________________
द्वितीयः सर्गः] त्रिषष्टिशलाकापुरुषचरितम् ।
३१ रहःसवितकार्याणि, महतां व्यवसायिनाम् । को जानात्यथ जानाति, स कथं कथयेद् गृहे ? ॥ ६७ ॥ उवाचाऽशोकदत्तोऽपि, त्वत्पतेर्यत् तया सह । मन्त्रे प्रयोजनं वेनि, तत् परं कथ्यते कथम् ? ॥ ६८ ॥ प्रियदर्शनया किं तदित्युक्तः सोऽब्रवीदिति । त्वया प्रयोजनं यन्मे, सुधु! तस्याऽपि तत् तया ॥६९।। तद्भावाविज्ञया ऋज्वा, प्रियदर्शनया पुनः । मया प्रयोजनं ते किमित्युक्तः सोऽवदत् पुनः ॥ ७० ॥ पुंसो रसान्तरविदः, कस्य न स्यात् सचेतसः । त्वया प्रयोजनं सुभ्र, तमेकं त्वत्प्रियं विना ॥ ७१ ॥ 5 आकर्ण्य कर्णसूच्याभ, दुरीहासूचि तद्वचः । सकोपाऽधोमुखीभूय, सा साक्षेपमभाषत ।। ७२ ॥ रे निर्मर्याद! पुस्खेट!, त्वयैतच्चिन्तितं कथम् । चिन्तितं वा कथं तूक्तं ?, धिक साहसमचेतसः॥७३॥ किञ्च सम्भावयसि रे!, महात्मानं पतिं मम । आत्मानुरूपमेवैवं, धिक त्वां मित्रमिषाद् द्विषम् ॥७४॥ गच्छ मा तिष्ठ रे पाप!, पापं त्वदर्शनादपि । इत्याक्रुष्टस्तया शीघ्रं, स दस्युरिव निर्ययौ ।। ७५ ॥ स गोहत्याकार इवाऽन्धकारमलिनाननः । विमनस्कः समागच्छन् , सागरेण व्यलोक्यत ॥ ७६ ॥ 10
हे मित्र ! हेतुना केन, त्वमुद्विग्न इवेक्ष्यसे । इति सागरचन्द्रेण, सोऽप्रच्छि स्वच्छचेतसा ॥७७ ॥ ततः स मायाकूटाद्रिर्दीघं निःश्वासमुद्वमन् । विकूणिताधरः किञ्चिद् , दुष्टः कष्टादिवाऽवदत् ॥७८ ॥ जाड्यहेतुमिव हिमक्ष्माभृदभ्यर्णवासिनाम् । संसारे वसतां भ्रातः!, पृच्छस्युद्वेगकारणम् ? ॥ ७९ ॥ न यच्छादयितुं नापि, प्रकाशयितुमिश्यते । तदस्थानव्रणमिव, किमपीहोपतिष्ठते ।। ८० ॥ इत्युदित्वा स्थिते मायादर्शितासविलोचने । अशोकदत्ते सोऽमायश्चिन्तयामासिवानिति ॥ ८१ ।। 15 अहो ! असारः संसारः, पुंसां यत्रेदशामपि । सन्देहपदमीक्षमकस्मादुपजायते ॥ ८२ ॥ अस्य धैर्यादवदतोऽप्यन्तरुद्वेग उच्चकैः । हुताश इव धूमेन, बलाद् बाप्पेण सूच्यते ।। ८३ ॥ चिन्तयित्वेति सुचिरं, सद्यस्तदुःखदुःखितः । भूयः सागरचन्द्रस्तमित्युवाच सगद्गदम् ॥ ८४ ॥ अप्रकाश्यं न चेद् बन्धो, तच्छंसोद्वेगकारणम् । दत्त्वा दुःखविभागं मे, स्तोकदुःखो भवाऽधुना ॥ ८५ ॥ अशोकदत्तोऽपीत्यूचे, मम प्राणसमे त्वयि । अन्यदप्यप्रकाश्यं न, वृत्तान्तोऽयं विशेषतः ॥८६॥ 20 इदं वयस्यो जानाति, सदाऽपि यदिहाऽङ्गना । अनर्थानां प्रसूर्दशिर्वरी तमसामिव ॥ ८७ ॥ सागरोपि जगादेवमाम किं नाम सम्प्रति । सङ्कटे न्यपतः कस्या, अप्युरग्या इव स्त्रियाः ? ॥ ८८ ॥ प्रत्यूचेऽशोकदत्तोऽपि, नाटयन् कृत्रिमा त्रपाम् । असमञ्जसमूचे मां, चिरं हि प्रियदर्शना ॥ ८९ ॥ लजित्वा स्वयमप्येषा, कदापि स्थास्यतीत्यहो! । मया सलजं सावज्ञं, सेयत्कालमुपेक्षिता ।। ९० ॥ दिने दिने परमसावसतीत्वोचितोक्तिभिः । मां वदन्ती न विरमत्यहो! स्त्रीणामसङ्ग्रहाः ॥ ९१ ॥ 25 अद्य त्वावसथे युष्मदन्वेषणकृते गतः । बन्धो ! निरुद्धोऽसि तया, राक्षस्येव छलज्ञया ॥ ९२ ॥ तन्तुबन्धादिव करी, कथश्चिदपि तद्हात् । आत्मानं मोचयित्वाऽहमिहाऽगममतिद्रुतम् ॥ ९३ ॥ ततश्चाचिन्तयमहं, जीवन्तं मां न मोक्ष्यति । असाविति तदात्मानमद्य व्यापादयामि किम् ? ॥ ९४॥ यद्वा न मर्तुमुचितं, मन्मित्रस्य यदीदृशम् । कथयिष्यत्यन्यथाऽसौ, मत्परोक्षे तु तत्तथा ॥ ९५ ॥ अथवा कथयाम्येतत्, सर्व वसुहृदः स्वयम् । यथाऽस्यां कृतविश्वासो, नाऽपायमुपयात्यसौ ॥ ९६ ॥ 30 नाऽदोऽपि युक्तं यन्नास्या, मयाऽपूरि मनोरथः । दौःशील्यकथनेनाऽथ, क्षते क्षारं क्षिपामि किम् ? ॥९७॥ एवं विचिन्तयन्नत्र, त्वया दृष्टोऽसि सम्प्रति । उद्वेगकारणं चेदं, मम जानीहि बान्धव ! ॥ ९८॥ .. इत्याकर्ण्य वचः पीतहालाहल इव क्षणम् । निःस्पन्दः सागरोऽथाऽभून्निवात इव सागरः ॥ ९९ ॥ सागरो व्याजहारैवं, युज्यते योषितामिदम् । क्षारत्वमूपरमहीनिपानपयसामिव ॥ १० ॥
कर्णसूचीसदृशम् । २ हे पुरुषाधम । * सागरे व सं १॥ जयसदुद्वेग उ° सं॥ ३ अमावास्यारात्रिः। ४ भाम इनि अङ्गीकारे। ५ अयुक्तम् । ६ पीतविषः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org