________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । विषादिदोषाः प्राणश्यस्तदङ्गस्पर्शिवायुना । गन्धसिन्धुरदानाम्भोगन्धेनेवाऽन्यसिन्धुराः॥ ८४८॥ विषसम्पृक्तमन्नादि, तेषां पात्रे मुखेऽपि वा । सम्प्रविष्टं सुधाकुण्ड, इव निर्विषतामगात् ॥ ८४९ ॥ वचनश्रवणात् तेषां, विषं मन्त्राक्षरादिव । बाधा महाविषव्याधिबाधितस्याऽप्यपासरत् ।। ८५० ॥ नखाः केशा रदाश्चान्यदपि तेषां शरीरजम् । भेजे भेषजतां सर्व, मुक्तात्वं शुक्तिवारिवत् ॥ ८५१ ॥ आसन्नणीयसी मूर्ति, तथा ते कर्तुमीश्वराः । यथा सञ्चरितुमलं, सूचीरन्धेऽपि तन्तुवत् ॥ ८५२ ॥ वपुर्महत्तरीकर्तुं, शक्तिस्तेषां बभूव सा । यया सुमेरुशैलोऽपि, जानुदनो व्यधीयत ॥ ८५३ ॥ तेषां वपुर्लघीयस्त्वसामर्थ्य तदजायत । समुल्ललचे तद् येन, मारुतस्याऽपि लाघवम् ॥ ८५४ ॥ वपुर्गरिमशक्तिश्च, वज्रादप्यतिशायिनी । साऽभूत् तेषां न या सह्या, शक्रायैत्रिदशैरपि ॥ ८५५ ॥ प्राप्तिशक्तिरभूत् तेषां, भूस्थानां स्पर्शनं यया । अङ्गुल्यग्रेण मेर्वग्रग्रहादेवृक्षपत्रवत ॥ ८५६ ॥ साऽभूत् प्राकाम्यशक्तिश्च, भुवीवाऽप्सु यया गतिः । निमजनोन्मजने च, पानीय इव भुव्यपि ॥८५७॥ 10 आसीत तेषां तदैश्वर्य, प्रभवन्ति स्म येन ते । चक्रभृत्रिदशाधीशऋद्धिमाधातुमात्मनः ॥ ८५८॥ तेषां वशित्वसामर्थ्य, तदपूर्वमजायत । भेजिरे वशितां येन, स्वतन्त्राः क्रूरजन्तवः ॥ ८५९ ॥ तेषामप्रतिघातित्वशक्तिः साऽभूद् यया खलु । अद्रिमध्येऽपि निःसङ्गं, गमनं रन्ध्रमध्यवत् ॥ ८६० ॥ तदन्त नसामर्थ्यमभूत् तेषामनाहतम् । नभस्वतामिवाऽदृश्यरूपता येन सर्वतः ॥ ८६१॥ प्रावीण्यं कामरूपित्वे, तत् तेषामुल्ललास च । अलं पूरयितुं लोकं, नानारूपैर्यथा निजैः ॥ ८६२ ॥ 15 तेषामाविरभूद् बीजबुद्धिता सातिशायिनी । एकार्थबीजतोऽनेकार्थवीजानां प्ररोहिणी ॥ ८६३ ॥ ते कोष्ठबुद्धयोऽभूवन् , कोष्ठप्रक्षिप्तधान्यवत् । विना स्मरणमर्थानां, प्राक् श्रुतानां तथास्थितेः ॥ ८६४ ॥ आद्यादन्त्यान्मध्यमाद् वा, श्रुतादेकपदादपि । सर्वार्थग्रन्थबोधात् तेऽभूवन पदानुसारिणः ॥ ८६५ ॥ एकं वस्तु समुद्धृत्याऽन्तर्मुहूर्ताच्छुतोदधेः । अवगाहनसामर्थ्यात् , ते मनोबलिनोऽभवन् ॥ ८६६ ॥ अन्तर्मुहर्त्तमात्रेण, मातृकामावलीलया । गुणयन्तः श्रुतं सर्वमासन् वाग्वलिनश्च ते ॥ ८६७ ॥ 20 प्रपद्यमानाः प्रतिमां, चिरकालमपि स्थिराम् । श्रमक्लमाभ्यां रहितास्ते कायबलिनोऽभवन् ॥ ८६८ ॥ अभूवनमृतक्षीरमध्वाज्यास्रविणश्च ते । पात्रस्थस्य कदनस्याऽप्यमृतादिरसागमात् ॥ ८६९ ॥ दुःखादितेष्वमृतादिपरिणामाद् गिरां च ते । अमृतक्षीरमध्वाज्यासविणः साधु जज्ञिरे ॥ ८७० ॥ अन्नस्य पात्रपतितस्याऽल्पस्याऽप्यतिदानतः । अक्षयेणाऽक्षीणमहानसर्द्धयश्च तेऽभवन् ॥ ८७१ ॥ तीर्थकृत्पर्षदीवाऽल्पदेशेऽपि प्राणिनां सुखम् । असङ्ख्यानां स्थितेरासंस्ते चाऽक्षीणमहालयाः ॥ ८७२ ॥ 25 एकेनाऽपीन्द्रियेणाऽन्येन्द्रियार्थस्योपलम्भनात् । ते बभूवुश्च सम्भिन्नस्रोतोलब्धिमहर्द्धयः ॥ ८७३ ।। जङ्घाचारणलब्धिश्च, तेषामजनि सा यया । रुचकद्वीपमेकेनोत्पातेन प्राप्तुमीश्वराः ॥ ८७४ ॥ वलन्तो रुचकद्वीपादेकेनोत्पतनेन ते । नन्दीश्वरेऽलमायातुं, द्वितीयेन यतो गताः ॥ ८७५ ॥ ते चोर्द्धगत्यामेकेन, समुत्पतनकर्मणा । उद्यानं पाण्डकं गन्तुमलं मेरुशिरःस्थितम् ॥ ८७६ ॥ ततस्ते वलिता एकेनोत्पातेन तु नन्दनम् । अलं गन्तुं द्वितीयेन, प्रथमोत्पातभूमिकाम् ॥ ८७७॥ 80 ते विद्याचारणाऽऽसुमेकेनोत्पातकर्मणा । मानुषोत्तरमन्येन, द्वीपं नन्दीश्वरं क्षमाः ॥ ८७८ ॥ एकोत्पातात् ततश्चाप्तुं, पूर्वोत्पातमहीतलम् । तिर्यग्यानक्रमेणोद्धमप्यलं ते गतागते ॥ ८७९ ॥ आसीदाशीविषर्द्धिश्च, निग्रहाऽनुग्रहक्षमा । तेषामन्या अप्यभूवन् , बहुलं बहुलब्धयः॥ ८८०॥ लब्धीनामुपयोगं ते, जगृहुर्न कदाचन । मुमुक्षवो निराकासा, वस्तुषूपस्थितेष्वपि ।। ८८१ ॥
इतश्च तीर्थकुनामगोत्रकर्मार्जितं दृढम् । खामिना वजनाभेन, विंशत्या स्थानकैरिति ॥ ८८२ ॥ 35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org