________________
३४
कलिकालसर्वनश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आत्मीयं पालयित्वाऽऽयुस्तत्र स्तम्बेरमोऽपि सः । पाप नागकुमारत्वं, कालमाहात्म्यमीदृशम् ॥१७० ॥
हाकारदण्डनीत्यैव, चक्षुष्मानथ युग्मिनाम् । मर्यादां वर्चयामास, यथा विमलवाहनः ॥१७१॥ प्राप्ते च चरमे काले, चक्षुष्मचन्द्रकान्तयोः । यशस्वी च सुरूपा च, जज्ञाते युग्मरूपिणौ ॥१७२॥
तत्संहननसंस्थानवौँ न्यूनायुषौ मनाक् । कलयामासतुर्वृद्धि, वयोबुद्धी इव क्रमात् ॥ १७३ ॥ 5 सदा युग्मचरौ कान्तौ, सप्तधन्वशतोच्छ्रयौ । बिभराश्चक्रतुद्वौं तौ, तोरणस्तम्भविभ्रमम् ॥ १७४ ॥
कालेन पञ्चतां प्राप्य, चक्षुष्मानुदपद्यत । सुपर्णेष्वथ नागेषु, चन्द्रकान्ताऽपि तत्क्षणम् ॥ १७५ ॥ __ ततो यशस्वी पितृवन्मिथुनान्यखिलान्यपि । सलीलं पालयामास, गोपाल इव गाश्चिरम् ॥ १७६ ॥ अथोल्लचितुमारेभे, हाकारो मिथुनैः क्रमात् । स्फुरदन्तर्मदावस्थैरङ्कुशो वारणैरिव ॥ १७७ ॥ चक्रे माकारदण्डं च, यशस्वी तानि शासितुम् । रोगे ह्येकौषधासाध्ये, देयमेवौषधान्तरम् ॥ १७८ ॥ आगस्यल्पे नीतिमाद्यां, द्वितीयां मध्यमे पुनः । महीयसि द्वे अपि ते, स प्रायुत महामतिः ॥ १७९ ॥ यशस्विनः सुरूपायाचाऽसम्पूर्णायुषोर्मनाक् । स्त्रीपुंसौ समजायेतां, सह धीविनयाविव ॥ १८० ॥ ताभ्यां चन्द्रोज्वलः पुत्रोऽभिचन्द्र इति कीर्तितः । प्रियङ्गप्रतिरूपा तु, प्रतिरूपेति पुत्र्यपि ॥ १८१ ॥ पितृतोऽल्पायुषौ सार्द्धषट्कार्मुकशतोच्छ्यौ । शम्यश्वत्थाविव युतौ, क्रमाद् वृद्धिमुपेयतुः ॥ १८२ ॥
सदैव शुशुभाते तौ, यथा मिलितवारिणौ । मन्दाकिनी-यमुनयोः, प्रवाहाविव पावनौ ॥ १८३ ॥ 15 पूर्णायुष्को यशस्वी चाऽब्धिकुमारेष्वजायत । सुरूपाऽप्यभवन्नागकुमारेषु तदैव तु ॥ १८४ ॥
पितेव चाऽभिचन्द्रोऽपि,सर्वान् युगलधर्मिणः। स्थित्या तयैव नीतिभ्यां,ताभ्यामेवाशिपच्चिरम् ॥१८५॥ ततो बहुलभूतेष्टाशर्वर्येव निशाकरः । प्रान्तकाले मिथुनकं, सुषुवे प्रतिरूपया ॥ १८६ ॥ सुनोः प्रसेनजिदिति, पितृभ्यां नाम निर्ममे । चक्षुष्कान्तेति पुत्र्याश्च, कान्तेयं चक्षुषामिति ॥१८७॥
न्यूनायुषौ पितृभ्यां च, तमालश्यामलत्विषौ । सहितौ ववृधाते तौ, मुद्दुत्साहाविव क्रमात् ॥ १८८॥ 20 षट्कार्मुकशतोत्सेधं, धारयन्तावुभावपि । विषुवद् वासरनिशे, इवाऽभूतां समप्रमौ ॥ १८९ ॥ मृत्वाऽभिचन्द्रोऽप्युदधिकुमारेषूदपद्यत । प्रतिरूपा पुनर्नागकुमारेषु तदैव हि ॥ १९०॥
बभूव युग्मिनां नाथस्तथैवाऽथ प्रसेनजित् । प्रायो महात्मनां पुत्राः, स्युर्महात्मान एव हि ॥१९१।। हाकारनीतिं माकारनीतिं च व्यत्यलचयन् । तदा युग्मानि कामार्ता, हीमर्यादे इव क्रमात् ॥ १९२ ॥
अनाचारमहाभूतत्रासमत्राक्षरोपमाम् । धिक्कारनीतिमपरामकृताऽथ प्रसेनजित् ॥ १९३॥ 25 नीतिभिस्तिसृभिस्ताभिः, स प्रयोगविचक्षणः । शशास सकलं लोकं, यतैस्त्रिभिरिव द्विपम् ॥ १९४ ॥
ततश्च पश्चिमे काले, किश्चिदूनायुषी खतः । चक्षुष्कान्ताऽपि सुषुवे, स्त्रीपुंसौ युग्मरूपिणी ॥ १९५ ॥ तौ तु पञ्चाशदधिकपञ्चधन्वशतोच्छ्रयौ । सहैव प्रापतुर्वृद्धिं, वृक्षच्छाये इव क्रमात् ।। १९६ ॥ मरुदेव इति सूनुः, श्रीकान्तेति च नन्दना । तौ युग्मधर्मिणौ लोके, नाम्ना ख्यातिमुपेयतुः ॥ १९७ ॥
प्रियङ्गुवर्णया पन्या, मरुदेवः सुवर्णरुक् । शुशुभे नन्दनतरुश्रेण्येव कनकाचलः ॥ १९८ ॥ 30 ततो द्वीपकुमारेषु, जज्ञे मृत्वा प्रसेनजित् । चक्षुष्कान्ता पुननांगकुमारेषु तदैव हि ॥ १९९ ॥
नीतिक्रमेण तेनैव, सर्वान् युगलधर्मिणः । मरुदेवस्ततो देवान् , देवराजे इवाऽन्वशात् ॥ २० ॥ श्रीकान्तायाः प्रान्तकालेऽजायेतां युग्मधर्मिणौ । नाभिश्च मम्देवा च, स्त्रीपुंसावभिधानतः ॥ २०१।। पञ्चविंशत्यभ्यधिकपञ्चधन्वशतोच्छ्यौ । सहैव प्रापतुर्वृद्धि, तो क्षमासंयमाविव ।। २०२ ॥ मरुदेवा प्रियङ्गुश्री भिर्जाम्बूनदद्युतिः । पित्रोः सावर्ण्यतोऽभाता, तन्प्रतिच्छन्दकाविव ॥ २०३ ॥
*सार्धसप्त खंता, आ॥ श्रीवि सं १॥ १ शमीपिप्पलवृक्षौ । २ कृष्णचतुर्दशीराव्येव । ३ हपोस्माहौ । समप्रभौ सं . आ॥ ४ इन्द्रः। ५ तत्प्रतिबिम्बभृनौ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org