________________
प्रथमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम् । तेन स्वर्णेन ते चैत्यं, सुवर्णेन स्वकेन च । कारयामासुरुत्तुङ्ग, मेरुशृङ्गमिवाऽऽहत्तम् ॥ ७७९ ।। जिना_मर्चयन्तस्ते, गुरूपासनतत्पराः । कर्मवत् क्षपयामासुः, कश्चित् कालं महाशयाः ॥ ७८० ॥
ते षडप्येकदा जातसंवेगाः साधुसन्निधौ । धीमन्तो जगृहुर्दीक्षां, मर्त्यजन्मतरोः फलम् ॥ ७८१ ॥ ते विजहुः पुरि पुरो, ग्रामे ग्रामाद् वने वनात् । तिष्ठन्तो नियतं कालं, राशौ राशेरिव ग्रहाः ॥ ७८२ ॥ शाणेरिव तपोभिस्ते, तूर्यषष्ठाष्टमादिभिः । चारित्ररत्नं विदधुर्निर्मलं निर्मलादपि ॥ ७८३ ॥ अपीडयन्तो दातारं, प्राणधारणकारणात् । पारणे जगृहुर्भिक्षां, ते मधुव्रतवृत्तयः ॥ ७८४ ॥ अवलम्बितधैर्यास्ते, क्षुत्पिपासातपादिकान् । परीषहान सहन्ते स्म, प्रहारान् सुभटा इव ॥ ७८५ ॥ सेनाङ्गानीव चत्वारि, मोहराजस्य सर्वतः । चतुरोऽपि कषायांस्ते, जिग्युरस्त्रैः क्षमादिभिः ॥ ७८६ ॥ कृत्वा संलेखनामादौ, द्रव्यतो भावतश्च ते । भेजिरेऽनशनं कर्मशैलनिनोशनाशनिम् ॥ ७८७ ॥ समाधिभाजस्ते पञ्चपरमेष्ठिनमस्क्रियाम् । सरन्तस्तत्यजुर्देहं, न हि मोहो महात्मनाम् ॥ ७८८ ॥ 10 षडपि द्वादशे कल्पेऽच्यतनामनि तेऽभवन । शकसामानिकास्ताग, न सामान्यफलं तपः ॥ ७८९ ॥ आयुस्ते पूरयित्वा द्वाविंशति सागरोपमान् । ततोऽच्यवन्ताऽच्यवनं, न हि मोक्षं विना क्वचित् ॥ ७९० ॥
जम्बूद्वीपाभिधे द्वीपे, विदेहेषु च पूर्वतः । विजये पुष्कलावत्यां, महाम्भोनिधिसन्निधौ ॥७९१॥ नगर्या पुण्डरीकिण्यां, वज्रसेनस्य भूपतेः । धारिण्यां जज्ञिरे राज्यां, तेषु पञ्च क्रमात् सुताः ॥७९२॥ तत्र वैद्यस्य जीवोऽभूद्, वज्रनाभोऽभिधानतः । चतुर्दशमहास्वमसूचितः प्रथमः सुतः ॥ ७९३ ॥ 15 राजपुत्रस्य जीवस्तु, द्वितीयो बाहुसंज्ञया । मत्रिपुत्रस्य जीवोऽपि, सुबाहुरिति नामतः ॥ ७९४ ॥ नाम्ना पीठमहापीठौ, श्रेष्ठिसार्थेशपुत्रयोः । जीवौ जीवः केशवस्य, सुयशा राजपुत्रकः ॥ ७९५ ।। सुयशाः शिश्रिये वज्रनाभं बाल्यात् प्रभृत्यपि । स्नेहः प्राग्भवसम्बद्धो, ह्यनुबध्नाति बन्धुताम् ॥७९६॥ तेऽवर्द्धन्त क्रमाद् राजसूनवः सुयशाः स च । नरभावमिवापन्नाः, षड्वर्षधरपर्वताः ॥ ७९७ ॥ वाहयन्तो मुहुर्वाहान् , वाह्याल्यां ते महौजसः । बिभराञ्चक्रिरेऽनेकरूपरेवन्तविभ्रमम् ॥ ७९८॥ 20 कलाभ्यासे कलाचार्योऽभूत् तेषां साक्षिमात्रकः । प्रादुर्भवन्ति महतां, स्वयमेव यतो गुणाः ।। ७९९ ॥ शैलानपि शिलातोलं, तेषां तोलयतां भुजैः । अपूर्यत बलक्रीडा, न केनापि मनागपि ॥ ८००॥ __ अथ लोकान्तिकैर्देवैरन्तिकीभूय भूपतिः । वज्रसेनो व्यज्ञपीदं, स्वामिंस्ती प्रवर्त्तय ॥ ८०१ ॥ वज्रसेनस्ततो वज्रनाभं वनिसमौजसम् । राज्ये निवेशयामास, स्वमिवाऽपरमूर्त्तितः ॥ ८०२ ॥ सांवत्सरिकदानेन, प्रीणयामास मेदिनीम् । अम्भोधर इवाऽम्भोभिर्वज्रसेननृपस्ततः ॥ ८०३ ॥ देवासुरनृदेवैश्व, कृतनिष्क्रमणोत्सवः । गत्वोद्यानमलञ्चक्रे, स व्योमेव हिमद्युतिः ॥ ८०४ ॥ स्वयम्बुद्धः स भगवांस्तत्र दीक्षामुपाददे । उदपद्यत च ज्ञानं, मनःपर्ययसंज्ञकम् ।। ८०५ ॥ आत्मारामः साम्यधनो, निर्ममो निष्परिग्रहः । प्रावर्त्तत विहां मां, स नानाभिग्रहः प्रभुः ॥ ८०६ ॥ । भ्रातृभ्यो वज्रनाभोऽपि, प्रत्येकं विषयान् ददौ । लोकपालैरिवेन्द्रोऽभात् , स च तैर्नित्यसेवकैः ॥८०७॥ क्षत्ताऽभूत् तस्य सुयशा, अरुणस्तरणेरिव । आत्मानुरूपः कर्त्तव्यः, सारथिर्हि महारथैः ॥ ८०८॥ 30 उत्पेदे वज्रसेनस्य, घातिकर्ममलक्षयात् । उयोतो दर्पणस्येव, केवलज्ञानमुज्वलम् ॥ ८०९ ॥
तदा च वज्रनाभस्य, प्रविवेश महीपतेः । चक्रमायुधशालायामधरीकृतभास्करम् ॥ ८१०॥ त्रयोदश च रत्नानि, तस्याऽऽसन्नपराण्यपि । सम्पद्धि पुण्यमानेनाऽम्भोमानेनेव पद्मिनी ।। ८११॥ नवाऽपि निधयस्तस्याऽभवन् सेवाविधायिनः । आकृष्टाः प्रबलैः पुण्यैर्गन्धैरिव मधुव्रताः ॥ ८१२ ॥ सोऽशेष साधयामास, विजयं पुष्कलावतीम् । चक्रे च चक्रवर्तित्वाभिषेकोऽस्याखिलैर्नृपः ॥ ८१३ ॥ 35 १ सूर्यपुत्रः। २ चन्द्रः। ३ देशान् । ४ सारथिः ।
विषष्टि. ४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org