________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् । अथ तेन विमानेन, स्वामिनः सूतिकागृहम् । स प्रदक्षिणयामास, सुमेरुमिव भास्करः ॥ ४०५॥ उदयाच्यां तु ककुभि, स पूर्वककुभः प्रभुः । अस्थापयत् तद् विमानं, निधानं धामकोणवत् ॥ ४०६ ॥ ततो विमानादुत्तीर्य, मानादिव महामुनिः । प्रसन्नमानसः शक्रो, जगाम स्वामिसन्निधौ ॥ ४०७॥ प्रभुमालोकमात्रेऽपि, प्रणनामाऽमराग्रणीः । उपायनं हि प्रथम, प्रणामः स्वामिदर्शने ॥ ४०८॥ ततः प्रदक्षिणीकृत्य, भगवन्तं समातरम् । प्रणनाम पुनः शक्रो, भक्तौ न पुनरुक्तता ॥ ४०९॥ 5 मूर्ध्नि बद्धाञ्जलिर्धाभिषिक्तस्त्रिदिवौकसाम् । भक्तिमान् स्वामिनीमेवं, मरुदेवामवोचत ॥ ४१० ॥ कुक्षौ रत्नधरे ! देवि !, जगद्दीपप्रदायिके ! । नमस्तुभ्यं जगन्मातस्त्वं धन्या पुण्यवत्यसि ॥४११॥ त्वमेवाऽमोघजन्माऽसि, त्वमेवोत्तमलक्षणा । पुत्रिणीषु त्वमेवाऽसि, पवित्रा भुवनत्रये ॥ ४१२ ॥ धर्मोद्धरणधौरेयश्छन्नमोक्षाध्वदर्शकः । प्रथमस्तीर्थनाथोऽयं, भगवान् सुषुवे यया ॥४१३ ॥ अहं सौधर्मदेवेन्द्रो, देवि ! त्वत्तनुजन्मनः । अर्हतो जन्ममहिमोत्सवं कर्तुमिहाऽऽगमम् ॥ ४१४ ॥ 10 भवत्या नैव भेतव्यमित्युदीर्य दिवस्पतिः । अवस्वापनिकां देव्यां, मरुदेव्यां विनिर्ममे ॥ ४१५॥ नाभिसूनोः प्रतिच्छन्द, विदधे मघवा ततः। देव्याः श्रीमरुदेवायाः, पार्श्वे तं च न्यवेशयत् ॥४१६॥ स चक्रे पञ्चधाऽऽत्मानं, पञ्चशक्रास्ततोऽभवन् । तस्याऽर्हा स्वामिनो भक्तिर्नैकाङ्गैः कर्तुमीश्यते ॥४१७॥ एकः सङ्क्रन्दनस्तत्र, पुरोभूय प्रणम्य च । भगवन्ननुजानीहीत्युदित्वा प्रश्रयाश्रितम् ॥ ४१८ ॥ गोशीर्षचन्दनाक्ताभ्यां, पाणिभ्यां भुवनेश्वरम् । मूर्तिस्थमिव कल्याणं, कल्याणीभक्तिराददे ॥ ४१९ ॥ 15 जगत्तापापनोदैकातपत्रस्य जगत्पतेः । आतपत्रं दधौ मूर्द्धन्येकः शक्रस्तु पृष्ठगः ॥ ४२० ॥ स्वामिनः पार्श्वयोरन्यौ, बाहुदण्डाविव स्थितौ । बिभराञ्चक्रतुश्वारुचामरे चाऽमरेश्वरौ ॥ ४२१ ॥ दम्भोलिदण्डं बिभ्राणो, वल्गन् द्वास्थाग्रणीरिव । अग्रेसरः शुनासीरो, बभूवाऽन्यो जगत्पतेः ॥ ४२२ ॥ वृताः सुरैर्जयजयेत्येकरावीकृताम्बरैः । उत्पेतुरम्बरेणेन्द्रा, अम्बरामलचेतसः ॥ ४२३ ॥ उत्कण्ठितानां देवानां, निपेतुर्भगवत्तनौ । सुधासरस्यां तृषिताध्वगानामिव दृष्टयः ॥ ४२४ ॥ 20 प्रभोस्तदद्भुतं रूपं, द्रष्टुं प्रष्ठा दिवौकसः । पृष्ठवर्तीनि नेत्राणि, कामयामासुरात्मनः ॥ ४२५ ॥ अतृप्ताः स्वामिनं द्रष्टुममराः पारिपार्श्विकाः । नाशकन्नन्यतो नेतुं, नयने स्तम्भिते इव ॥ ४२६ ॥ अनुगास्तु सुरा द्रष्टुं, प्रभुमग्रे यियासवः । पर्यस्यन्तो न हि निजं, मित्रस्वाम्याद्यजीगणन् ॥ ४२७ ॥ हृदयान्तरिवाऽर्हन्तं, हृदयद्वारि धारयन् । दिवौकसामधिपतिः, प्राप मेरुमहीधरम् ॥ ४२८॥ तत्रान्तः पाण्डकवनं. चलिकां दक्षिणेन तु । अतिपाण्डकम्बलायां. शिलायाममलत्विषि॥४२९॥25 सिंहासनेर्हत्स्नात्राहे, निजाङ्कस्थापितप्रभुः । सहर्ष न्यसदत् पूर्वाभिमुखः पूर्वदिक्पतिः ॥ ४३०॥ __ अत्रान्तरे महाघोषाघण्टानादप्रबोधितैः । अष्टाविंशतिविमानलक्षवास्यमरैर्वृतः ॥ ४३१ ॥ ऐशानकल्पाधिपतिः, शूलभृद् वृषवाहनः । पुष्पकाभियोग्यकृते, विमाने पुष्पके स्थितः ॥ ४३२ ॥ दक्षिणेनैशानकल्पमुत्तीर्णस्तिर्यगध्वना । अधिनन्दीश्वरमुदक्पूर्वे रतिकराचले ॥ ४३३ ॥ विमानमुपसंहृत्य, सौधर्मेन्द्र इव द्रुतम् । आगात् सुमेरुशिरसि, भक्त्या भगवदन्तिकम् ॥ ४३४॥ 30 विमानद्वादशलक्षीवासिभिस्त्रिदशैर्वृतः । सनत्कुमारः सुमनोविमानस्थः स चाऽऽययौ ॥ ४३५ ॥ विमानलक्षाष्टकजैर्महेन्द्रोऽप्यन्वितः सुरैः । श्रीवत्सेन विमानेन, मनसेवाऽऽययौ द्रुतम् ॥ ४३६ ॥
चतुर्विमानलक्षस्थैर्वृतो ब्रह्माऽपि नाकिभिः । नन्द्यावर्तविमानेन, स्वामिनोऽभ्यर्णमाययौ ॥ ४३७ ॥ __ आगाद् विमानपञ्चाशत्सहस्रीवासिभिः सुरैः । कामगवविमानेन, लान्तकोऽपि जिनान्तिकम् ॥ ४३८॥
* अयं श्लोकः आ पुस्तके न दृश्यते। १ एतदाख्यां निद्राम् । २ विनयसहितम् । ३ इन्द्रः। + पार्श्वकाः खंता ॥ ४ एतदाख्यायां शिलायाम् ।
त्रिषष्टि.६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org