________________
४८
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व तत्र चैत्ये तावतीनां, शाश्वतीनां तथैव सः । प्रतिमानामाईतीनां, चकाराष्टाह्निकोत्सवम् ॥ ६३८॥ तस्यापि लोकपालास्तद्वापीदधिमुखाद्रिपु । शाश्वताहत्प्रतिमानां, तद्वद् विदधुरुत्सवम् ॥ ६३९ ।। चमरेन्द्रोऽप्युत्ततार, दक्षिणाशाव्यवस्थिते । नित्योड्योताभिधे रत्ननित्योयोतेऽञ्जनाचले ॥ ६४० ॥ भक्त्या महत्या तत्राऽयमपि चैत्ये यथाविधि । शाश्वतीनां प्रतिमानां, विदधेऽष्टाह्निकोत्सवम् ॥ ६४१ ॥ तद्वाप्यन्तर्दधिमुखाचलेष्वचलचेतसः । चक्रुर्जिनप्रतिमानां, तदिक्पाला महोत्सवम् ॥ ६४२॥ अवातरद् बलीन्द्रोऽपि, पश्चिमाशानिवासिनि । स्वयम्प्रभाभिधेऽम्भोदप्रभाचौरेऽञ्जनाचले ॥ ६४३ ॥ शाश्वतीनामृषभादिप्रतिमानामसावपि । उत्सवं विदधे तद्वद्, दिविषदृष्टिपावनम् ॥ ६४४ ॥ तत्पुष्करिणीकान्तःस्थेषचैर्दधिमुखाद्रिषु । चक्रुस्तस्यापि दिक्पालाः, शाश्वतप्रतिमोत्सवम् ॥ ६४५ ॥ इति नन्दीश्वरे चैत्यमहिमानं विधाय ते । पथा यथागतेनैव, स्वं खं स्थानं ययुः सुराः ॥ ६४६ ॥ ___स्वामिनी मरुदेवापि, सम्प्रबुद्धाऽथ नाभये । नैशं स्वममिवाऽमर्त्यसम्पातं तमचीकथत् ॥ ६४७ ॥ ऊरुप्रदेशे ऋषभो, लाञ्छनं यजगत्पतेः । ऋषभः प्रथमं यच्च, स्वप्ने मात्रा निरीक्षितः॥ ६४८ ॥ तत् तस्य ऋषभ इति, नामोत्सवपुरःसरम् । तौ मातापितरौ हृष्टौ, विदधाते शुभे दिने ॥ ६४९ ॥ तदा च युग्मजातायाः, कन्याया अपि पावनम् । सुमङ्गलेति पितरौ, यथार्थं नाम चक्रतुः ॥ ६५० ॥ शक्रसङ्क्रमितां स्वामी, निजाङ्गुष्ठे सुधामथ । पिबति स्म यथाकालं, कुल्याजलमिवाभिपः ॥ ६५१॥ भगवान् शुशुभे बालः, पितुरुत्सङ्गमाश्रितः । अङ्के शिखरिणः सिंहकिशोर इव भासुरः ॥ ६५२ ॥ शक्रादिष्टाश्च धान्यस्ताः, पश्चाऽपि परमेश्वरम् । महामुनि समितय, इवाऽमुञ्चन् न जातुचित् ॥ ६५३ ॥
स्वामिनो जन्मनः किञ्चिदूने संवत्सरे सति । सौधर्मवासवो वंशस्थापनार्थमुपाययौ ॥ ६५४ ॥ भृत्येन रिक्तहस्तेन, न कार्य स्वामिदर्शनम् । इति बुद्ध्येव महतीमिक्षुयष्टिं स आददे ॥ ६५५ ॥
सेक्षुयष्टिः सुनासीरः, शरत्काल इवाऽङ्गवान् । नाभ्युत्सङ्गनिषण्णस्य, जगाम स्वामिनोऽग्रतः ॥ ६५६ ॥ 20 ज्ञात्वा च शक्रसङ्कल्पमवधिज्ञानतो विभुः । तामिक्षुयष्टिमादातुं, करीव करमक्षिपत् ॥ ६५७ ॥
गम्य शिरसा शक्रः, स्वामिने भाववित् ततः। अपयामास तामिक्षुलतिकामुपदामिव ॥६५८॥ यदिक्षुराददे भत्रेक्ष्वाकुरित्याख्यया ततः । स्वामिवंशं प्रतिष्ठाप्य, दिवस्पतिरगाद् दिवम् ॥ ६५९ ॥
देहो युगादिनाथस्य, खेदामयमलोज्झितः । सुगन्धिः सुन्दराकारस्तपनीयारविन्दवत् ॥ ६६० ॥ गोक्षीरधाराधवले, अविस्र मांसशोणिते । आहारनीहारविधिलॊचनानामगोचरः ॥ ६६१ ॥ 25 उत्फुल्लकुमुदामोदसोदरं श्वाससौरभम् । चत्वारोऽतिशया एते, बभूवुर्जन्मना सह ॥ ६६२ ॥
वज्रऋषभनाराचं, दधत् संहननं प्रभुः । मन्दं चचाल पादाभ्यां, भूमिभ्रंशभयादिव ॥ ६६३ ॥ प्रभुर्वभाषे बालोऽपि, गम्भीरमधुरध्वनिः । नृणां लोकोत्तराणां हि, बाल्यं वपुरपेक्षया ॥ ६६४ ॥ संस्थानं स्वामिनस्तुल्यचतुरस्रमशोभत । श्रियां रिरंसमानानां, क्रीडावेदीव काश्चनी ॥ ६६५ ॥
सवयोभूय सम्भूयाऽऽयातैः सुरकुमारकैः । अरस्त वृषभखामी, तेषां चित्तानुवृत्तये ॥ ६६६ ॥ 30 धूलीधूसरसर्वाङ्गो, बिभ्राणो घर्घरस्रजम् । कलभोऽन्तर्मदावस्थ, इव क्रीडन् वभौ विभुः ॥ ६६७ ॥
जग्राह पाणिना स्वामी, यत् किञ्चिल्लीलयापि हि । महर्द्धिकोऽपि त्रिदशो, न तदाच्छेत्तुमीश्वरः ॥६६८॥ बलं परीक्षितुमधादङ्गुलीमपि यः प्रभोः । स श्वासपवनेनाऽपि, ययौ दूरेण रेणुवत् ॥ ६६९ ॥ स्वामिनं रमयामासुः, केचित् सुरकुमारकाः । विचित्रैः कन्दुकै मौ, लुठन्तः कन्दुका इव ॥ ६७० ॥
चाटूनि जीव जीवेति, नन्द नन्देत्यनेकशः । केपि राजशुकीभूय, चाटुकारा इवाऽवदन ॥ ६७१ ॥ 35 स्वामिनो रमणायैके, केकीभूय दिवौकसः । केकाप्रधानाः पुरतो, ननृतुः षड्जगायिनः ॥ ६७२ ॥
हंसीभूयापरे वेतः, पार्श्वे गान्धारराविणः । प्रभोः सलीलहस्ताजग्रहणस्पर्शतृष्णया ॥ ६७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org