________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व तत्रैकमर्हतामहत्प्रतिमानां च पूजया । अवर्णवादव्याषेधैः, सद्भूतार्थस्तवैरपि ॥ ८८३ ॥ सिद्धानां सिद्धिस्थानेषु, प्रतिजागरणोत्सवैः । यथावस्थितसिद्धत्वकीर्तनाच्च द्वितीयकम् ।। ८८४ ॥ बालक-ग्लान-शैक्षादियतीनां यस्त्वनुग्रहः । प्रवचनस्य वात्सल्यं, स्थानकं तत् तृतीयकम् ।। ८८५ ॥ आहारौषधवस्त्रादिदानादञ्जलियोजनात् । गुरूणामतिवात्सल्यकरणं तु तुरीयकम् ॥ ८८६ ॥ विंशत्यब्दपर्यायाणां, षष्टिवर्षायुषां तथा । समवायभृतां भक्तिः, स्थविराणां तु पश्चमम् ।। ८८७ ॥ अर्थव्यपेक्षया स्वरसाद, बहुश्रुतभृतां सदा । अन्नवस्त्रादिदानेन, षष्ठं वात्सल्यनिर्मितिः ॥ ८८८ ॥ सुविकृष्टतपःकर्मनिर्माणानां तपस्विनाम् । भक्तिविश्रामणादानैर्वात्सल्यमिति सप्तमम् ॥ ८८९ ॥ द्वादशाङ्गे श्रुते प्रश्नवाचनादिमिरन्वहम् । सूत्रार्थोभयगो ज्ञानोपयोगो यस्तदष्टमम् ॥ ८९० ॥
शङ्कादिदोषरहितं, स्थैर्यादिगुणभूषितम् । शमादिलक्षणं सम्यग्दर्शनं नवमं पुनः ॥ ८९१ ॥ 10 ज्ञानदर्शनचारित्रोपचारैश्च चतुर्विधः । कर्मणां विनयनतो, विनयो दशमं पुनः ॥ ८९२॥
इच्छामिथ्याकरणादियोगेष्वावश्यकेष्वलम् । अतीचारपरीहारो, यत्नादेकादशं तु तत् ॥ ८९३ ॥ अहिंसादिसमित्यादिमूलोत्तरगुणेषु या । प्रवृत्तिर्निरतीचारा, स्थानकं द्वादशं तु तत् ॥ ८९४ ॥ शुभध्यानस्य करणं, क्षणे क्षणे लवे लवे । प्रमादपरिहारेण, स्थानमेतत् त्रयोदशम् ॥ ८९५ ॥
अनाबाधेन मनसो, वपुषश्च निरन्तरम् । यथाशक्ति तपःकर्म, स्थानमेतच्चतुर्दशम् ॥ ८९६ ॥ 15 अन्नादीनां संविभागो, यथाशक्ति तपस्विषु । मनोवाक्कायशुद्ध्या यः, स्थानं पञ्चदशं हि तत् ॥ ८९७ ॥
आचार्यादीनां दशानां, भक्तपानाऽऽसनादिभिः । वैयावृत्यस्य करणं, स्थानकं षोडशं तु तत् ॥ ८९८ ॥ चतुर्विधस्य सङ्घस्य, सर्वापायनिषेधनात् । मनःसमाधिजननं, स्थानं सप्तदशं हि तत् ॥ ८९९ ॥ सूत्रस्याऽर्थस्योभयस्याऽप्यपूर्वस्य प्रयत्नतः । अन्वहं यदुपादानं, स्थानमष्टादशं तु तत् ॥ ९०० ॥ श्रद्धानेनोद्भासनेनाऽवर्णवादच्छिदादिना । श्रुतज्ञानस्य भक्तिस्तत् , स्थानमेकोनविंशकम् ।। ९०१॥ विद्यानिमित्तकवितावादधर्मकथादिभिः । प्रभावना शासनस्य, तद् विंशतितमं पुनः ॥ ९०२॥ अप्येकं तीर्थकृभामकर्मणो बन्धकारणम् । मध्यादेभ्यः स भगवान् , सर्वैरपि बबन्ध तत् ॥ ९०३ ॥ बाहुनाऽपि च साधूनां, वैयावृत्यं वितन्वता । चक्रवर्तिभोगफलं, कर्मोपार्जितमात्मनः ॥ ९०४ ॥ विश्रामणां महर्षीणां, कुर्वाणेन तपोजुषाम् । सुबाहुना बाहुबलं, लोकोत्तरमुपार्जितम् ॥ ९०५॥
अहो ! धन्याविमौ वैयावृत्य-विश्रामणाकरौ । इति बाहु-सुबाहू तो, वज्रनाभस्तदाऽस्तवीत् ॥ ९०६ ॥ 25 तौ तु पीठ-महापीठौ, पर्यचिन्तयतामिति । उपकारकरो यो हि, स एवेह प्रशस्यते ॥ ९०७ ॥
आगमाध्ययनध्यानरतावनुपकारिणौ । को नौ प्रशंसत्वथवा, कार्यकृद्धको जनः ॥९०८॥ ताभ्यामनालोचयद्भयामितीर्थ्याकृतदुष्कृतम् । मायामिथ्यात्वयुक्ताभ्यां, कर्म स्त्रीत्वफलं कृतम् ॥९०९॥ ते षडप्यनतीचारां, खड्गधारासहोदराम् । प्रव्रज्यां पालयामासुः, पूर्वलक्षांश्चतुर्दश ॥ ९१० ॥
संलेखनाद्वयपुरःसरमेकधीरास्ते पादपोपगमनानशनं प्रपद्य । 30 सर्वार्थसिद्धिमधिगम्य दिवं त्रयस्त्रिंशाब्ध्यायुषः सुरवराः पडपि ह्यभूवन् ॥ ९११॥
इत्याचार्यश्रीहेमचन्द्रविरचिते त्रिषष्टिशलाकापुरुषचरिते महाकाव्ये प्रथमे पर्वणि
धनादिद्वादशभववर्णनो नाम प्रथमः सर्गः ॥१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org