________________
द्वितीयः सर्गः ]
त्रिपष्टिशलाकापुरुषचरितम् ।
३७
1
15
अथाऽघोलोकवासिन्यः सद्यः प्रचलितासनाः । दिकुमार्यः समाजग्मुरष्टौ तत्सूतिवेश्मनि ॥ २७३ ॥ भोगङ्करा भोगवती, सुभोगा भोगमालिनी । तोयधारा विचित्रा च, पुष्पमाला त्वनिन्दिता ॥ तत्रादिमं तीर्थकर, तीर्थकृन्मातरं च ताम् । तात्रिः प्रदक्षिणीकृत्य, वन्दित्वा चैवमृचिरे ।। २७५ ।। नमस्तुभ्यं जगन्मातर्जगद्दीपप्रदायिके ! | अष्टौ वयमधोलोकवासिन्यो दिक्कुमारिकाः ।। २७६ ।। अवधिज्ञानतो ज्ञात्वा तीर्थजन्म पावनम् । तन्महिम्नः करणार्थं, तत्प्रभावादिहागताः ।। २७७ ।। 5 तन्न भेतव्यमित्युक्त्वा, देशे पूर्वोत्तरे स्थिताः । चक्रुः स्तम्भसहस्राङ्कं प्राङ्मुखं सूतिकागृहम् || २७८ ।। ताथ संवर्त्तवातेन, परितः सूतिकागृहम् | आयोजनमपाहार्षुः, शर्कराकण्टकादिकम् ॥ २७९ ॥ संवर्त्तवातं संहृत्य, भगवन्तं प्रणम्य च । तदासन्ननिषण्णास्तास्तं गायन्त्योऽवतस्थिरे ॥ २८० ॥ तथैवाऽऽसनकम्पेन, ज्ञात्वा मेरु गिरिस्थिताः । ऊर्द्धलोकनिवासिन्योऽप्यष्टेयुर्दिकुमारिकाः || २८१ ॥ मेघङ्करा मेघवती, सुमेधा मेघमालिनी । सुवत्सा वत्समित्रा च वारिषेणा बलाहिका ।। २८२ ।। 10 जिनं जिनजननीं च, नत्वा नुत्वा तथैव ताः । नभस्यवन्नभस्यभ्रपटलं द्राग् विचक्रिरे ॥ २८३ ॥ ताभिः सुगन्धितोयेनाऽऽयोजनं वेश्मपार्श्वतः । समन्ततो रजोऽशामि, कौमुद्येव तमस्ततिः ॥ २८४ ॥ वसुन्धरां वितन्वानां नानालेख्यमयीमिव । जानुदनीं पञ्चवर्णैः पुष्पैर्वृष्टिं वितेनिरे ॥ २८५ ॥ तथैव तीर्थनाथस्य, गायन्त्यो निर्मलान् गुणान् । हर्षप्रकर्षशालिन्यः, स्थाने तस्थुर्यथोचिते ॥ २८६ ॥ दिकुमार्योsष्ट पौरस्त्यरुचकाद्रिस्थिता अपि । विमानैर्मनसा सार्द्धं, स्पर्द्धमानैरिवाऽऽययुः ॥ २८७ ॥ ताश्च नन्दोत्तरानन्दे, आनन्दानन्दिवर्द्धने । विजया वैजयन्ती च जयन्ती चाऽपराजिता ॥ स्वामिनं मरुदेवां च, नत्वाऽऽख्याय च पूर्ववत् । गायन्त्यो मङ्गलान्यस्थुस्ताः प्रादर्पणपाणयः ॥ २८९ ॥ अपाच्य रुचकाद्रिस्थास्तावन्त्यो दिकुमारिकाः । तत्राऽययुः प्रमोदेन, प्रतोदेनेव नोदिताः ।। २९० ॥ समाहारा सुप्रदत्ता, सुप्रबुद्धा यशोधरा । लक्ष्मीवती शेषवती, चित्रगुप्ता वसुन्धरा ।। २९१ ॥ जिननार्थं तदम्बां च, नत्वा प्राग्वन्निगद्य च । भृङ्गारपाणयस्तस्थुर्गायन्त्यो दक्षिणेन ताः ।। २९२ ।। serveenशैलस्था, अप्यष्टौ दिकुमारिकाः । आययुस्त्वरयाऽन्योऽन्यमित्र भक्त्या जिगीषवः ।। २९३ ।। इलादेवी सुरादेवी, पृथिवी पद्मवत्यपि । एकनासा नवमिका, भद्रा सीतेति नामतः ॥ २९४ ॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य च पूर्ववत् । तस्थुर्व्यजनहस्तास्ता, गायन्त्यः पश्चिमेन तु ।। २९५ ।। उदचकतोऽप्येयुर्दिकुमार्योऽष्ट वेगतः । वातैरिव रथीभूतैरमरैराभियोगिकैः ॥ २९६ ॥ अलम्बुसा मिश्रकेशी, पुण्डरीका च वारुणी । हासा सर्वप्रभा चैव, श्री हीरित्यभिधानतः ॥ २९७ ।। 25 नत्वा जिनं तदम्बां च कृत्यं चाऽऽख्याय पूर्ववत् । गायन्त्य उत्तरेणाऽस्थुस्तास्तु चामरपाणयः ॥ २९८ ॥ युर्विदिग्चकाद्रेश्चतस्रो दिक्कुमारिकाः । चित्रा चित्रकनका सतेरा सौत्रामणी तथा ।। २९९ ॥ नत्वा जिनं जिनाम्बां च, विज्ञपय्य तथैव हि । गायन्त्योऽस्थुर्दीपहस्ता, ईशानादिविदिक्षु ताः || ३०० || रुचकद्वीपतोऽप्येयुश्चतस्रो दिकुमारिकाः । रूपा रूपाशिका चाऽपि, सुरूपा रूपकावती ॥ ३०१ ॥ चतुरङ्गुलवता, नाभिनालं जगत्पतेः । न्यकृन्तन् विदरं चख्नुस्तं च तत्र निचिक्षिपुः ॥ ३०२ ॥ विद॑रं पूरयामासुर्वत्रै रत्नैश्च मञ्जु ताः । दुर्वया पीठिकाबन्धं, तस्योपरि च चक्रिरे ॥ ३०३ ॥ जिनजन्मगृहात् पूर्वदक्षिणोत्तरदिक्षु च । विचक्रुस्त्रीणि कदलीगृहाणि श्रीगृहाणि ताः ॥ ३०४ ॥ प्रत्येकमेषां मध्ये च, ताः सिंहासनभूषितम् । विचक्रिरे चतुःशालं, विशालं स्वविमानवत् ।। ३०५ ॥
20
1
30
* अथ मेरुरुचकाधोलोकस्थाश्चलि° खंता ॥ + सुवत्सा वत्समित्रा च पु° खंता, आ ॥ । देशेऽथोत्तरपश्चिमे स्वता ॥ ६ तोयधारा विचित्रा च वारि° संता, आ ॥ १ भाद्रपदभासवत् । २ जानुप्रमाणाम्। १ "युः प्रयत्वेन, प्रमोदेनैव चालिताः सं १ ॥ ॐ विवरं सं १, खं ॥ || विवरं सं १, खं ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org