________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आसादय विषादं मा, व्यवसाये शुभे भव । स्थातव्यं स्वास्थ्यमास्थाय, स्मरणीयं न तद्वचः ॥१०१॥ यादृशी तादृशी वापि, साऽस्तु किं वस्तुतस्तया ? । माभून्मनोमलिनिमा, केवलं भ्रातरावयोः ॥१०२॥ तेनैवमृजुना सोऽनुनीतः प्रमुमुदेऽधमः । सत्कारयन्ति ह्यात्मानं, कृत्वाऽप्यागांसि मायिनः ॥ १०३ ॥ ततः प्रभृति निःस्नेहः, सागरः प्रियदर्शनाम् । सोद्वेगं धारयामास, रोगग्रस्तामिवाऽङ्गुलीम् ॥ १०४ ॥ किन्तु तां वर्त्तयामासोपरोधात् प्राग्वदेव सः । वन्ध्याऽप्युन्मूल्यते नैव, लता या लालिता स्वयम् ॥१०५॥ मत्कृतो माऽनयोर्भेदोऽभूदिति प्रियदर्शना । नाऽशोकदत्तवृत्तान्तं, तं प्रियाय न्यवेदयत् ॥ १०६ ।। कारागाराय संसारं, मन्यमानोऽथ सागरः । ऋद्धिं कृतार्थयामास, दीनादिषु नियोगतः ॥ १०७॥ कालेन पूरयित्वाऽऽयुः, सागरः प्रियदर्शना । अशोकदत्तश्च ययुः, कालधर्म त्रयोऽपि ते ॥१०८॥
जम्बूद्वीपस्य भरतक्षेत्रदक्षिणखण्डके । गङ्गासिन्ध्वन्तरस्याऽन्तर्भागे मध्येऽवसर्पिणि ॥ १०९॥ 10 तृतीयारे पल्याष्टमांशशेषे युग्मरूपतः । ततः समुदपद्येतां, सागरप्रियदर्शने ॥ ११० ॥ [ युग्मम् ]
भारतेषु च वर्षेषु, पञ्चखैरवतेष्विव । द्वादशारं कालचक्रं, हेतुः कालव्यवस्थितेः ॥ १११ ॥ कालो द्विविधोऽवसर्पिण्युत्सर्पिणीविभेदतः । अराः षडवसर्पिण्यां, एकान्तसुषमादयः ॥ ११२ ॥ तत्रैकान्तः सुषमारश्चतस्रः कोटिकोटयः । सागराणां सुषमा तु, तिस्रस्तत्कोटिकोटयः ॥ ११३ ॥
सुषमदुःषमा ते द्वे, दुःषमसुषमा पुनः । सैका सहस्रैर्वर्षाणां, द्विचत्वारिंशतोनिता ॥ ११४ ॥ 15 एकविंशतिरब्दानां, सहस्राणि तु दुःषमा । एकान्तदुःषमाऽपि स्यात् , तावद्वर्षप्रमाणिका ॥११५॥
अरका अवसर्पिण्यां, य एते समुदीरिताः । उत्सर्पिण्यां त एव स्युः, प्रतिलोमक्रमेण तु ॥ ११६ ॥ तदेवमवसर्पिण्यामुत्सर्पिण्यां च मीलिताः । सागरोपमकोटीनां, कोटयः खलु विंशतिः ॥ ११७ ।। तत्राऽरे प्रथमे माः, पल्यत्रितयजीविनः । गव्यूतत्रितयोच्छ्रायाश्चतुर्थदिनभोजिनः ॥ ११८ ॥
चतुरस्रसुसंस्थानाः, सर्वलक्षणलक्षिताः । वज्रऋषभनाराचसंहननाः सदासुखाः ॥ ११९ ॥ 20 अपक्रोधा गतमाना, निर्माया लोभवर्जिताः । सर्ववारं स्वभावेनाऽप्यधर्मपरिहारिणः ॥ १२० ॥
प्रायच्छंस्तत्र तेषां तु, वाञ्छितानि दिवानिशम् । मद्याङ्गाद्याः कल्पवृक्षा, दशोत्तरकुरुष्विव ॥ १२१ ॥ खादुमद्यानि मद्याङ्गा, ददुः सद्योऽपि याचिताः। भाजनादीनि भृङ्गाश्च, तद्भाण्डागारिका इव ॥१२२ ॥ तेनुस्तूर्याङ्गास्तूर्याणि, तूर्यत्रयकराणि तु । उझ्योतमसमं दीपशिखा ज्योतिषिका अपि ॥ १२३ ॥
विचित्राणि तु चित्राङ्गा, माल्यानि समढौकयन् । सूंदा इव चित्ररसा, भोज्यानि विविधानि तु ॥१२४॥ 25 यथेच्छमर्पयामासुर्मण्यङ्गा भूषणानि तु । गेहाकाराः सुगेहानि, गन्धर्वपुरवत् क्षणात् ॥ १२५ ॥
अभग्नेच्छमननास्तु, वासांसि समपादयन् । एते प्रत्येकमन्यानप्यर्थान् ददुरनेकशः ॥ १२६ ॥ तदा च भूमयस्तत्र, स्वादवः शर्करा इव । सदा माधुर्यधुर्याणि, धुन्यादिषु पयांस्यपि ॥ १२७ ॥ अतिक्रामत्यरे तत्र, त्वायुःसंहननादिकम् । कल्पद्रुमप्रभावाश्च, न्यूनं न्यूनं शनैः शनैः ॥ १२८॥
द्वितीये त्वरके माः, पल्यद्वितयजीविनः । गव्यूतद्वितयोच्छ्रायास्तृतीयदिनभोजिनः ॥ १२९ ॥ ३० किञ्चिन्यूनप्रभावाश्च, तत्र कल्पमहीरुहः । किश्चिन्माधुर्यतो हीना, आपो भूशर्करा अपि ॥ १३० ।। अस्मिन्नप्यरके कालात् , पूर्वारक इवाऽखिलम् । न्यूनन्यूनतरं स्थौल्यं, स्तम्बेरेमकरे यथा ॥ १३१ ॥
अरके तु तृतीयस्मिन्नेकपल्यायुषो नराः । एकगव्यूतकोच्छ्राया, द्वितीयदिनभोजिनः ।। १३२ ॥ अस्मिन्नप्यरके प्राग्वत् , कामति न्यूनमेव हि । वपुरायु माधुर्य, कल्पद्रुमहिमाऽपि च ॥ १३३ ॥
पूर्वप्रभावरहिते, चतुर्थे त्वरके नराः । पूर्वकोट्यायुषः पञ्चधनुःशतसमुच्छ्याः ॥ १३४ ॥ 35 पञ्चमे तु वर्षशतायुषः सप्तकरोच्छ्रयाः । षष्ठे पुनः षोडशाब्दायुषो हस्तसमुच्छ्रयाः ।। १३५ ।।
मनोमालिन्यम । २ सर्वदा । ३ रसवतीकारकाः । ४ नद्यादिषु । ५ इम्तिशुण्शायाम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org