________________
10.
कलिकालसर्वज्ञश्रीहेमचन्नाचार्यप्रणीतं
[ प्रथवं पर्व चिकित्सनीय एवाऽहो !, महामुनिरयं मया । औषधानामसामग्री, किन्तु यावन्तरायताम् ॥ ७४५ ॥ तत्रैक लक्षपार्क मे, तैलमस्तीह नाऽस्ति तु । गोशीर्षचन्दन रत्नकमबालश्चाऽऽनयन्तु तत् ॥७४६ ॥ आनेष्यामो वयमिति, प्रोच्य पश्चापि तत्क्षणम् । ते ययुर्विपणिश्रेणी, स्वस्थानं सोऽप्यगान्मुनिः ।।७४७।। रत्नकम्बल-गोशीर्षे, मूल्यमादाय यच्छ नः । इत्युक्तस्तैर्वणिग्वृद्धस्ते ददानोऽब्रवीदिदम् ॥ ७४८ ॥
दीनाराणां लक्षमेकं, प्रत्येकं मूल्यमेतयोः। गृहीत ब्रूत वस्तुभ्यां, किमाभ्यां वः प्रयोजनम् ॥७४९॥ तेऽप्यूचुर्मूल्यमादत्स्व, दत्स्व गोशीर्षकम्बलौ । एताभ्यां हि महासाधुचिकित्सा नः प्रयोजनम् ॥ ७२० ॥ श्रुत्वा तद्वचनं श्रेष्ठी, विसयोत्तानलोचनः । रोमाञ्चसचितानन्दश्चेतसैवमचिन्तयत् ॥ ७५१ ॥ कैषां यौवनमुन्मादप्रमादमदनोन्मदम् ? । मतिर्विवेकवसतिर्वयोवृद्धोचिता क च १ ॥ ७५२ ॥ जराजर्जरकायाणां, मादृशां योग्यमीदृशम् । कुर्वन्त्यमी यत् तदहोऽदम्यारोऽयमुह्यते ॥ ७५३ ॥ चिन्तयित्वेति सोऽवोचदिमौ गोशीर्षकम्बलौ । गृह्यतामस्तु वो भद्रं, भद्रा! द्रव्येण चाऽस्तु कः ॥७५४॥ अवयोर्वस्तुनोर्मूल्यमादास्ये धर्ममक्षयम् । धर्मभागीकृतः साधु, युष्माभिः सोदरैरिव ॥ ७५५ ॥ श्रेष्ठिश्रेष्ठोऽपयित्वाऽथ, तेषां गोशीर्षकम्बलौ । भावितात्मा प्रवत्राज, वव्राज च परं पदम् ॥ ७५६ ॥
आदायौषधसामग्रीमग्रिमास्ते महात्मनाम् । जीवानन्देन सहिताः, प्रययुफैन तं मुनिम् ।। ७५७ ॥ न्यग्रोधपादपस्याऽधस्तत्पादमिव निश्चलम् । कायोत्सर्गेण तिष्ठन्तं, तं नत्वा ते बभाषिरे ।। ७५८ ।। धर्मविनं करिष्यामश्चिकित्साकर्मणाऽद्य वः । भगवन्ननुजानीहि, पुण्येनाऽनुगृहाण नः ॥ ७५९ ।। मुनिमेषममुज्ञाप्य, तेऽथ गोमृतकं नवम् । आनिन्युर्विचिकित्सन्ति, न हि जातु चिकित्सकाः ॥ ७६० ॥ मुनेः प्रत्यङ्गमभ्यङ्गं, तेन तैलेन ते व्यधुः । उद्यानमिव कुल्याम्भः, शरीसन्तस्तदानशे ॥ ७६१ ॥ तैलेनाऽत्युष्णवीर्येण, जज्ञे निःसंज्ञको मुनिः । योग्यमुग्रस्य हि व्याधेः, शान्त्यामत्युग्रमौषधम् ।। ७६२ ॥
आकुलास्तेन तैलेन, कृमयस्तस्कलेवरात् । तस्थुर्बहिर्जलेनेव, वोमलरात् पिपीलिकाः ॥ ७६३ ॥ . 20 जीवानन्दस्ततो रत्नकम्बलेन समन्ततः । मनिमाच्छादयामास, शशीव ज्योत्स्नया नभः॥ ७६४॥
कमयोऽथ न्यलीयन्त. शीतत्वाद रत्नकम्बले। शैवले ग्रीष्ममध्याहतप्ताः शफरिका इव ॥७६५॥ मन्दमन्दोलयन वैद्यः, कम्बलं गोशवोपरि । कमीनपातयदहो!, सर्वत्राद्रोहिता सताम् ॥ ७६६ ॥ जन्तुजीवातुभिर्जीबानन्दोऽमृतरसैरिख । मुनिमाश्वासयामास, ततो गोशीर्षचन्दनैः ॥ ७६७ ॥
कृमयस्त्वग्गता एव, ह्यमी निरसरनिति । तैलाभ्यङ्गं मुनेर्भूयो, जीवानन्दोऽथ निर्ममे ॥ ७६८ ॥ 25 तेनाऽभ्यङ्गेन भूयोऽपि, भूयांसो मांसगा अपि । निरीयुः कृमयो वातेनोदानेन रसा इव ॥ ७६९ ॥
तथैवाच्छादने रत्नकम्बले कमयोऽलगन् । अलक्तकंपटे दनोऽतिद्व्यहस्येव जन्तवः ।। ७७० ॥ कस्मिन् मोमृतके भूयस्तान कृमीन रत्नकम्बलात् । तथैवाऽपातयदहो !, भिषजो बुद्धिकौशलम् ॥ ७७१ ॥ गोशीर्षचन्दनरसासारैराण्याययन्मुनिम् । जीवानन्दोऽम्भोद' इवा, वृथ्याः ग्रीष्मादितं द्विपम् ।। ७७२ ।।
भूयोऽभ्यङ्गेन किरंयुः, कृमयोऽस्थिगता अपि । न वज्रपञ्जरेऽप्यस्ति, स्थानं स्टे क्लीयसि ।। ७७३ ।। 30. रत्नकम्बललग्नास्ताम् , पुनर्गोमृतके कमीम् । स चिक्षेपाऽधमं स्थानमधमामां हि युज्यते ॥ ७७४ ॥
गोशीर्षचन्दनरसैविलिलेप मुनि पुनः । भक्त्या परमया देवमिव सद्यो भिषम्वरः ॥ ७७५ ॥ संरोपणौषधैर्जातमवत्वक् कान्तिमान मुनिः । चकासामास निर्मुष्टकाञ्चनप्रतिमेवः सः ।। ७७६. ।। तैतिदक्षैः क्षमितः, स क्षमाक्षमणस्ततः । ययौ विहर्तुमन्यत्र, नास्था काऽपि हि तादृशाम् ।। ७७७ ॥ ततोऽवशिष्टगोशीर्षचन्दनं रत्नकम्बलम् । तत्र विक्रीय जगृहुस्ते स्वर्ण बुद्धिशालिनः ॥ ७७८ ॥ ..विनत्वम् । २ वस्सतरः । *युर्यत्रतं. सं ॥ ३ वटवृक्षस्य । ४ सारणिजलम् । ५ वष्मीचाद। बयाः । ७ जन्तु जीवनप्रदैः। 1 °कपुटे आ॥ अतिक्रान्तदिनद्वयस्य । निरीयः संता॥संरोहणौ खं, आ॥ श्रवण मंदा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org