________________
10
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व अच्युतेन्द्र उपादत्त, समं सामानिकादिभिः । कुम्भान् सहस्रमष्टाग्रं, फलानीव खसम्पदः ॥ ५०२ ॥ ते तेषां रेजुरुत्क्षिप्तभुजदण्डाग्रवर्तिनः । उदस्तोन्नालनलिनकोशलक्ष्मीविडम्बिनः ॥ ५०३ ॥ अच्युतेन्द्रः स्नपयितुमथाऽऽरेभे जगत्पतिम् । आत्मीयमिव मूर्द्धानं, कलसं नमयन् मनाक् ॥ ५०४ ॥ अथोचैर्वादयामासु किनः केचिदानकान् । गुहाप्रतिरवैरुच्चैर्वाचालितसुराचलान् ॥ ५०५॥ दुन्दुभीस्ताडयामासुरपरे भक्तितत्पराः । मन्थायस्तमहाम्भोधिध्वानश्रीतस्करध्वनीन् ॥ ५०६॥ उत्तालाः कांस्यतालानि, केचिदास्फालयन् मिथः । पर्याकुलध्वनिस्रोतःकल्लोलाननिला इव ॥ ५०७॥ अवादयन् केऽपि तारं, भेरीरुन्मुखशालिनीः । ऊर्ध्वलोके जिनेन्द्राज्ञां, सर्वतस्तन्वतीरिव ॥ ५०८ ॥ अपूरयन् महानादबहलाः केपि काहलाः । नाहेला इव गोशृङ्गाण्यद्रिशृङ्गस्थिताः सुराः ॥ ५०९ ॥ दुष्टशिष्यानिवोद्घोषहेतवे मुरजान मुहुः । पाणिभिस्ताडयामासुः, केचन त्रिदिवौकसः ।। ५१० ॥ असङ्ख्यातागतार्केन्दुमण्डलश्रीविडम्बिनीः । स्वर्णरूप्यमयीर्देवा, झल्लरीः केऽप्यवादयन् ॥५११॥ गण्डैः पीयूषगण्डूषगभैरिव समुन्नतैः । तारमापूरयामासुः, शङ्खान केऽपि दिवौकसः ॥ ५१२ ॥ इत्थं विचित्रातोयेषु, वाद्यमानेषु नाकिभिः । अंवादकमिवाऽऽतोद्यं, द्यौरासीत् प्रतिशब्दितैः ॥ ५१३ ॥ जय नन्द जगन्नाथ !, सिद्धिगामिन् ! कृपार्णव ! । धर्मप्रवर्तकेत्यादि, चारणश्रमणा जगुः ॥ ५१४॥ विचित्रैर्बुवकैः श्लोकैरुत्साहैः स्कन्धकैरपि । गलितैर्वस्तुवदनैर्गद्यैरपि मनोहरैः ॥ ५१५ ॥ स्तुति पठित्वा मधुरां, कुम्भान् भुवनभर्तरि । शनैः प्रलोठयामासाऽच्युतेन्द्रः स्वामरैः समम् ॥५१६॥ तेऽम्भस्कुम्भाः शुशुभिरे, लुठन्तः स्वामिमूर्द्धनि । सुमेरुशैलशिखरे, वर्षन्त इव वारिदाः ॥ ५१७ ॥ अमरैर्नाम्यमानास्ते, मूर्द्धन्युभयतः प्रभुम् । सद्यः सङ्घटयामासुर्माणिक्योत्तंसविभ्रमम् ॥ ५१८ ॥ कुम्भेभ्यः पूजितायेभ्यस्ताः पतन्त्यश्चकाशिरे । वारिधारा गिरिदरीमुखेभ्य इव निर्झराः ॥ ५१९ ॥ उच्छलन्त्यो मौलिदेशाद. विष्वदीच्यो जलच्छटाः । स्वामिनो धर्मकन्दस्य प्ररोहा इव रेजिरे ॥५२॥ परिवेषेण विस्तीर्ण, मर्भि श्वेतातपत्रवत् । ललाटपट्टे प्रसरच्चान्दनीव लॅलाटिका ॥ ५२१ ॥ कर्णयोः प्रान्तविश्रान्तनयनोपान्तकान्तिवत् । कपोलपाल्योः कर्पूरपत्रवल्लिवितानवत् ॥ ५२२ ॥ मनोज्ञयोरधरयोः, स्मितद्युतिकलापवत् । कण्ठकन्दलदेशे तूद्दाममौक्तिकदामवत् ॥५२३ ॥ स्कन्धदेशोपरिष्टाच्च, गोशीर्षस्थासकोपमम् । बाहुहृत्पृष्ठभागेषु, विशाल इव चोलकः ॥ ५२४ ॥ कटिजान्वन्तराले चोत्तरीयमिव विस्तृतम् । पतद् भगवति भ्रेजे, क्षीरोदाधुदकं तदा ॥ ५२५ ॥
[पञ्चभिः कुलकम् ] खामिस्नात्रजलं तच, भूमावपतदेव हि । श्रद्धया जगृहे कैश्चिन्मेषाम्भश्चातकैरिव ।। ५२६ ॥ क नाम प्राप्स्यतेऽसाभिभूयोऽद इति मूर्द्धनि । तत्पयः केचिदमरा, न्यधुर्मरुनरा इव ॥ ५२७ ॥ पयसा सिषिचे तेन, साभिलाषैश्च कैश्चन । भूयो भूयो वपुर्देवैीष्मात्तैवि कुञ्जरैः ॥ ५२८ ॥
रयेण प्रसरन्मेरुगिरिप्रस्थेषु तत् पयः । अकल्पयनिर्झरिणीसहस्राणि समन्ततः ॥ ५२९ ॥ 30 तत् पाण्डके सौमनसे, नन्दने भद्रशालके । उद्याने प्रसृतातुल्यकुल्यालीलामशिश्रियत् ॥ ५३० ॥
हरेः स्वपयतः कुम्भा, भवन्तोऽधोमुखा बभुः । स्नात्रस्तोकीभवद्वारिसम्पदा लजिता इव ॥ ५३१ ॥ तानेव बिभराञ्चक्रुः, कुम्भान् कुम्भान्तराम्बुभिः । आभियोगिकगीर्वाणाः, कुर्वाणाः स्वामिशासनम्॥५३२॥ वृन्दारकाणां हस्तेषु, हस्तेभ्यः सञ्चरिष्णवः । बभ्राजिरे ते कलशाः, श्रीमतां बालका इव ॥ ५३३ ॥ ढौक्यमानाऽभितो नाभिसूनुं कलशधोरणी । आरोप्यमाणवर्णाजमालालीलायितं दधौ ॥ ५३४ ॥ १ टक्काविशेषान् । २ किराताः। ३ वादकजनरहितम्। * प्रभोः आ, सं २॥ योजनास्येभ्यस्ताः आ ॥
४ ललाटालङ्कारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.