________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
सङ्ख्यातपूर्वप्रमितं, तयोरायुर्महात्मनोः । श्रीकान्तामरुदेवाभ्यां मनागूनमभूत् किल ॥ २०४ ॥ विपद्य मरुदेवोऽथ, प्राप द्वीपकुमारताम् । श्रीकान्ताऽपि हि तत्कालमेव नागकुमारताम् ॥२०५॥ सप्तमोऽभूत् कुलकरो, नाभिस्तदनु युग्मिनाम् । तिसृभिनतिभिस्तांश्च यथावत् प्रशशास सः ॥ २०६ ॥ तदा तृतीयारशेषे, पूर्वलक्षेषु सङ्ख्यया । चतुरशीतौ सनवाशीतिपक्षेषु सत्स्विह ॥ २०७ ॥ आषाढमासस्य पक्षे, प्रवृत्ते धवलेतरे । चतुर्थ्यामुत्तराषाढा नक्षत्रस्थे निशाकरे ॥ २०८ ॥ प्रपाल्याऽऽयुत्रयस्त्रिंशत्सागरोपमसम्मितम् । जीवः श्रीवज्रनाभस्य, च्युत्वा सर्वार्थसिद्धितः ॥ २०९ ॥ श्री नाभिपत्या उदरे, मरुदेव्या अवातरत् । मानसात् सरसो हंस, इव मन्दाकिनीतटे ॥ २१० ॥ तदा स्वामिन्यवतीर्णे, त्रैलोक्येऽपि शरीरिणाम् । दुःखच्छेदात् क्षणं सौख्यमुद्द्योत महानभूत् ॥ २११ ॥ तत्राऽवतरयामिन्यां, वासागारे प्रसुप्तया । मरुदेव्या ददृशिरे, महास्वमाचतुर्दश ।। २१२ ।।
5
आदौ वृषः सितः पीनस्कन्धो दीर्घर्जुवालधिः । सस्वर्णकिङ्किणीमालः, शरन्मेघ इवोत्तडित् ॥ २१३ ।। 10 दन्तिराजचतुर्दन्तः, श्वेतवर्णः क्रमोन्नतः । क्षरन्मदनदीरम्यः, कैलास इव जङ्गमः ॥ २१४ ॥ पिङ्गाक्षो दीर्घरसनः, केसरी लोलकेसरः । पताकामिव शूरेषु तन्वन्नुत्पुच्छनच्छलात् ॥ २१५ ॥ देवी च पद्मनिलया, पद्मसदृग्विलोचना । दिकुञ्जरकरोत्क्षिप्तपूर्णकुम्भोपशोभिता ।। २१६ ॥ नानाविधामरतरुप्रसूनपरिगुम्फितम् । दाम प्रलम्बधन्वेव, ऋजुरोहितंधन्वनः ॥ २१७ ॥ निजाननप्रतिच्छन्दमिवाऽऽनन्द निबन्धनम् । कान्तिपूरद्योतिताशामण्डलं चन्द्रमण्डलम् ॥ २९८ ॥ निशायामपि तत्कालं, वासरभ्रमकारकः । सर्वान्धकारच्छिदुरः, स्फुरद्युतिरहपतिः ॥ २१९ ॥ + किङ्किणी मालभारिण्या, प्रचलन्त्या पताकया । करीव कर्णतालेन, राजमानो महाध्वजः ॥ २२० ॥ अम्भःकुम्भः शातकौम्भः, स्मेराम्भोजार्चिताननः । अम्भोधिमथनोद्गच्छत्सुधाकुम्भसहोदरः ।। २२१ ।। स्तोतुं तमाद्यमर्हन्तं, पद्मैर्भृङ्गनिनादिभिः । अनेकवदनीभूत इव पद्माकरो महान् ॥ २२२ ॥ भुव्यास्तीर्णशरन्मेघमालालीलामलिम्लुचैः । उद्वीचिनिचयैश्वेतोऽभिरामः क्षीरनीरधिः ॥ २२३ ॥ यत्रोषितोऽभूद् भगवान्, देवत्वे तदिवाऽऽगतम् । इहापि पूर्वस्नेहेन, विमानममितद्युति ॥ २२४ ॥ कुतोऽप्येकत्र मिलितस्तारकाणामिवोत्करः । रत्नर्पुञ्जो महान् व्योम्नि, पुञ्जीभूतामलद्युतिः ॥ २२५ ॥ तेजखिनां पदार्थानां, त्रैलोक्योदरवर्त्तिनाम् । सम्पिण्डितं तेज इव, निर्धूमोऽग्निर्मुखेऽविशत् ॥ २२६ ॥
१
निशाविरामसमये, स्वामिनी मरुदेव्यपि । स्वप्नान्ते स्मयमानास्या, पद्मिनीव व्यबुध्यत ।। २२७ ॥ असम्मान्तीं मुदमिवोद्भिरन्ती कोमलाक्षरैः । स्वमानकथयद् देवी, तांस्तथैवाऽऽशु नाभये ॥ २२८ ॥ उत्तमस्ते कुलकरस्तनयो भवितेत्यथ । स्वार्जवस्याऽनुसारेण, नाभिः स्वमान् व्यचारयत् ॥ २२९ ॥ स्वामिनः कुलकुन्मात्रसम्भावनमसाम्प्रतम् । इति कोपादिवेन्द्राणामकम्पन्ताऽऽसनान्यथ ।। २३० ।। किमित्यकस्मादस्माकमासनानां प्रकम्पनम् । इति दत्त्वोपयोगं तद्, विदाञ्चक्रुर्बिडौजसः ॥ २३१ ॥ तत्कालं भगवन्मातुः, स्वनार्थमभिशंसितुम् । सुहृदः कृतसङ्केता, इवेन्द्रास्तुल्यमाययुः ॥ २३२ ॥ ततस्ते विनयान्मूर्ध्नि, घटिताञ्जलिकुड्मलाः । स्वमार्थं स्फुटयामासुः, सूत्रं वृत्तिकृतो यथा ॥ २३३ ॥ भावी स्वामिनि ! पुत्रस्ते, स्वमे वृषभदर्शनात् । मोहपङ्कमनधर्मस्यन्दनोद्धरणक्षमः ।। २३४ ॥ हस्तिदर्शनतो देवि !, तव सूनुर्भविष्यति । गरीयसामपि गुरुर्महास्थामैकधाम च ॥ २३५ ॥ भावी पुरुषसिंहस्ते, तनयः सिंहदर्शनात् । धीरः सर्वत्र निर्भीक, शूरोऽस्खलितविक्रमः ।। २३६ ।। यच्च श्रीर्ददृशे तत्र, तनयः पुरुषोत्तमः । देवि ! त्रैलोक्यसाम्राज्यलक्ष्मीनाथो भविष्यति ।। २३७ ।। स्व सग्दर्शनात् पुण्यदर्शने ! स्यात् तवाऽऽत्मजः । सर्वस्य जगतः स्रग्वच्छिरसोद्वाह्यशासनः ।। २३८ ॥ 35 | लम्बसरलपुच्छः । कङ्कणीमाता, सं २ ॥ २ आरूढधन्वनः । ३ सूर्यः । + किङ्कणी सं १ ॥
Jain Education International
३५
For Private & Personal Use Only
15
20
25
30
www.jainelibrary.org