________________
३८
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व ता दक्षिणचतुःशाले, जिनं न्यस्य कराञ्जलौ । निन्युस्तन्मातरं चाऽऽप्तचेटीवद् दत्तबाहवः ॥ ३०६ ॥ सिंहासने निवेश्योभावभ्यान ः सुगन्धिना । ता लक्षपाकतैलेन, जरत्संवाहिका इव ॥ ३०७ ॥ अमन्दामोदनिःस्यन्दप्रमोदितदिशा भृशम् । उभावुद्वर्त्तयामासुर्दिव्येनोद्वर्त्तनेन ताः ॥ ३०८ ॥ नीत्वा ताः प्राश्चतुःशाले, न्यस्य सिंहासने च तौ । नपयामासुरम्भोभिः, स्वमनोभिरिवाऽमलैः ॥३०९॥ गन्धकाषायवासोभिस्तदङ्गान्यजन्नथ । गोशीर्षचन्दनरसैश्चर्चयामासुराशु ताः ॥ ३१० ॥ ताभ्यामामोचयामासुर्देवदृष्ये च वाससी । विद्युदुझ्योतसध्यञ्चि, ताश्चित्राभरणानि च ॥ ३११ ।। अथोत्तरचतुःशाले, नीत्वा सिंहासनोपरि । न्यषादयन् भगवन्तं, भगवन्मातरं च ताः ॥ ३१२ ॥ गोशीर्षचन्दनैधांसि, द्राक् क्षुद्रहिमवगिरेः । ताः समानाययामासुरमरैराभियोगिकैः ॥ ३१३ ॥
उत्पाद्याऽरणिदारुभ्यां, वह्निमहाय तास्ततः । होमं वितेनु:शीर्षचन्दनैरेधसात्कृतैः ॥ ३१४ ॥ 10 रक्षापोट्टलिकां वह्निभमना तेन ता व्यधुः । तयोर्महामहिम्नोरप्यासां भक्तिक्रमः स हि ॥ ३१५ ॥
पर्वतायुभवेत्युच्चैरुक्त्वा कर्णान्तिके विभोः । ताः समास्फालयामासुर्मिथः पाषाणगोलको ॥ ३१६ ।। सूतिकाभवने तस्मिन् , मरुदेवां विभुं च ताः । शय्यागतौ विधायाऽस्थुर्गायन्त्यो मङ्गलान्यथ ॥३१७॥ ___ तदा शाश्वतघण्टानां, स्वर्गेषु युगपद् ध्वनिः । बभूव लग्नवेलायामातोद्यानामिवोच्चकैः ॥ ३१८ ॥
वासवानामासनानि, शैलमूलाचलान्यपि । चकम्पिरे तदानीं च, हृदयानि च सम्भ्रमात् ॥ ३१९ ॥ 15 ततश्च सौधर्मपतिः, कोपाटोपारुणेक्षणः । ललाटपट्टघटितभ्रकुटीविकटाननः ।। ३२० ॥ .
अधरं स्फोरयन्नन्तः, क्रोधवः शिखामिव । उच्छ्रसन्नङ्गिणैकेन, स्थिरीकर्तुमिवाऽऽसनम् ॥ ३२१॥ कस्योत्क्षिप्तं कृतान्तेन, पत्रमद्येति विब्रुवन् । आदित्सते स्म दम्भोलिं, स्वशौण्डीर्यानलानिलम् ॥ ३२२ ॥
[त्रिभिर्विशेषकम् ] एवं पुरन्दरं प्रेक्ष्य, क्रुद्धकेसरिसोदरम् । मूर्तो मान इवाऽनीकपतिनत्वा व्यजिज्ञपत् ॥ ३२३ ॥ 20 किमावेशः स्वयं स्वामिन् !, पदातौ मयि सत्यपि ? । समादिश जगन्नाथ!, कं मनामि तव द्विषम् ॥३२४।।
ततो मनःसमाधानमाधाय विबुधाधिपः । प्रयुज्याऽवधिमज्ञासीजन्माऽऽदिमजिनप्रभोः ॥३२५ ॥ मुदा विगलितक्रोधसंवेगस्तत्क्षणादभूत् । शान्तदावानलो वृष्ट्या, सानुमानिव वासवः ॥ ३२६ ॥ धिग् मया चिन्तितमिदं, मिथ्यादुष्कृतमस्तु मे । इति बुवाणो गीर्वाणाग्रणीः सिंहासनं जहौ ॥ ३२७ ॥ गत्वा पदानि सप्ताऽष्टान्युत्तमाङ्गे निधाय च । द्वितीयरत्नमुकुटश्रीविश्राणकमञ्जलिम् ॥ ३२८ ॥ जानूत्तमाङ्गकमलसंस्पृष्टपृथिवीतलः । नत्वा रोमाञ्चितोऽर्हन्तमिति स्तोतुं प्रचक्रमे ॥३२९ ॥
तुभ्यं नमस्तीर्थनाथ !, सनाथीकृतविष्टप! । कृपारससरिनाथ !, नाथ! श्रीनाभिनन्दन ॥ ३३० ॥ मत्यादिभित्रिभिमा॑नैः, सहोत्थैर्नाथ ! शोभसे । नन्दनादिभिरुद्यानैरिव मेरुमहीधरः ॥ ३३१ ॥ देवेदं भारतं वर्ष, दिवोऽप्यद्याऽतिरिच्यते । त्रैलोक्यमौलिरत्नेन, यदलतियते त्वया ॥ ३३२ ॥ असौ त्वजन्मकल्याणमहोत्सवपवित्रितः । आसंसारं जगन्नाथ!, वन्यस्त्वमिव वासरः ॥ ३३३॥ नारकाणामपि सुखं, जज्ञे त्वजन्मपर्वणा । अर्हतामदयः केषां न स्यात सन्तापहारकः?॥३३४॥ जम्बूद्वीपस्य भरतक्षेत्रे नष्टो निधानवत् । त्वदाज्ञाबीजकेनाऽतः, परं धर्मः प्रकाशताम् ॥ ३३५ ॥ त्वत्पादौ प्राप्य संसार, तरिष्यन्ति न केऽधुना ? । अयोऽपि यानपात्रस्थं, पारं प्रामोति वारिधेः ॥३३६॥ कल्पवृक्ष इवाऽवृक्षे, नदीस्रोतो मराविव । भगवन्नवतीर्णोऽसि, लोकपुण्येन भारते ॥ ३३७ ॥
भगवन्तमिति स्तुत्वा, प्रथमस्वर्गनायकः । पदात्यनीकाधिपति, नैगमेषिणमादिशत् ॥ ३३८ ॥ 35 जम्बूद्वीपस्थभरतदक्षिणार्द्धस्य मध्यमे । भूमिभागे कुलभृतो, नाभेः पत्न्याः श्रियांनिधेः ॥ ३३९ ॥
विद्युत्प्रकाशसमानानि । २ वज्रम् । ३ इन्द्रम् । * द्वीपीयम खंता, द्वीपस्य भ° सं १, आ॥+निधिः खंता, आ॥
30
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org