________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व पारिजातादिभिः पुष्पैर्विकसद्भिः स्वभक्तिवत् । ततोऽच्युतपतिः पूजा, चक्रे जिनपतेः स्वयम् ॥ ५७० ॥ अपसृत्य ततः किञ्चित्, स्वामिनं भक्तिवामनः । प्रणनाम ववन्दे च, सोऽन्तेवासीव वासवः ॥ ५७१ ॥ एवं द्वाषष्टिरन्येऽपि, शक्राश्चक्रुर्जगत्पतेः । स्नात्राङ्गरागौ पूजां चाऽनुज्येष्ठं सोदरा इव ॥ ५७२ ॥
__ विकृत्य पञ्चधाऽऽत्मानमथ सौधर्मराजवत् । उत्सङ्गे त्रिजगन्नाथं, जग्राहैशानवासवः ॥ ५७३ ॥ 5 तत्रैकोऽधान विभोर्मूर्ध्नि, छत्रं कर्पूरपाण्डुरम् । मुक्तावचूलैः प्रेङ्खद्भिर्दिशां लास्यमिवोदिशत् ।। ५७४ ।।
वीजयामासतुश्चाऽन्यौ, चामराभ्यां जिनेश्वरम् । विक्षिप्तकरणेनोचैर्नृत्यनामिव सम्मदात् ॥ ५७५ ॥ शूलमुल्लालयन् पाणावपरः पुरतोऽभवत् । स्वामिनो दृष्टिपातैः स्वं, पूतीकर्तुमना इव ॥ ५७६ ॥
अथ सौधर्मकल्पेन्द्रो जगद्भर्तुश्चतुर्दिशम् । चत्वारि स्फाटिकोत्तुङ्गवृषरूपाणि निर्ममे ॥ ५७७ ॥ उत्तुङ्गशृङ्गरुचिरा, वृषभास्ते चकाशिरे । दिशां चतसृणां चान्द्रकान्ताः क्रीडाचला इव ॥ ५७८ ॥ तेषां स्फोटितपातालनालेभ्य इव सन्तताः । शृङ्गेभ्योऽष्टभ्य उत्पेतुर्वारिधारा नभस्तले ॥ ५७९ ॥ मूले भिन्नास्तोयधाराधोरण्यस्ता निरन्तराः । अन्ते मिलन्त्यः खे चक्रुर्नदीसङ्गमविभ्रमम् ॥ ५८० ॥ सकौतुकं वीक्ष्यमाणाः, सुरासुरवधूजनैः । ताः पेतुर्जगतांपत्यावपांपत्याविवाऽऽपगाः ॥५८१ ॥ शृङ्गेभ्यो जलयत्रेभ्य, इव निर्यद्भिरम्बुभिः । शक्रेण मपयाञ्चके, भगवानादितीर्थकृत् ॥ ५८२ ॥ दूरमुच्छलता तेन, स्वामित्रपनवारिणा । आसन् भक्त्या मनांसीव, वासांस्यााणि नाकिनाम् ॥५८३ ॥ चतुरोऽपि महोक्षास्तानुपसंहृतवानथ । प्राचीनबर्हिः सहसेन्द्रजालमिव जालिकः ॥ ५८४ ॥ नपयित्वाऽतिविच्छर्दादेवं देवप्रभुः प्रभोः । रत्नादर्शमिवाऽमार्जदङ्गं देवाङ्गवाससा ॥ ५८५ ॥ अथ रत्नमये पट्टे, निर्मलै रूप्यतन्दुलैः । अखण्डैरालिखन लेखाः, स्वामिनोऽग्रेऽष्टमङ्गलीम् ॥ ५८६ ॥ निजेनेवाऽनुरागेणाऽङ्गरागेण गरीयसा । अङ्गं विलेपयामास, वासवस्त्रिजगद्गुरोः ॥ ५८७ ॥
स्वामिनः स्मेरवकेन्दुकौमुदीभ्रमकारिभिः । विशदैर्दिव्यवासोभिः, पूजां व्यधित देवराट् ॥ ५८८ ॥ 20 विश्वमूर्द्धन्यताचिह्न, मूर्द्धनि त्रिजगत्पतेः । वज्रमाणिक्यमुकुटं, स्थापयामास वज्रभृत् ॥ ५८९ ॥
न्यधत्त मघवा भर्तुः, कर्णयोः स्वर्णकुण्डले । व्योम्नः पूर्वापरदिशोः, सायं शशिरवी इव ।। ५९० ॥ लक्ष्म्या विभ्रमदोलेव, दिव्यमुक्तालता तता । न्यपि पुरुहूतेन, स्वामिनः कण्ठकन्दले ॥ ५९१ ॥ सोऽङ्गादे निदधे बाहुदण्डयोस्त्रिजगत्पतेः । सुवर्णवलये भद्रकलभस्येव दन्तयोः ॥ ५९२ ॥ वृत्तोरुमौक्तिकमणिकङ्कणे मणिबन्धयोः । स न्यधत्त प्रभोः शाखिशाखान्तस्तबकोपमे ।। ५९३ ।। स वर्णकटिसूत्रं च, कटिदेशे न्यधाद् विभोः । वर्षधरनितम्बस्थस्वर्णकूलाविलासभृत् ॥ ५९४ ॥ माणिक्यपादकटके, स न्यवीविशदीशितुः । अङ्ग्रयोर्लग्ने देवदैत्यतेजसी इव सर्वतः ॥ ५९५ ॥ अलङ्काराय यानीन्द्रो, भूषणानि न्यवीविशत् । अलङ्कृतानि तान्येव, प्रत्युताङ्गैर्जगद्गुरोः ॥ ५९६ ॥ उनिद्रपारिजातादिदामभिः परमेश्वरम् । भक्तिवासितचेतस्कः, पूजयामास वासवः ॥ ५९७ ॥ कृतकृत्य इवाऽथाऽपसृत्य किश्चित् पुरन्दरः । पुरोभूय जगद्भर्तुरारात्रिकमुपाददे ॥ ५९८ ॥ ज्वलद्दीपत्विषा तेन, चकासामास कौशिकः । भावदोषधिचक्रेण, शृङ्गेणेव महागिरिः ॥ ५९९ ॥ श्रद्धालुभिः सुरवरैः, प्रकीर्णकुसुमोत्करम् । भर्तुरुत्तारयामास, तत्रिस्त्रिदशपुङ्गवः ॥ ६०० ॥ . शक्रः शक्रस्तवेनाऽथ !, वन्दित्वा परमेश्वरम् । रोमाञ्चितवपुर्भक्त्या, स्तोतुमित्युपचक्रमे ॥ ६०१ ॥ __ नमस्तुभ्यं जगन्नाथ !, त्रैलोक्याम्भोजभास्कर ! । संसारमरुकल्पद्रो, विश्वोद्धरणबान्धव ! ॥६०२॥
वन्दनीयो मुहूर्तोऽयं, यत्र ते धर्मजन्मनः । अपुनर्जन्मनो जन्म, दुःखच्छिद् विश्वजन्मिनाम् ॥६०३॥ 35 युष्मजन्माभिषेकाम्भःपूरैराप्लाविताऽधुना । अयत्नक्षालितमला, सत्या रत्नप्रभा प्रभो! ॥६०४॥
१ समुद्र । २ इन्द्रः। ३ देवाः। इनः ।
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org