________________
द्वितीयः सर्गः ]
त्रिषष्टिशला कापुरुषचरितम् ।
४७
मनुष्याः खलु ते धन्या, ये त्वां द्रक्ष्यन्त्यहर्निशम् । यथासमयमेव त्वां द्रष्टारः कीदृशा वयम् ? ।। ६०५ ।। भरतक्षेत्रजन्तूनां, मोक्षमार्गोऽखिलः खिलः । त्वया नूतनपान्थेन, नाथ ! प्रकटयिष्यते ॥ ६०६ ॥ सास्तु तावत् तव सुधासधीची धर्मदेशना । त्वद्दर्शनमपि श्रेयो, विश्राणयति जन्मिनाम् || ६०७ ॥ न कश्चिदुपमापात्रं, भवतो भवतारक ! । ब्रूमस्त्वत्तुल्यमेव त्वां यदि का तर्हि ते स्तुतिः ? ।। ६०८ ॥ नाऽस्मि वक्तुमलं नाथ !, सद्भूतानपि ते गुणान् । स्वयम्भूरमणाम्भोधेर्मातुमम्भांसि कः क्षमः || ६०९ || 5 इति स्तुत्वा जगन्नाथं, प्रमोदामोदिमानसः । विचक्रे पञ्चधाऽऽत्मानं, पूर्ववत् पूर्वदिक्पतिः ।। ६१० ॥ ईशानोत्सङ्गतः शक्रः, एकस्तत्राऽमद्वरः । रहस्यमित्र जग्राह, हृदयेन जगत्पतिम् ॥ ६११ ॥ अपरे पूर्ववत् स्वानि, स्वानि कर्माणि चक्रिरे । विनियुक्ता इव स्वामिसेवाविज्ञा विडौजसः । ६१२ ॥ वृतो निजामरैः सर्पनम्बरेणाऽमराग्रणीः । जगाम धाम तद् देव्याऽलङ्कृतं मरुदेवया ॥ ६१३ ॥ तीर्थकृत्प्रतिरूपं तदुपसंहृत्य वासवः । तथैव स्थापयामास, स्वामिनं मातुरन्तिके ॥ ६१४ ॥ तामवखापनी निद्रां पद्मिन्या इव भास्करः । स्वामिन्या मरुदेवाया, व्यपनिन्ये दिवस्पतिः ॥ ६१५॥ कूलिनीकूललुलितहंसमालाविलासभृत् । एकं दुकूलयुगलमुच्छीर्षे सोऽमुचत् प्रभोः ॥ ६१६ ॥ तत्रैव स न्यधाद् रत्नकुण्डलद्वयमीशितुः । वालत्वेऽपि समुद्भूतभामण्डलविकल्पदम् ।। ६१७ ।। एकं श्रीदामगण्ड च, स्वर्णप्राकारनिर्मितम् । विचित्ररत्नहारार्धहाराढ्यं हेमभासुरम् ॥ ६१८ ।। उपरि स्वामिनो दृष्टिविनोदाय पुरन्दरः । विताने स्थापयामास, नभसीव नभोमणिम् ।। ६१९ ।। [सन्दानितकम् ]
Jain Education International
10
20
अथ स श्रीमादिशत्, प्रत्येकमपि सम्प्रति । हिरण्यस्वर्णरत्नानां, कोटीर्द्वात्रिंशतं द्रुतम् ।। ६२० ।। नन्दासन-भद्रासनान्यथ द्वात्रिंशतं पृथक् । अन्यच्च वस्त्रनेपथ्यप्रभृत्यतिमनोहरम् ।। ६२१ || सांसारिक सुखोत्पादि, महार्घं वस्तु सर्वतः । स्वामिनो भवनेऽमुष्मिभिधेयप इवाम्बुदः ।। ६२२ ।। [ त्रिभिर्विशेषकम् ] कुबेरः कारयामास तत् सद्यो जृम्भकामरैः । आज्ञा ह्याज्ञाप्रचण्डानां वचसा सह सिध्यति ।। ६२३ ॥ अभियोगकान् देवानादिदेशेति वासवः । उच्चैर्देवनिकायेषु चतुर्ष्वघुष्यतामिदम् ॥ ६२४ ॥ अर्हतोऽर्हजनन्याच, योशुभं चिन्तयिष्यति । तस्यार्जकॅमञ्जरीवत्, सप्तधा भेत्स्यते शिरः ।। ६२५ ।। भवनपतिव्यन्तरज्योतिर्वैमानिकेषु तत् । ते समुज्जुघुषुः शिष्या, वाचमुच्चैर्गुरोरिव ।। ६२६ ।। शक्रः सङ्क्रमयामास, नानाहाररसामृतम् । खाम्यङ्गुष्ठेऽमृतानाडीचक्रे भानुरिवाऽम्मयम् ॥ ६२७ ॥ अर्हन्तोऽस्तन्यपा यस्मात्, किन्तु क्षुदुदये सति । प्रक्षिपन्ति मुखेऽङ्गुष्ठं, स्वमेव रसवर्षिणम् ॥ ६२८ ॥ धात्रीकर्माणि सर्वाणि, निर्मापयितुमीशितुः । धात्रीरप्सरसः पञ्चाऽऽदिदेश सदां पतिः ॥ ६२९ ॥
30
तदा च बहवो देवा, जिनस्नात्रादनन्तरम् । सुमेरुशिखरादेव, द्वीपं नन्दीश्वरं ययुः ।। ६३० ॥ श्री नाभि सदनात, सौधर्मेन्द्रोऽपि च द्रुतम् । ययौ नन्दीश्वरद्वीपं निवासं स्वर्गवासिनाम् ॥ ६३१ ॥ तत्र शक्रः क्षुद्रमेरुप्रमाणे पूर्वदिस्थिते । नामतो देवरमणेऽञ्जनाद्राववतीर्णवान् ॥ ६३२ ॥ तत्र चैत्ये चतुर्द्वारे, विचित्रमणिपीठिके । चैत्यद्रुमेन्द्रध्वजाङ्के, प्राविशद् घुसदांपतिः ।। ६३३ ।। ऋषभप्रभृतीरर्हत्प्रतिमास्तत्र शाश्वतीः । यथावत् पूजयामास, सोऽष्टाह्वयारम्भपूर्वकम् ॥ ६३४ ॥ तस्य चाश्चतुर्दिक्स्थमहावापीविवर्त्तिषु । स्फाटिकेषु दधिमुग्वपर्वतेषु चतुर्ष्वपि ।। ६३५ ।। चैत्येष्वर्हत्प्रतिमानां, शाश्वतीनां यथाविधि । चत्वारः शक्रदिक्पालाञ्च कुरष्टाह्निकोत्सवम् ।। ६३६ ।। ईशानेन्द्रोऽप्यवातारीदुत्तराशाप्रतिष्ठिते । रमणीयाह्वये नित्यरमणीयेऽञ्जनाचले ।। ६३७ ।।
35
१ अप्रहतः केनाऽप्यनाक्रान्तः । २ ददाति । ३ सावधानः । ४ अर्जकवृक्षस्य मञ्जरीवत् । ५ प्रभूता आपो यत्र तद् अम्मयम् ।
For Private & Personal Use Only
15
25
www.jainelibrary.org