________________
15
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व वयं हि वणिजस्तात !, कलाकौशलजीविनः । अनुद्भटाऽऽचारवेषाः, सन्तो गामहे न हि ॥ ३४ ॥ भवितव्यं यौवनेऽपि, भवद्भिर्गुढविक्रमैः । वणिजो लोकसामान्येऽप्यर्थे साशङ्कवृत्तयः ॥ ३५ ॥ सम्पदो विषयक्रीडा, दानं च च्छन्नमेव नः । अलं भवति शोभायै, शरीरमिव योषिताम् ॥ ३६ ॥
आत्मजातेरनुचितं, क्रियमाणं न शोभते । चरणे करभस्येव, बद्धं कनकनूपुरम् ॥ ३७॥ 5 ततो निजक्रमौचित्यव्यवहारपरायणैः । दातव्यः प्रहरी वत्स !, गुणानां सम्पदामिव ॥ ३८ ॥
त्याज्योऽसतां च संसर्गो, निसर्गानृजुचेतसाम् । सोऽलर्कविषवत् कालेनाऽपि यात्येव विक्रियाम् ॥ ३९ ॥ अयं चाऽशोकदत्तस्त्वां, मित्रं श्वित्रं तनूमिव । अवाप्तप्रसरो वत्स !, सर्वथा दूषयिष्यति ॥ ४० ॥ मनस्यन्यद् वचस्यन्यत् , क्रियायामन्यदेव हि । गणिकाया इवाऽमुष्याऽत्यन्तमायाजुषः सदा ॥४१॥
आदरादुपदिश्यैवं, श्रेष्ठिश्रेष्ठे स्थिते सति । इति सागरचन्द्रोऽपि, चिन्तयामास चेतसि ॥ ४२ ॥ 10 कन्याबन्दिव्यतिकरस्तातेन सकलोऽपि सः । विज्ञात इति मन्येऽहमुपदेशदिशाऽनया ॥ ४३ ॥
असावशोकदत्तश्च, तातस्याऽभान सङ्गतः । मन्दभाग्यतया पुंसां, गुरवः स्युरनीदृशाः ॥ ४४ ॥ भवत्वेवं तथाऽपीति, विमृश्य मनसि क्षणम् । ऊचे सागरचन्द्रोऽपि, Iश्रयाश्रितया गिरा ॥ ४५ ॥ यंदादिशति तातस्तत् , कर्तव्यं सूनुरस्मि ते । कृतं तेन कृतेनाऽपि, गुर्वाज्ञा यत्र लङ्घयते ॥ ४६ ॥ किन्तु दैवादकाण्डेऽपि, कृत्यं तदुपतिष्ठते । नाऽऽलोचकालहरणं, सहते यन्मनागपि ॥ ४७ ॥ आलोचं कुर्वतोऽत्येति, कालः कार्यस्य कस्यचित् । पर्ववेलेव जिह्मस्य, पादशौचं वितन्वतः ॥४८॥ ईदृशेऽप्यागते काले, प्राप्तेऽपि प्राणसंशये । तदेवाऽहं करिष्यामि, तव लक्षाकरं न यत् ॥ ४९ ।। तातेनाऽशोकदत्तस्य, यच्च तादृगुदीरितम् । तद्दोषेण न दोष्यमि, न गुणी तद्गुणेन वा ॥ ५० ॥ यन्ममाऽशोकदत्तेन, मैत्री तत्रेति कारणम् । सहवासः सहपांशुक्रीडनं दर्शनं मुहुः ॥ ५१ ॥
समा जातिः समा विद्या, समं शीलं समं वयः । परोक्षेऽप्युपकारित्वं, सुखदुःखविभागिता ॥ ५२ ॥ 20 असिंश्च कैतवमहं, न पश्यामि मनागपि । मृषा तातस्य कोऽप्याख्यत. खलाः सर्वपाः खल ॥५३
अस्तु वा तादृशो मायाव्येष मे किं करिष्यति ? । एकत्र विनिवेशेऽपि, काचः काचो मणिमणिः॥५४॥ इत्युक्तः सूनुना श्रेष्ठी, तमचे बुद्धिमानसि । तथापि ह्यवधातव्यं, दुर्लक्षा हि पराशयाः॥५५॥
सोऽथ स्वसूनो वज्ञस्तदर्थं प्रियदर्शनाम् । शीलादिभिर्गुणैः पूर्णा, पूर्णभद्रादयाचत ॥५६॥
असावुपतिक्रीती, त्वत्सुतेन सुता मम । अग्रेऽपीति वदन् पूर्णभद्रोऽमन्यत तद्वचः ॥ ५७ ॥ 25 ततः सागरचन्द्रस्य, प्रियदर्शनया सह । विवाहोऽकारि पितृभिः, शुभे लग्ने शुभे दिने ॥ ५८॥
विचिन्तिताया दुन्दुभ्याः, पतनेनेव तौ ततः । मनीषितविवाहेन, मुमुदाते वधूवरौ ॥ ५९॥ समानमानसतया, तयोरेकात्मनोरिव । परस्परमवर्द्धिष्ट, प्रीतिः सारसयोरिव ॥ ६॥ रेजे सागरचन्द्रेण, सा चन्द्रेणेव चन्द्रिका । सहोदयवती सौम्यदर्शना प्रियदर्शना ॥ ६१ ॥
तयोः शीलभृतो रूपवतोराजवशालिनोः । अनुरूपोऽभवद् योगश्चिराद् घटयतो विधेः ॥६२॥ 30 अविसम्भो न जात्वासीदन्योऽन्यप्रत्ययात् तयोः । विपरीतं न शङ्कन्ते, कदापि सरलाशयाः ॥ ६३ ॥
अथ सागरचन्द्रस्य, बहिर्गतवतो गृहे । अशोकदत्तोऽभ्यायासीदूचे च प्रियदर्शनाम् ॥ ६४॥ श्रेष्ठिनो धनदत्तस्य, वध्वा मत्रयते रहः । नित्यं सागरचन्द्रो यत्, तत्र किं स्यात् प्रयोजनम् ? ॥६५॥ निसर्गऋज्वी साऽप्यूचे, जानात्येतत् सुहृत् तव । द्वितीयं हृदयं तस्य, त्वं वा जानासि सर्वदा ॥ ६६ ॥
उष्ट्रस्य । २ हडक्कयितश्वविषवत् । ३ श्वेतकुष्ठम् । ४ विनयाश्रितया। *अयं श्लोकः सं १ पुस्तके न दृश्यते ॥ ५विचारकालग्रतीक्षणम् । ६ गच्छति। ७दीर्घसूत्रिणः। ८ सर्वक्षोभकारकाः। ९ उपकारक्रीता । १. मनोऽभीष्टविवाहेन ।
अविनासः। १२ खभावसरला ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org