥ 20 हेमारविन्दमुकुलकर्णिकागोलकश्रियम् । गूढौ गुल्फो वितेनाते, नितान्तं स्वामिपादयोः ६९४ ॥ प्रभोः पादावुपर्यानुपूर्त्या कूर्मवदुन्नतो । अप्रकाशशिरौ स्निग्धच्छवी लोमविवर्जितौ ॥ ६९५ ॥ अन्तर्मनास्थिपिशितपुष्कले क्रमवत्तुले । एणीजङ्घाविडम्बिन्यौ, जो गौ? जगत्पतेः ॥ ६९६ ॥ जानुनी स्वामिनोऽधातां, वर्तुले मांसपूरिते । तूलपूर्णपिधानान्तःक्षिप्तदर्पणरूपताम् ॥ ६९७ ॥ ऊरू च मृदुलौ स्निग्धावानुपूर्येण पीवरौ । बिभराञ्चक्रतुः प्रौढकदलीस्तम्भविभ्रमम् ॥ ६९८ ॥ स्वामिनः कुञ्जरस्येव, मुष्की गूढी समस्थिती । अतिगूढं च पुंश्चिह्न, कुलीनस्येव वाजिनः ॥ ६९९ ।। तच्चाऽसिरमनिम्नोचमहस्व-दीर्घमश्लथम् । सरलं मृदु निर्लोम, वर्तुलं सुरभीन्द्रियम् ॥ ७०० ॥ शीतप्रदक्षिणावर्तशब्दयुक्तकधारकम् । अबीभत्सावत्तोकारकोशस्थं पिञ्जरं तथा ॥ ७०१ ।। आयता मांसला स्थूला, विशाला कठिना कटिः । मध्यभागस्तनुत्वेन, कुलिशोदरसोदरः ॥ ७०२ ॥ नाभिर्बभार गम्भीरा, सरिदावर्त्तविभ्रमम् । कुक्षी स्निग्धौ मांसवन्ती, कोमलौ सरलौ समौ ॥ ७०३ ॥ 30 अधाद् वक्षःस्थलं स्वर्णशिलापृथुलमुन्नतम् । श्रीवत्सरत्नपीठाङ्क, श्रीलीलावेदिकाश्रियम् ॥ ७०४ ॥ दृढपीनोन्नती स्कन्धौ, ककुद्मत्ककुदोपमौ । अल्परोमोन्नते कक्षे, गन्धखेदमलोज्झिते ।। ७०५ ॥ पीनौ पाणिफणाच्छत्री, भुजावाजानुलम्बिनौ । चञ्चलाया नियमने, नागपाशाविव श्रियः ॥ ७०६ ॥ नवाम्रपल्लवाताम्रतलौ निष्कर्मकर्कशौ । अस्वेदनावपच्छिद्रावुष्णी पाणी जगत्पतेः ॥ ७०७ ॥ दण्डचक्रधनुर्मत्स्यश्रीवत्सकुलिशाङ्कुशेः । ध्वजाब्जचामरच्छत्रशङ्खकुम्भाब्धिमन्दरैः ।। ७०८ ।। । * णो वभुः सं १, खं ॥ १ मल्लयुद्धभूमिषु । २ आहूतवन्तः ।
25
35
त्रिषष्टि. ७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org