________________
२
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व भुञ्जानस्याऽप्यस्य भोगान् , धर्मे धीरधिकाधिकम् । वयसो वर्द्धमानस्य, स्पर्द्धयेव व्यवर्द्धत ॥ ८१४ ॥ क्रमादस्य प्रभवन्त्या, भववैराग्यसम्पदा । बहिष्टा धर्मधीरासीद् , वल्लीवाऽऽवालवारिणा ॥ ८१५ ।।
एकदा विहरंस्तत्र, वज्रसेनजिनेश्वरः । परमानन्दजननः, साक्षान्मोक्ष इवाऽऽययौ ॥ ८१६ ।। स्वामी समवसरणे, ततश्चैत्यतरोस्तले । कर्णामृतप्रपां धर्मदेशनामुपचक्रमे ॥ ८१७ ॥ सबन्धुर्वज्रनाभोऽपि, जगद्वन्धोर्जिनप्रभोः । राजहंस इवाऽऽभ्यागादुपपादाम्बुजं मुदा ॥ ८१८॥ स त्रिः प्रदक्षिणीकृत्य, प्रणम्य च जगत्पतिम् । अनुजन्मेव शक्रस्य, पृष्ठतः समुपाविशत् ।। ८१९ ॥ म बोधिमुक्ताजननी, भव्यमानसशुक्तिषु । देशनां स्वातिवृष्टयाभां, शुश्राव भागकाग्रणीः ॥ ८२० ॥ गिरं भगवतः शृण्वन् , मृगो गीतिमिवोन्मनाः । हर्षाद् विचिन्तयामास, स एवं भूमिवासवः ॥८२१॥"
असावपारः संसारः, सरस्वानिव दुस्तरः । तस्यापि तारकस्तातो, दिष्ट्याऽसौ विष्टपाधिपः ॥ ८२२ ॥ 10 अन्धकार इवाऽत्यन्तं, मोहोऽन्धङ्करणो नृणाम् । तस्याऽयमभितो भेत्ता, भगवान् भानुमानिव ॥ ८२३ ॥
चिरकालभवश्वाऽयं, महाव्याधिरिवोल्वणः । अचिकित्स्यः कर्मराशिस्तातस्तस्य चिकित्सकः ॥ ८२४ ॥ यद्वा किमन्यत् सर्वेषां, दुःखानामेष नाशनः । सुखानामेकजननः, करुणामृतसागरः॥ ८२५ ॥ खामिन्येवंविधेऽप्यस्मिन्नहो ! मोहप्रमद्वरैः । असाभिरात्मनैवाऽऽत्मा, वश्चितोऽसौ कियच्चिरम् ? ॥८२६॥
चक्रवर्ती ततो धर्मचक्रवर्तिनमानतः । इति विज्ञपयामास, भक्तिगद्गदया गिरा ॥ ८२७ ॥ 15 ____ अर्थप्रसाधनपरैर्नीतिशास्त्रैश्चिरं मम । मतिः कदर्थिता नाथ !, क्षेत्रभूः कुँशिकैरिव ॥ ८२८ ॥
तथा विषयलोलेन, नित्यं नेपथ्यकर्मभिः । अयमात्मा नटेनेव, चिरं विनटितो मया ॥ ८२९ ।। इदं हि मम साम्राज्यमर्थकामनिबन्धनम् । चिन्त्यते यस्तु धर्मोऽत्र, स स्यात् पापानुबन्धकः ॥ ८३०॥ तातस्य पुत्रो भूत्वाऽपि, भवाम्भोधौ भ्रमामि चेत् । तत् कः पुरुषकारः स्यादन्यसाधारणस्य मे ? ॥८३१॥ अपालयमिदं राज्यं, युष्मद्दत्तमहं यथा । तथा संयमसाम्राज्यं, पालयिष्यामि देहि मे ॥ ८३२ ॥ कृत्वा च पुत्रसाद् राज्यं, निजान्वयनभोरवि । व्रतं भगवतः पार्श्वे, प्रपेदे चक्रवर्त्यथ ।। ८३३ ॥ बाहादयोऽपि जगृहुस्तत्सोदर्यास्तदा व्रतम् । पित्रा ज्येष्ठेन चोपात्तं, तद्धि तेषां क्रमागतम् ॥ ८३४ ॥ सुयशाः सारथिः सोऽपि, पादान्ते धर्मसारथेः । अनुस्वामि प्रवत्राज, भृत्याः खाम्यनुगामिनः ॥८३५॥ श्रुतसागरपारीणो, वज्रनाभोऽभवत् क्रमात् । प्रत्यक्षा द्वादशाङ्गीव, जङ्गमैकाङ्गतां गता ॥ ८३६ ॥
एकादशाझ्याः पारीणा, जाता बाह्वादयोऽपि ते । क्षयोपशमवैचित्र्याचित्रा हि श्रुतसम्पदः ॥ ८३७ ॥ 25
तीर्थकृत्पादसेवायास्तपसो दुश्चरस्य च । असन्तुष्टाः सदाऽभूवंस्ते सन्तोषधना अपि ॥ ८३८ ॥ ते नित्यं तीर्थकृद्वाणीपीयूषरसपायिनः । अपि मासोपवासादितपसा नैव चक्लमः॥ ८३९ ॥ भगवान् वज्रसेनोऽपि, शुक्लध्यानं श्रितोऽन्तिमम् । निर्वाणं पाप गीर्वाणप्रपश्चितमहोत्सवम् ॥ ८४० ॥
सनाभिरिव धर्मस्य, वृतो व्रतसनाभिभिः । मुनिभिर्वज्रनाभोऽपि, विजहार वसुन्धराम् ॥ ८४१॥
खामिना वज्रनाभेन, बाह्वाद्याः स च सारथिः । सनाथा जज्ञिरे पञ्चेन्द्रियाणीवाऽन्तरात्मना ॥८४२॥ 30 तेषां योगप्रभावेण, सर्वाः खेलादिलब्धयः । औषध्य इव शैलानामाविरासन् शशित्विषा ॥ ८४३ ॥
तेषां श्लेष्मलवेनाऽपि, संश्लिष्टं कुष्ठिनो वपुः । कोटिवेधरसेनेव, ताम्रराशिः सुवर्ण्यभूत् ॥ ८४४ ॥ कर्णनेत्रादिभरङ्गभश्च तेषामभन्मलः । कस्तूरिकापरिमलो, रोगनः सर्वरोगिणाम ॥४५॥ तेषां वपुःपरिस्पर्शमात्रादपि शरीरिणः । सरुजो नीरुजोऽभूवन् , सुधाम्भःस्नपनादिव ॥ ८४६ ॥ तदङ्गसङ्गादम्भोदमुक्तं नद्यादिवाह्यपि । सर्वरोगान् पयोऽहार्षीत् , तमांसीवाऽशुमन्महः ॥ ८४७॥
१ आलवालः । २ स्वातिनक्षत्रवृष्टितुल्याम् । ३ समुद्रः। ४ दभैः। * दुष्करस्य सं १॥ + सेनाभि सं १॥ ५ सहोदरः। ६ व्रतसहितः।
20
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org