________________
·
10
15
३६
स्वामिन्य पीन्द्रैः स्वप्नार्थव्याख्यानसुधयोक्षिता । वसुधेवाऽम्बुदैरद्भिः, संसिक्ता समुदश्वसत् ।। २५० ।। सा तेनाsशोभि गर्भेण, मेघमालेव भानुना । शुक्तिर्मुक्ताफलेनेव, सिंहेनेवाऽद्रिकन्दरा ।। २५१ ॥ प्रियङ्गुश्यामवर्णाऽपि मरुदेवा निसर्गतः । शरदा मेघमालेव, गर्भेण प्राप पाण्डुताम् ।। २५२ ।। तस्या अभूतां वक्षोजी, विशेषात् पीवरोन्नतौ । स्तन्यपो नौ जगत्स्वामी, भावीतीय प्रमोदतः ।। २५३ ।। तस्या विशेषतोऽभूतां, सविकाशे विलोचने । भगवद्वदनं द्रष्टुं, दूरमुत्कण्ठिते इव ।। २५४ ।। नितम्बभित्तिः स्वामिन्या, वैपुल्यं विपुलाऽपि हि । भेजे वर्षात्यये निम्नगायाः पुलिनभूरिव ।। २५५ ॥ मन्दा सहजभावेनाऽप्यस्या मन्दतराऽभवत् । गतिर्मतङ्गजस्येव, मदावस्थामुपेयुषः ॥ २५६ ॥ तस्यास्तदानीं ववृधे, लावण्यश्रीर्विशेषतः । प्रज्ञेवोषसि विदुषो, ग्रीष्मे वेलेव वारिधेः ॥ २५७ ॥ 20 त्रैलोक्यैकमहासारं, सा गर्भ धारयत्यपि । नाऽखिद्यत प्रभावोऽयमर्हतां गर्भवासिनाम् ॥ २५८ ॥ उदरे मरुदेवायाः, शनकैः शनकैस्ततः । निगूढं ववृधे गर्भः, कन्दोऽन्तरवनेरिव ॥ २५९ ॥ स्वामिन्यभूत् तत्प्रभावाद्, विशेषाद् विश्ववत्सला । शीतमप्यम्बु शीतं स्यात्, क्षिप्तया हिममृत्या || २६० ॥ गर्भावतीर्णभगवत्प्रभावान्नाभिरप्यभूत् । पितृतोऽप्यधिकं मान्यः सर्वेषां युग्मधर्मिणाम् ।। २६१ ॥ तत्प्रभावाद् विशिष्टानुभावाः कल्पद्रवोऽभवन् । शरत्कालवशादिन्दुकरा स्युरधिकश्रियः ।। २६२ ।। 25 तत्प्रभावाच्छान्ततिर्यग्नृबैरा भूरभूच्च सा । सर्वतो ऽपि हि शाम्यन्ति, सन्तापाः प्रावृडागमात् ।। २६३ ॥
ततो नवसु मासेषु, दिनेष्वर्द्धाष्टमेषु च । गतेषु चैत्रबहुलाष्टम्यामर्द्धनिशाक्षणे ॥ २६४ ॥ उच्चस्थेषु ग्रहेष्विन्दावुत्तराषाढया युते । सुखेन सुषुवे देवी, पुत्रं युगलधर्मिणम् ॥ २६५ ॥
30
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
जगन्मातस्त्वया यच्च, स्वमे पूर्णेन्दुरैक्ष्यत । तनेत्रानन्दनः कान्तो, नन्दनस्ते भविष्यति ॥ २३९ ॥ ईक्षाञ्चक्रे रविर्यच्च तत्सूनुस्ते भविष्यति । मोहान्धकारविध्वंसाञ्जगदुद्द्योतकारकः ॥ २४० ॥ आलोके त्वया खमे, यच्च देवि ! महाध्वजः । महावंशप्रतिष्ठः स्यात्, तत् ते धर्मध्वजोङ्गजः || २४१ ॥ यच्च स्वप्ने पूर्णकुम्भो, भवत्याऽऽलोकि देवि ! तत् । सूनुः समग्रातिशयपूर्णपात्रं भविष्यति ॥ २४२ ॥ यच्च पद्मसरो दृष्टं, तत् खामिनि ! तवाऽऽत्मजः । तापं संसारकान्तारपतितानां हरिष्यति ॥ २४३ ॥ सरित्पतिर्यदालोक, भवत्या तनयस्तव । अधृष्यश्चाभिगम्यश्च तदवश्यं भविष्यति ॥ २४४ ॥ विमानं देवि ! यद् दृष्टं, भवत्या भुवनाद्भुतम् । वैमानिकैरपि सुरैस्तत् ते सेविष्यते सुतः ॥ २४५ ॥ रत्नपुञ्जः स्फुरत्कान्तिरीक्षामासे च यत् त्वया । तत्सर्वगुणरलानामाकरः स्यात् तवाऽऽत्मजः ॥ २४६ ॥ यज्ज्वलनो दृष्टो वक्रमध्ये विशंस्त्वया । अन्यतेजखिनां तेजस्तदपास्यति ते सुतः || २४७ ।। चतुर्दशभिरप्येतैः, स्वप्नैः स्वामिनि ! सूच्यते । चतुर्दशंरज्जुदभे, लोके स्वामी तवाऽऽत्मजः ॥ २४८ ॥ इति स्वार्थमाख्याय, मरुदेवीं प्रणम्य च । क्षणान्निर्जनिजस्थानान्यगमन्नमरेश्वराः ॥ २४९ ॥
दिशः प्रसादमासेदुस्तदानीं सम्मदादिव । लोकः क्रीडापरो जज्ञे, ध्रुवसीव महामुदा ॥ २६६ ॥ जरायुरक्तप्रभृतिकलङ्कपरिवर्जितः । उपपादशय्योद्भूत, इव देवो रराज सः ॥ २६७ ॥ तदा कृतजगन्नेत्रचमत्कारोऽन्धकारभित् । बभूव विद्युदुयोत, इवोयोतो जगत्रये ॥ २६८ ॥ किङ्करानाहतोऽप्युच्चैर्मेघगम्भीरनिस्वनः । स्वयं द्यौरिव हर्षेण, ननाद दिवि दुन्दुभिः ॥ २६९ ॥ अप्राप्तपूर्विणां सौख्यं, नारकाणामपि क्षणम् । समजायत तिर्यग नृ-सुराणां किं पुनस्तदा ? ।। २७० ।। भूमि प्रसर्पद्धर्मन्दं मन्दं समीरणैः । रजोऽपनिन्ये मेदिन्याः, परिचर्याकरैरिव ॥ २७१ ॥ चेलक्षेपं च गन्धाम्बु, वषृषे स्तनयित्नुभिः । सिक्तबीजवदुच्छ्रासमाससाद च मेदिनी ॥ २७२ ॥
* यद्देवि ! ज्वलनो ह° सं १ ॥ १ चतुर्दशरज्जुप्रमाणे । + 'जस्थानान्यगमन् सर्वेऽपि सुरेश्वराः सं १ ॥ २ मृत्तिकया । ३ चैत्रकृष्णाष्टम्याम् । उत्तराषाढया युक्ते, चन्द्रे चन्द्रनिवेन्द्रदिकू सं २, आ ॥ ४ देव इव । ५ मेचैः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org