________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
अष्टानामग्रदेवीनां प्राच्यामष्टासनानि तु । सदृशाकारधारीणि, सोदराणीव जज्ञिरे ॥ ३७२ ॥ दिशि दक्षिणपूर्वस्यामभ्यन्तरसभासदाम् । भद्रासनसहस्राणि द्वादशाऽऽसन् दिवौकसाम् ।। ३७३ ।। आसनानि दक्षिणस्यामासन् मध्यसभासदाम् । चतुर्दशानां दिविषत्सहस्राणां क्रमेण तु ॥ ३७४ ॥ दक्षिणपश्चिमायां तु देवानां बाह्यपर्षदः । पोडशानां सहस्राणामासीदासनधोरणी ॥ ३७५ ॥ 5 दिशि प्रतीच्यां सप्तानामनीकपतिनाकिनाम् । सप्तासनान्येकविम्बपतितानीव रेजिरे || ३७६ || चतुरशीतिः सहस्राण्यासनान्यात्मरक्षिणाम् । भानीव मेरुं परितः शक्रं प्रतिदिशं बभ्रुः ॥ ३७७ ॥ परिपूर्ण विमानं तद्, विरचय्याऽऽभियोगिकाः । देवा विज्ञपयामासुः, स्वामिने त्रिदिवौकसाम् || ३७८ ।। पुरन्दरोऽपि तत्कालं, विचक्रे रूपमुत्तरम् । नैसर्गिकी हि भवति, सदां कामरूपिता ।। ३७९ ।। महिषीभिः सहाऽष्टाभिर्दिश्रीभिरिव वासवः । गन्धर्वनाट्यानीकाभ्यां दर्श्यमानकुतूहलः || ३८० || ततः प्रदक्षिणीकुर्वन्, पूर्वसोपानवर्त्मना । आरुरोह विमानं तन्निजं मानमिवोन्नतम् ॥ ३८१ ॥ सहस्राक्षः सहस्राङ्ग, इव माणिक्यभित्तिषु । सङ्क्रान्तमूर्तिरध्यास्त, प्राङ्मुखः स्वं तदासनम् ।। ३८२ ।। शक्ररूपान्तराणीव, शक्रसामानिकास्तथा । आरुह्योदीच्य सोपानैर्यथाऽऽसनमुपाविशन् ॥ ३८३ ॥ प्रविश्याऽपाच्य सोपानपङ्कयाऽन्येऽपि दिवौकसः । स्ववासनेषु न्यपदन्, स्वाम्यग्रे नाऽऽसेनात्ययः ।। ३८४ ॥ सिंहासननिषण्णस्य, पौलोमी भर्त्तुरग्रतः । दर्पणप्रभृतीन्यष्टमङ्गलान्यष्ट रेजिरे || ३८५ ॥ 15 शुशुभे शशभृत्पाण्डु, पुण्डरीकं विडौजसः । हंसाविवोपसर्पन्तौ, धूयमानौ च चामरौ ॥ ३८६ ॥ सहस्रयोजनोत्सेधो, विमानाग्रे हरिध्वजः । अशोभत पताकाभिर्निर्झरैरिव पर्वतः || ३८७ || ततः परिवृतो देवैः, शक्रः सामानिकादिभिः । कोटिसङ्ख्यैरराजिष्ट, स्रोतोभिरिव सागरः || ३८८ ॥ विमानैरन्यदेवानां, विमानं तच्च वेष्टितम् । रुरुचे परिधिचैत्यैर्मूलचैत्यमिवोच्चकैः ॥ ३८९ ॥ अन्योऽन्यं चारुमाणिक्यभित्तिषु प्रतिविम्वितैः । विमानैर्गर्भितानीव, विमानानि चकाशिरे ।। ३९० ॥ 20 मागधानां जयजयध्वानैर्दुन्दुभिनिखनैः । गन्धर्वानीकनाट्यानीकातोद्यध्वनितैरपि ।। ३९१ ॥ दिङ्मुखप्रतिफलितैद्य दारयदिवाऽभितः । सौधर्ममध्यतोऽचालीत्, तद् विमानं हॅरीच्छया ।। ३९२ ।। सौधर्मोत्तरतस्तिर्यग्मार्गेण च तदुत्तरत् । अलक्षि जम्बूद्वीपस्य, पिधानायेव भाजनम् ।। ३९३ ।।
1
हस्तियाविन्नितो याहि, न मे सिंहः सहिष्यते । सादिनपसर क्रुद्धः, कासरो वाहनं मम ।। ३९४ ॥ मृगवान ! माभ्यागा, नन्वहं द्वीपिवाहनः । सर्वध्वज ! व्रजेतस्त्वं, पश्य मे गरुडं ध्वजे ।। ३९५ ।। किं पतस्यन्तरे मे त्वं, गतिविघ्नकरः पुरः । विमानं घट्टयसि भोः !, स्वविमानेन किं मम ।। ३९६ ॥ किं पञ्चात्पतितोऽस्येहि, शीघ्रं याति सुराधिपः । मा कुप्य घर्षणेनाऽद्य, सम्मर्दः खलु पर्वणि ।। ३९७ ॥ सौधर्मकल्पदेवानां, देवेन्द्रभ्रुपसर्पताम् । एवमौत्सुक्यजन्मा भून्मिथः कोलाहलो महान् ॥ ३९८ ॥ [ पञ्चभिःकुलकम् ] महाध्वजपटं रेजे, तद् विमानं नभस्तलात् । अम्भोधिमध्यशिखराद्, यानपात्रमिवोत्तरत् ॥ ३९९ ॥ नक्षत्रचक्रमध्येन, मध्येडुममिव द्विपः । मतीकुर्वदिव दिवं, मेघमण्डलपङ्किलम् ॥ ४०० ॥ द्वीपाम्भोधीनसङ्ख्यातान्, वेगेनोल्लङ्घय वायुवत् । अधिनन्दीश्वरद्वीपं तद् विमानं समापतत् ॥४०१ ॥ तत्र दक्षिणपूर्वस्मिन् गत्वा रतिकराचले । सञ्चिक्षेप विमानं तदिन्द्रो ग्रन्थं सुधीरिव ॥ ४०२ ॥ समुल्लङ्गं समुल्लङ्घ, ततोऽर्वाग् द्वीपसागरान् । ततोऽपि सनिपंस्तच्च, विमानं क्रमयोगतः ॥ ४०३ ॥ जम्बूद्वीपाsभिधे द्वीपे भरतार्द्धे तु दक्षिणे । आदितीर्थकृतो जन्मभवनं प्राप वासवः ॥ ४०४ ॥
10
25
30
४०
१ आसनपरावृत्तिः । २] श्वेतच्छत्रम् । ३ बहिर्मण्डलस्थितचेत्यैः । ४ इन्द्रेच्छया । * ण प्राचलत्तरम् सं १ ॥ ५ हे अश्वारोह ! ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org