________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
पुनः प्रालोठयन् कुम्भानमराः खामिमूर्द्धनि । पयः शब्दायितमुखानर्हत्स्तुतिपरानिव ।। ५३५ ॥ स्वामित्रात्रे हरे रिक्तरिक्तान् कुम्भानपूरयन् । अमरावक्रिणो यक्षा, निधानकलशानिव ॥ ५३६ ॥ रिक्तरिक्ता भृतभृता, रेजिरे सञ्चरिष्णवः । भूयो भूयः कलशास्तेऽरघट्टघटिका इव ॥ ५३७ ॥ एवमच्युतनाथेन, यथेष्टं कुम्भकोटिभिः । स्वामिनो विदधे स्नात्रं, चित्रमात्मा पवित्रितः ।। ५३८ ।। दिव्यया गन्धकाषाय्याऽऽरणाच्युतविभुर्विभोः । अङ्गमुन्मार्जयामास, स्वयं मार्जितमान्यथ ॥ ५३९ ॥ 5 सा रेजे गन्धकाषायी, स्पृशन्ती स्वामिनो वपुः । प्रातःसन्ध्याभ्रलेखेव मण्डलं चण्डरोचिषः || ५४० ॥ सुवर्णसारसर्वस्वं, सुवर्णाद्रेरिवैकतः । आहृतं शुशुभे तादृगुन्मृष्टं भगवद्वपुः ।। ५४१ ॥
अथाऽऽभियोग्या गोशीर्षचन्दनद्रवकर्दमम् । पात्रिकाभिर्विचित्राभिरच्युतायोपनिन्यिरे ॥ ५४२ ॥ विलेपयितुमारेभे, प्रभुं तेन पुरन्दरः । सुमेरुशैलकटकं, ज्योत्स्नयेव निशाकरः ।। ५४३ ॥ अभितः स्वामिनं केचिदुत्तरासङ्गधारिणः । उद्दामधूपदहनपाणयोऽस्थरथाऽमराः ॥ ५४४ ॥ केऽपि तत्राऽक्षिपन् धूपं, स्निग्धया धूमलेखया । मेरोनलमयीं चूलां रचयन्त इवाऽपराम् ॥ ५४५ ॥ केsपि श्वेतातपत्राणि, धारयामासुरुच्चकैः । कुमुद्वदिव कुर्वाणा, अन्तरिक्षमहासरः ॥ ५४६ ॥ केचिदन्दोलयामासुश्चामराण्यमरोत्तमाः । आह्वयन्त इवाऽऽत्मीयान्, स्वामिदर्शनहेतवे ॥ ५४७ ॥ केचिद् बद्धपरिकरा, विभ्राणाः स्वस्वमायुधम् । परितः स्वामिनं तस्थुरात्मरक्षा इवामराः ।। ५४८ ॥ सुराः केचिन्मणिस्वर्णतालवृन्तान्यचीचलन् । उद्यद्विद्युल्लतालीलां दर्शयन्तो नभस्तले ॥ ५४९ ॥ विचित्रदिव्यसुमनोवृष्टिं त्रिदिववासिनः । हर्षोत्कर्षजुषोऽकार्षु, रङ्गाचार्या इवाऽपरे ।। ५५० ।। नितान्तसुरभिं गन्धद्रव्यक्षोदं चतुर्दिशम् । अवर्षन्नपरे चूर्णमुच्चाटनामिवांहसाम् ।। ५५१ ॥ स्वामिनाऽधिष्ठितस्याऽद्रेर्मेरोर्ऋद्धिमिवाऽधिकाम् । चिकीर्षवः केऽपि सुराः, स्वर्णवृष्टिं वितेनिरे ॥ ५५२ ॥ स्वामिपादप्रणामावतरत्ताराविडम्बिनीम् । केचिदुच्चै रत्नवृष्टिं, त्रिविष्टपसदो व्यधुः ।। ५५३ ।। गन्धर्वानीकमधरीकुर्वन्तो मधुरस्वरैः । ग्रामरागैर्नवनवैः केचन स्वामिनं जगुः ॥ ५५४ ॥ ततान्यथाऽवनद्धानि, घनानि शुषिराणि च । वादयामासुरातोद्यान्यन्ये भक्तिर्ह्यनेकधा ।। ५५५ ।। निर्त्तयिषव इव, स्वर्णशैलशिरांस्यपि । पादपातैः कम्पयन्तो, ननृतुः केऽपि नाकिनः ॥ ५५६ ॥ नाट्यं प्रवर्त्तयामासुर्विचित्राभिनयोज्ज्वलम् । त्रिदशाः सह जायाभिर्जायाजीवा इवाऽपरे ।। ५५७ ॥ गरुन्मन्त इवोत्पेतुरमराः केचिदम्बरे । निपेतुः क्रीडया केचित्, ताम्रचूडा इवाऽवनौ ॥ ५५८ ॥ ववल्गुर्वल्गु केऽप्यङ्ककारा इव दिवौकसः । केऽपि सिंहा इवाऽऽनन्दात् सिंहनादं वितेनिरे ।। ५५९ ।। 25 उच्चकैश्चक्रिरे केचित्, कुञ्जरा इव वृंहितम् । सहर्षा हेषितं केचित् तेनिरे तुरगा इव ।। ५६० ॥ स्यन्दना इव केचिच्च, व्यधुर्घणघणारवम् । विदूषका इवाऽन्येषां चक्रुः शब्दचतुष्टयीम् ॥। ५६१ ।। कूर्दमानाः केऽपि मेरुशिखराण्यङ्घ्रिदर्दरैः । अकम्पयन् भृशं शाखिशाखाः शाखामृगा इव ।। ५६२ ।। उद्भटं ताडयामासुश्चपेटाभिर्महीतलम् । रणप्रतिज्ञाकरणोद्यता वीरा इवाऽपरे ।। ५६३ ॥ कोलाहलं विदधिरे, केचिजितपणा इव । स्कन्धातोद्यवदुत्फुल्लौ, गल्लौं केचिदवादयन् ॥ ५६४ ॥ विकृतीभूय विटवत्, केsपि लोकानहासयन् । केऽप्यग्रे पार्श्वयोः पश्चाद्, ववल्गुः कन्दुका इव ॥ ५६५॥ केचिच्च मण्डलीभूय, रासावलयगायिनः । चक्रुर्नृत्तं मनोहारि, हल्लीसकमिव स्त्रियः ॥ ५६६ ॥ केऽप्यज्वलन् ज्वलनवदतपन् केऽपि सूर्यवत् । जगर्जुर्मेघवत् केऽपि, केऽपि विद्युद्युतन् ॥ ५६७ ।। केचिदोदनसम्पूर्णा छात्रा इव विचक्रिरे । तादृक् स्वाम्याप्तिजानन्दः, शक्यते केन गोपितुम् ॥५६८ ॥ बहुप्रकारमानन्दविकारं धारयत्स्वपि । देवेष्वच्युतदेवेन्द्रश्चक्रे भर्तुर्विलेपनम् ।। ५६९ ।।
1
१ रज्ञाचार्याः ।
यः । ३ महाः ।
Jain Education International
For Private & Personal Use Only
४५
10
15
20
30
35
www.jainelibrary.org