________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । नन्दनो मरुदेवाया, जज्ञे प्रथमतीर्थकृत् । आहूयन्तां सुराः सर्वे, तजन्मस्नात्रहेतवे ॥३४०॥
ततश्च योजनपरिमण्डलामद्भुतस्वनाम् । स त्रिरुल्लालयन् घण्टा, सुघोषाख्यामवादयत् ॥ ३४१ ॥ सर्वापरविमानानां, नेदुर्घण्टाः सुघोषया । समं मुखरगायन्या, गायन्य इव पक्षगाः ॥ ३४२ ॥ घण्टानां निस्वनस्तासां, दिङ्मुखोत्थैः प्रतिस्वनैः । सूनुभिः स्वप्रतिच्छन्दैः, सतां कुलमिवाऽवृधत् ॥३४३॥ द्वात्रिंशति विमानानां, लक्षेषु स समुच्छलन् । तालुनीवाऽनुरणनरूपः शब्दो व्यजृम्भत ॥ ३४४ ॥ 5 देवाः प्रमत्तव्यासक्तास्तेन शब्देन मैंर्छता । किमेतदिति सम्भ्रान्ताश्चक्रिरे सावधानताम ॥ ३४५॥ उद्दिश्य तानवहितान् , सेनानीः सोऽथ वज्रिणः । वचसा मेघनिर्घोषगम्भीरेणाऽभ्यधादिति ॥ ३४६ ॥ भो भो देवाः ! समस्तान वः, सदेव्यादिपरिच्छदान् । इत्यादिशत्यनुल्लयशासनः पाकशासनः ॥३४७॥ जम्बूद्वीपस्थ भरतदक्षिणार्द्धस्य मध्यतः । नाभेः कुले कुलकृतो, जज्ञे प्रथमतीर्थकृत् ॥ ३४८ ॥ तत्र तजन्मकल्याणमहोत्सवविधित्सया । गन्तुं त्वरध्वमस्मद्वत्, कृत्यं नाऽतः परं परम् ॥ ३४९॥ 10 प्रत्यर्हन्तं रागतः केऽप्यभिवातमिवैणकाः । केऽपि शक्राज्ञयाऽऽकृष्टा, अयस्कान्तेन लोहवत् ॥ ३५० ॥ दारैरुल्लासिताः केऽपि, यादांसीव नदीरयैः । केचित् सुहद्भिराकृष्टा, गन्धा गन्धवहैरिव ।। ३५१ ॥ एयुर्विमानै रुचिरैर्वाहनैरपरैरपि । द्यामन्यामिव कुर्वाणा, गीर्वाणाः शक्रसन्निधौ ॥ ३५२ ॥
[त्रिभिर्विशेषकम् ] आदिशत् पालकं नाम, वासवोऽप्याभियोगिकम् । असम्भाव्यप्रतिमानं, विमानं क्रियतामिति ॥३५३।। 15 तत्कालं पालकोऽपीशनिदेशपरिपालकः । रत्नस्तम्भसहस्रांशुपूरपल्लविताम्बरम् ॥ ३५४ ॥ गवाक्षरक्षिमदिव, दीधैर्दोष्मदिव ध्वजैः । वेदीभिर्दन्तुरमिव, कुम्भैः पुलकभागिव ॥ ३५५ ॥ पञ्चयोजनशत्युच्चं, विस्तारे लक्षयोजनम् । इच्छानुमानगमनं, विमानं पालकं व्यधात् ॥ ३५६ ॥
[त्रिभिर्विशेषकम् ] आसंस्तस्य विमानस्य, तिस्रः सोपानपतयः । गिरेर्हिमवतो नद्य, इव कान्तितरङ्गिताः ॥ ३५७ ॥ 20 तासां पुरस्ताद् विविधवर्णरत्नमयानि च । तोरणानि त्रिधाभूतशक्रधन्वश्रियं दधुः ॥ ३५८ ॥ चन्द्रबिम्बवदादर्शवदालिङ्गिमृदङ्गवत् । दीपमल्लीवदस्यान्तः, समवृत्ता रराज भूः ॥३५९ ॥ न्यस्तरत्नशिलारश्मिपटलैर्विरलेतरैः । भित्तिचित्रोपरितिरस्करणीरिव सा न्यधात् ॥ ३६० ॥ अभूत् तन्मध्यतः प्रेक्षामण्डपो रत्ननिर्मितः । अप्सरोनिर्विशेषाभिः, पाञ्चालीभिर्विभूषितः ॥ ३६१ ॥ मण्डपस्य च तस्यान्तश्चारुमाणिक्यनिर्मिता । बभूव पीठिकोनिद्रपङ्कजस्येव कर्णिका ॥ ३६२ ॥ 25 चकासामास विष्कम्भायामयोरष्टयोजना। सा चतुर्योजना पिण्डे, शय्येव मघवेश्रियः ॥ ३६३ ॥ रेजे तस्या उपर्येकं, रत्नसिंहासनं महत् । अशेषज्योतिषां सारं, पिण्डयित्वेव निर्मितम् ॥ ३६४ ॥ तस्योपरिष्टाद् विजयदृष्यं दृष्येतरश्यभात् । विचित्ररत्नखचितं, निचिताम्बरमंशुभिः ॥ ३६५ ॥ तस्य मध्ये कर्ण इवेभस्य वज्राङ्कुशोऽशुभत् । लीलादोलानिभं लक्ष्म्या, मुक्तादाम च कुम्भिकम् ।।३६६॥ तदीयामिभिर्मुक्तादामभिश्वार्धकुम्भिकैः । पार्श्वगैर्दाम रेजे तद् , गङ्गा नद्यन्तरैरिव ॥ ३६७ ॥ 30 तत्संस्पर्शसुखलोभादिव स्खलितगामिभिः । मन्दं मन्दमदोल्यन्त, तानि प्राच्यादिवायुभिः ॥ ३६८ ॥ तदन्तः सञ्चरन् वायुश्चक्रे श्रुतिसुखं स्वरम् । चाटुकार इवेन्द्रस्य, गायन्निव यशोऽमलम् ॥ ३६९ ॥ तत्सिंहासनमाश्रित्य, वायव्योत्तरयोर्दिशोः । दिशि चोत्तरपूर्वयां, सामानिकदिवौकसाम् ॥ ३७० ॥ चतुरशीतिसहस्रसङ्ख्यानामभवन् क्रमात् । भद्रासनानि तावन्ति, धुश्रीणां मुकुटा इव ॥ ३७१ ॥
१ अग्रसरगायक्या । * मूछिताः सं १, २, आ ॥ २ सावधानान् । ३ लोहचुम्बकेन । ४ जलजन्तवः । ५ मल्लिकाजातिविशेषः । ६ जवनिकाः । ७ पुत्तलिकाभिः। ८ दैर्ध्य विस्तारयोः। ९ इन्द्रश्रियः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org