________________
द्वितीयः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् ।
द्वितीयः सर्गः। इतश्च जम्बूद्वीपस्य, विदेहेष्वपरेषु पूः । नाम्नाऽपराजितेत्यस्ति, द्विषद्भिरपराजिता ॥१॥ तस्यां वसुमतीनाथो, विक्रमाक्रान्तविष्टपः । ईशानचन्द्र इत्यासीदीशानेन्द्र इव श्रिया ॥२॥ तत्र श्रेष्ठी श्रिया श्रेष्ठः, प्रष्ठो धर्मैकशालिनाम् । नाम्ना चन्दनदासोऽभूजगदानन्दचन्दनः ॥३॥ जगतो नयनानन्दनिदानं तस्य नन्दनः । नाम्ना सागरचन्द्रोऽभूत् , सागरस्येव चन्द्रमाः ॥ ४॥ 5 ऋजुशीलः सदैवाऽसौ, धर्मकर्मा विवेकवान् । नगरस्याखिलस्यापि, बभूव मुखमण्डनम् ।। ५ ॥ सोऽन्यदेशानचन्द्रस्य, राज्ञो दर्शनहेतवे । सेवोपनतसामन्ताकुलं राजकुलं ययौ ॥६॥ स तदाऽऽसनताम्बूलदानादिप्रतिपत्तितः । महास्नेहेन ददृशे, पित्रेव पृथिवीभुजा ॥ ७ ॥
अत्रान्तरे पराभूतशङ्खध्वनितया गिरा । राजद्वारे कश्चिदेत्याऽपाठीन्मङ्गलपाठकः ॥ ८॥ उद्यतोद्यानपालीव, त्वदुद्यानेऽद्य भूपते! । सजीकृतानेकपुष्पा, वसन्तश्रीविजृम्भते ॥९॥ 10 विकासिकुसुमामोदसुरभीकृतदिग्मुखम् । सम्भावय तदुद्यानं, महेन्द्र इव नन्दनम् ॥ १० ॥ राजाऽप्याऽऽज्ञापयद् द्वाःस्थं, यत् प्रातरखिलैर्जनैः । गन्तव्यमसदुद्यानमेवमाघोष्यतां पुरे ॥ ११ ॥ त्वयाऽप्येतव्यमुद्यानमिति श्रेष्टिसुतं नृपः । स्वयमादिशदेवं हि, प्रसन्नस्वामिलक्षणम् ॥ १२ ॥ ततो राज्ञा विसृष्टोऽसौ, हृष्टः स्वावसथं ययौ । मित्रायाऽशोकदत्ताय, तां नृपाज्ञां जगाद च ॥ १३ ॥ द्वितीयेऽति ययौ राजाऽप्यद्यानं सपरिच्छदः। पौरलोकोऽप्यगात तत्र, प्रजा राजानयायिनी ॥ १४॥ 15 वसन्त इव मलयानिलेन श्रेष्ठिसूरपि । सुहृदाऽशोकदत्तेन, सहोद्यानं जगाम सः ॥ १५ ॥ पुष्पावचयसन्दर्भगीतनृत्यादिभिस्ततः । प्रवृत्तः क्रीडितुं लोकः, स्थितः कामस्य शासने ।। १६ ॥ स्थाने स्थाने कृतास्थानाः, पौराः क्रीडाविधायिनः । आवासितस्सरनृपस्कन्धावारधुरां दधुः ।। १७ ॥ पदे पदे सम्प्रवृत्तगीतातोद्यमहाध्वनौ । जयायाऽन्येन्द्रियार्थानामिवाऽभ्यधिकमुत्थिते ॥ १८॥ प्रत्यासनादथैकरसादकस्मात् तरुगह्वरात् । वायध्वं त्रायध्वमिति, त्रस्तस्त्रीध्वनिरुत्थितः ॥ १९ ॥ 20 तया समाकृष्ट इव, गिरा कर्णप्रविष्टया । किमेतदिति सम्भ्रान्तः, सागरः समधावत ॥ २० ॥ श्रेष्ठिनः पूर्णभद्रस्य, कन्यका प्रियदर्शनाम् । स बन्दिभिधृतां तत्राऽपश्यदेणी वृकैरिव ॥ २१ ॥ एकस्य बन्दिनो हस्तमामोव्याऽथाऽऽददे क्षुरीम् । श्रेष्ठिस्नुर्विर्षभृतो, ग्रीवां भङ्क्त्वा मणीमिव ॥ २२ ॥ तस्येति विक्रमं दृष्ट्वा, बन्दिनस्ते विदुद्रुवुः । व्याघ्रा अपि पलायन्ते, ज्वलज्वलनदर्शनात् ॥ २३ ॥ इति सागरचन्द्रेण, बन्दिभ्यः प्रियदर्शना । एधोहॉरिभ्यो माकन्दलतेव परिमोचिता ॥ २४ ॥ 25 परोपकारव्यसनी, क एष पुरुषाग्रणीः । आगादिह समाकृष्टो, दिष्ट्या मद्भाग्यसम्पदा ? ॥ २५ ॥ सररूपाधरीका, भर्ती भाव्ययमेव मे । चिन्तयन्तीति स्वं धाम, जगाम प्रियदर्शना ॥ २६ ॥ अनुस्यूतामिव वहन् , हृदये प्रियदर्शनाम् । अशोकदत्तसहितः, श्रेष्टिपुत्रोऽभ्यगाद् गृहम् ॥ २७ ॥
अथ चन्दनदासेन, स परम्परयाखिलः । अवाबुध्यत वृत्तान्तः, केन छायेत तादृशम् ॥२८॥ स दध्याविति युक्तोऽस्य, रागोऽधिप्रियदर्शनम् । अजयं पङ्कजिन्या हि, राजहंसस्य युज्यते ॥ २९ ॥ 30 इयमुटताऽकारि, यत् तदा तन साम्प्रतम् । कार्य सपौरुषेणाऽपि, वणिजा न हि पौरुषम् ॥ ३० ॥ सङ्गः किञ्च ऋजोरस्याऽशोकदत्तेन मायिना । न साधुजोतु बदरीद्रुणेव कदलीतरोः ॥ ३१ ॥ विचिन्त्येति चिरं श्रेष्ठी, स समाहूय सागरम् । भद्रद्विपं निषादीव, सानोऽऽरभत शासितुम् ॥ ३२ ॥
सर्वशास्त्रानुसारेण, व्यवहारेण च स्वयम् । वत्स ! सम्यगमिज्ञोऽसि, तथापि ज्ञाप्यसे मया ॥ ३३ ॥
अग्रणीः । २ खावासम् । । सपरिवारः। ४ हरिणीम् । ५ बनवानैः । ६ सर्पस्य । काठहारिभ्यः। ८ आमूलतेव । समतिः। सरकस।" महामात्रः। १२ बुवचनेन ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org