________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । ऋषिवादितकानां तु, ऋषिश्च ऋषिपालकः । तथा भूतवादितानामीश्वरोऽथ महेश्वरः॥४७१॥ क्रन्दितानां पुनरिन्द्रौ, मुंवत्सकविशालको । महाक्रन्दितकानां तु, हासहासरती हरी॥४७२॥ कुष्माण्डानां पुनः श्वेतमहाश्वेतपुरन्दरौ । पवकपर्वकपती, पावकानां तु वासवौ ॥ ४७३ ॥
ज्योतिष्काणामसङ्ख्यातो, चन्द्रादित्यावुपेयतुः । इतीन्द्राणां चतुःषष्टिराययौ मेरुमूर्द्धनि ॥ ४७४ ॥ ___ आदिक्षदच्युतेन्द्रोऽथ, त्रिदशानाभियोगिकान् । जिनजन्माभिषेकोपकरणान्यानयन्त्विति ॥ ४७५ ॥5 अथ किश्चिदपक्रम्योत्तरपूर्वदिशि क्षणात् । ते वैक्रियसमुद्घातेनाकृष्योत्तमपुद्गलान् ॥ ४७६ ॥ सौवर्णान् राजतान् रत्नमयान् काञ्चनराजतान् । स्वर्णरत्नमयान् स्वर्णरूप्यरत्नमयानपि ॥ ४७७॥ रूप्यरत्नमयान् भौमान् , कलशान् पूजिताननान् । रम्यान् प्रत्येकमष्टाग्रसहस्रं ते विचक्रिरे ॥ ४७८ ॥
1
[विभिर्विशेषकम् ] भृङ्गारान् दर्पणान् रत्नकरण्डान सुप्रतिष्ठकान् । स्थालानि पात्रिकाचाऽपि, पुष्पचङ्गेरिका अपि ॥ ४७९ ॥ 10 प्रत्येकं कुम्भसङ्ख्यातांस्तद्वत्स्वर्णादिवस्तुजान् । तत्कालं ढौकयामासुरग्रे निष्पादितानिव ॥ ४८० ॥
[सन्दानितकम् ] कलशांस्तानुपादाय, ते देवा आभियोगिकाः । क्षीरोदधावाददिरे, वारि वारिधरा इव ॥ ४८१ ॥ तत्रागृह्णन पुण्डरीकोत्पलकोकनदानि ते । तदम्भसामभिज्ञानमिव दर्शयितुं हरेः॥ ४८२ ॥ उदधौ पुष्करोदेऽपि, जगृहुः पुष्कराणि ते । निपान इव पानीयहारिकाः कुम्भपाणयः॥ ४८३॥ 15 भरतैरवतादीनां, तीर्थेषु मागधादिषु । तेऽम्भो मृत्स्नां च जगृहुः, कर्तुं कुम्भानिवाधिकान् ॥४८४॥ गङ्गादिकानां च महानदीनामुदकानि ते । समुपाददिरे स्वैरं, शौल्किका इव वर्णिकाम् ॥ ४८५ ॥ ते क्षुद्रहिमवत्येत्यागृह्णन् न्यासीकृतानिव । सिद्धार्थपुष्पतुवरगन्धान सौषधीरपि ॥ ४८६ ॥ तत्र पद्माभिधहदादम्भांस्यम्भोरुहाणि च । विमलानि सुगन्धीनि, जगृहुः पावनानि ते ॥ ४८७ ॥ तेऽन्यवर्षधरेभ्योऽम्बुपद्माद्याददिरे तथा । प्रस्पर्धिन इवाऽन्योन्यमेकस्मिन् कर्मणीरिताः॥४८८॥ अगृह्णन्नखिलक्षेत्रवैताट्यविजयेष्वपि । अम्भोऽम्भोजादिकं तत्राऽतृप्ताः स्वामिप्रसादवत् ॥ ४८९ ॥ वक्षारकगिरिभ्योऽपि, ते पवित्रं सुगन्धि च । तत् तदाददिरे वस्तु, तदर्थमिव सश्चितम् ॥ ४९० ॥ देवोत्तरकरुभ्योऽपि, पूरयामासुरम्भसा । स्वमिव श्रेयसा तेऽथ, कलसानलसेतराः॥४९१॥ भद्रशाले नन्दने च, सौमनसेऽथ पाण्डके । जगृहुः सर्वं तुवरगोशीर्षचन्दनादि ते ॥ ४९२॥ गन्धकारा इवैकत्र, गन्धद्रव्यं जलानि च । मेलयित्वा समाजग्मुर्मछु ते मेरुमूर्द्धनि ॥ ४९३ ॥ 25 सामानिकानां दशभिः, सहस्रेस्तच्चतुर्गुणैः । आत्मरक्षैत्रायस्त्रिंशैत्रयस्त्रिंशन्मितैस्तथा ॥ ४९४ ॥ तिसृभिः परिषद्भिश्च, चतुर्भिर्लोकपालकैः । सप्तभिश्च महानीकैरनीकेशैश्च सप्तभिः ॥ ४९५ ॥ आरणाच्युतकल्पेन्द्रः, सर्वतः परिवारितः । भगवन्तं स्मपयितुं, ततः शुचिरुपास्थित ॥ ४९६ ॥
त्रिभिर्विशेषकम् ] ततः कृतोत्तरासङ्गो, निःसङ्गाभक्तिरच्युतः । उन्निद्रपारिजातादिपुष्पाञ्जलिमुपाददे ॥ ४९७ ॥ 30 अस्तोकधूपधूमेन, धूपायित्वा सुगन्धिना । मुमोच त्रिजगद्भर्तुः, पुरस्तं कुसुमाञ्जलिम् ॥ ४९८ ॥ देवैरानिन्यिरे गन्धाम्भस्कुम्भाः सम्भिरर्चिताः । सयमाना इव खामिसान्निध्योद्भूतया मुदा ॥ ४९९ ॥ चकासामासुरास्यस्थेस्ते पञमुखरालिभिः । अधीयाना इव स्वामिनावमङ्गलमादिमम् ॥ ५०० ॥ अलक्ष्यन्त च ते कुम्भाः, स्वामिस्नपनहेतवे । पातालतः समायाताः, पातालकलशा इव ॥ ५०१॥
* योजनान आ॥ १ कमलभेदाः। २ जलाशये। ३ जलग्राहिण्यः। भरतैरावता आ, सं २ ॥ ४ जलकमलादिकम् । ५ आलस्यरहिताः ।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org