________________
द्वितीयः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् ।
I
एकान्तदुःखप्रचिता, उत्सर्पिण्यामपीदृशाः । पश्चानुपूर्व्या विज्ञेया, अरेषु किल षट्स्वपि ।। १३६ ।। तृतीयारान्तजातत्वाद्, दैर्ये नवधनुः शतौ । पल्यदशमांशायुष्कावभूतां तौ तु युग्मिनौ ॥ १३७ ॥ वज्रऋषभनाराचसन्धिबन्धं वपुस्तयोः । समेन चतुरस्रेण, संस्थानेन परिष्कृतम् ॥ १३८ ॥ युग्मधर्मी शुशुभे, जात्यजाम्बूनदद्युतिः । प्रियङ्गुवर्णया पत्न्या, सुमेरुरिव मेध्यया ।। १३९ ॥ तत्रैवाऽशोकदत्तोऽपि प्राग्जन्मकृतमायया । श्वेतवर्णश्चतुर्दन्तः, सुरदन्तीव दन्त्यभूत् ॥ १४० ॥ भ्राम्यतेतस्ततः स्वैरमन्येद्युस्तेन दन्तिना । स युग्मधर्मी पुरतः, प्राग्जन्मसुहृदैक्ष्यत ॥ १४१ ॥ तदर्शनामृतासारस्फारीभूततनोस्ततः । बीजस्येवाऽङ्कुरस्तस्य स्नेहः समुदपद्यत ॥ १४२ ॥ हस्तिना तेन हस्तेनाऽऽदायाऽऽलिङ्गय यथासुखम् । अनिच्छन्नपि स स्कन्धप्रदेशमधिरोपितः ॥ १४३ ॥ अन्योऽन्यदर्शनाभ्यासाद्, द्वयोरपि तयोस्ततः । जज्ञे परुत्कृतस्येव, स्मरणं पूर्वजन्मनः ॥ १४४ ॥ चतुर्दन्तद्विपस्कन्धारूढं ददृशुरिन्द्रवत् । तमन्ये विस्मयोत्तानलोचना युग्मरूपिणः ॥ १४५ ॥ शङ्खकुन्देन्दुविमलं, गजमारूढ इत्यसौ । ततः प्रोच्यत मिथुनैर्नाम्ना विमलवाहनः ॥ १४६ ॥ जातिस्मृत्या स नीतिज्ञो, विमलद्विपवाहनः । प्रकृत्या रूपवांश्रेति, जज्ञे सर्वजनाधिकः ॥ १४७ ॥ कालेन गच्छता तत्र, प्रभावः कल्पभूरुहाम् । मन्दीबभूव चारित्रभ्रष्टानां यतिनामिव ॥ १४८ ॥ मद्याङ्गादिरसं भद्यमदुः स्तोकं विलम्बितम् । दुर्दैवेन परावृत्य समानीता इवाऽपरे ॥ १४९ ॥ दीयतां मा दीयतां वेत्यमर्शविवशा इव । सविलम्बं भाजनानि, भृङ्गा अप्यर्थिता ददुः ।। १५० ।। आतोद्यादि न तादृक्षं, तूर्याङ्गा अप्यसैत्रयन् । तिरस्कारसमाकृष्टा, गन्धर्वा इव विष्टयः ।। १५१ ।। अर्ध्यमाना अपि मुहुर्दीपज्योतिष्कभूरुहः । नोयोतं तादृशं तेनुर्दिवा दीपशिखा इव ।। १५२ ॥ चित्राङ्गा अपि माल्यादि, द्रुतमिच्छानुसारतः । न हि विश्राणयामासुर्भृत्या दुर्विनया इव ।। १५३ ।। भोज्यं चतुर्विधं चित्ररसं चित्ररसा अपि । प्राग्वन्नादुः क्षीयमाणदानेच्छा इव संत्रिणः ।। १५४ ॥ भूषणाद्यर्पयामासुर्न मण्यङ्गास्तथाविधम् । सम्पत्स्यते कथं भूय, इति चिन्ताकुला इव ।। १५५ ।। हाकारास्तु गेहानि, मन्दं मन्दं वितेनिरे । सत्काव्यानीव कवयो, मन्दव्युत्पत्तिशक्तयः ।। १५६ । अनग्ना अपि वस्त्राणि, स्खलितस्खलितं ददुः । क्रूरग्रहावग्रहिणो, वारि वारिधरा इव ।। १५७ ।। ताकालानुभावेन, मिथुनानामजायत । ममत्वं कल्पवृक्षेषु, स्वदेहावयवेष्विव ॥ १५८ ॥
I
1
३३
१ सुवर्णकान्तिः । २ मेघमालया । ३ भरचयन् । ४ ददुः । ५ दानशालाकारिणः । ६ शनिरविभीमादम अदृष्टिकारकाः । ७ चन्द्रे ।
त्रिषष्टि. ५
Jain Education International
For Private & Personal Use Only
5
10
25
अन्येन स्वीकृतं कल्पवृक्षमन्यो यदाऽऽश्रयत् । महान् परिभवो ह्यासीत्, तदा स्वीकृतपूर्विणः ।। १५९ ॥ तथापराभवं सोढुमसहास्ते परस्परम् । आत्माधिकं स्वामितया, चक्रुर्विमलवाहनम् ॥ १६० ॥ जातिस्मृत्या स नीतिज्ञो, युग्मिनां कल्पपादपान् । ददौ विभज्य स्थविरो, द्रविणं गोत्रिणामिव ।। १६१ ।। यो यस्तत्याज मर्यादां, परकल्पद्रुमेच्छया । आविश्वकार हाकारनीतिं तद्दण्डनाय सः ।। १६२ ।। हा त्वया दुष्कृतमिति, तस्य दण्डेन युग्मिनः । वार्द्धिवेलाजलानीव, मर्यादां नातिचक्रमुः ॥ १६३ ॥ तेन हाकारदण्डेन युग्मान्येवममंसत । वरं दण्डादिभिर्घातो, न हाकारतिरस्कृतिः ॥ १६४ ॥ तस्याssवशेषे तु वर्षार्द्धप्रमिते सति । भार्यायां चन्द्रयशसि, मिथुनं समजायत ।। १६५ ।। तौ स्त्रीपुंसावसंख्येयपूर्वायुष्कौ सुसंस्थिती । आद्यसंहननौ श्यामावष्टधन्वशतोच्छ्रयौ ॥ १६६ ॥ चक्षुश्चन्द्रकान्ता च पितृभ्यां कल्पिताऽभिधौ । ववृधाते सहोद्भूतौ, लताविटपिनाविव ।। १६७ ॥ प्रपाल्य युग्मं षण्मासान्, जरारोगौ विना मृतः । सुपर्णककुमारेषूत्पेदे विमलवाहनः ॥ १६८ ॥ तदैव च चन्द्रयशा, मृत्वा नागेष्वजायत । अस्तमीयुषि पीयूँषकरे तिष्ठेन चन्द्रिका ॥ १६९ ॥
15
20
30
www.jainelibrary.org