________________
४२ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व चत्वारिंशत्सहस्राणां, विमानानां सुरैर्वृतः । प्रीतिगमविमानेन, शुक्रोऽगान्मेरुमूर्द्धनि ॥ ४३९ ॥ संहस्रारः सह सुरैः, षड्विमानसहस्रजैः । मनोरमविमानेनाऽऽययावुपजिनेश्वरम् ॥ ४४० ॥ विमलेन विमानेनाऽऽनत-प्राणतवासवः । चतुर्विमानशतजैः, सुरैः सह समाययौ ॥ ४४१ ॥ आरणाच्युतराजोऽपि, विमानत्रिशतीसुरैः । तत्राऽऽगात् सर्वतोभद्रविमानेनाऽतिरंहसा ॥ ४४२ ॥
रत्नप्रभाया मेदिन्या, बाहल्यान्तर्निवासिनाम् । भवनव्यन्तरेन्द्राणामासनान्यचलंस्तदा ॥ ४४३ ॥ पुर्या चमरचञ्चायां, सुधर्मायां च पर्षदि । सिंहासने च चमरे, निषण्णश्चमरासुरः ॥ ४४४ ॥ जिनजन्मावर्ज्ञात्वा, लोकज्ञप्त्यै द्रुमेण च । पत्यनीकाधिपेनौघस्वरां घण्टामवादयत् ॥४४५॥ चतुःषष्ट्या सहस्त्रैः स, सामानिकदिवौकसाम् । त्रयस्त्रिंशित्रायस्त्रिंशैश्चतुर्भिर्लोकपालकैः ।। ४४६ ॥
पञ्चभिश्चाग्र्यदेवीभिः, पर्षद्भिस्तिसृभिस्तथा । सप्तभिश्च महानीकैस्तदधीशैश्च सप्तभिः ॥ ४४७ ॥ 10 प्रतिदिश चतुःषष्ट्या, सहस्रैरात्मरक्षिणाम् । वृतोऽपरैरप्यसुरकुमारैः परमर्द्धिभिः॥४४८ ॥
पञ्चयोजनशत्युच्चं, महाध्वजविभूषितम् । पञ्चाशतं सहस्राणि, योजनानि तु विस्तृतम् ॥ ४४९ ॥ विमानमाभियोग्येन, सद्यो देवेन निर्मितम् । अधिरुह्याऽचलत् स्वामिजन्मोत्सवविधित्सया ॥ ४५० ॥ सङ्क्षिप्य शक्रवन्मार्गे, विमानं चमरासुरः। जगाम मेरुशिखरं, स्वाम्यागमपवित्रितम् ॥ ४५१ ॥
बलिश्च बलिचश्चाया, नगर्या असुरेश्वरः । घण्टां घोषयता तारं, प्राग महौघस्वराभिधाम् ॥४५२॥ 15 महाद्रुमेण सेनान्या, सामानिकदिवाकसाम् । षष्ट्या सहस्रैराहूतैरारक्षश्च चतुर्गुणैः ॥ ४५३ ॥ त्रायस्त्रिंशादिभिश्चापि, वृतश्चमरवत् सुरैः । जगामामन्दमानन्दमन्दिरं मन्दराचलम् ॥ ४५४ ॥
[त्रिभिर्विशेषकम् ] नागेन्द्रो धरणो मेघस्वराघण्टाप्रताडनात् । पत्तिसेनाधिपतिना, भद्रसेनेन बोधितैः ॥ ४५५ ॥ पदसामानिकसहस्यात्मरक्षैस्तच्चतुर्गुणैः । पड्भिश्च पट्टदेवीभिर्वृतोऽन्यैरपि पन्नगैः ॥ ४५६ ॥ 20 योजनानां सहस्राणि, पञ्चविंशानि विस्तृतम् । सार्द्धद्वियोजनशतीतुङ्गेन्द्रध्वजभूषितम् ॥ ४५७ ॥ विमानरत्नमारुह्य, भगवदर्शनोत्सुकः । मन्दराचलमूर्द्धानमाससाद क्षणादपि ॥ ४५८ ॥
-
[चतुर्भिः कलापकम् ] भूतानन्दोऽपि नागेन्द्रो, घण्टां मेघखरांप्रता । पत्यनीकेशदक्षेणाहूतैः सामानिकादिभिः ॥ ४५९ ॥
वृतो विमानमारुह्याभियोगिकसुरोद्भवम् । जगाम त्रिजगन्नाथसनाथं मन्दराचलम् ॥ ४६० [ युग्मम् ] 25 इन्द्रौ विद्युत्कुमाराणां, हरिहरिसहस्तथा । सुपर्णानां वेणुदेवो, वेणुदारी च वासवौ ॥ ४६१ ॥
इन्द्रावग्निकुमाराणामग्निशिखाग्निमाणवी । समीरणकुमाराणां, वेलम्बाख्यभञ्जनौ ॥४६२॥ स्तनितानां सुघोषश्च, महाघोषश्च नायकौ । तथोदधिकुमाराणां, जैलकान्तजलप्रभो ॥४६३॥ पूर्णो विशिष्टच द्वीपकुमाराणां पुरन्दरौ । तथैव दिकुमाराणाममितामितवाहनौ ॥ ४६४ ।।
व्यन्तरेषु कालमहाकालौ पिशाचवासवौ । सुरूपः प्रतिरूपश्च, तथा भूतपुरन्दरौ ॥ ४६५ ॥ यक्षराजौ पूर्णभद्रो, माणिभद्रश्च नामतः । इन्द्रौ भीममहाभीमनामानौ रक्षसां पुनः ॥ ४६६ ॥ किन्नरः किम्पुरुषश्च, किन्नराणामधीश्वरौ । तथा सत्पुरुषमहापुरुषो किम्पुरुषपौ ॥ ४६७ ॥ अतिकायमहाकायौ, महोरगपुरन्दरौ । गीतरतिस्तयंशा, गन्धर्वाणां तु वासवौ ॥ ४६८ ॥
तथैवाऽप्रज्ञप्तिपश्चप्रज्ञत्यादीनां षोडश । व्यन्तराष्टनिकायानां, वज्रिणः समुपाययुः ॥ ४६९ ॥ तत्राऽप्रज्ञप्तीनामिन्द्रौ, सन्निहितः सैंमानकः। धाता विधाता च पञ्चप्रज्ञप्तीनां त्वधीश्वरौ ॥४७०॥
* त्रयस्त्रिंशत्राय आ, त्रयस्त्रिंशः पारिषद्यैश्चतु सं १॥ + न्याहूतैः सामानिकैः सुरैः आ॥ हस्तेभ्योऽङ्ग रक्षकैश्च सं १ आ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org