________________
२३
प्रथमः सर्गः]
त्रिषष्ठिशलाकापुरुषचरितम् । राज्यलुब्धस्तदा त्वस्य, पुत्रः प्रकृतिमण्डलम् । धनैरभेदयत् तैर्हि, किं न भेधं जलैरिव ? ॥ ७१२ ॥ प्रातः स्वयं व्रतादानं, राज्यदानं सुतस्य च । चिन्तयन्तौ सुषुपतुर्निशायां श्रीमतीनृपौ ॥ ७१३॥ विषधूपं व्यधात् पुत्रस्तयोस्तु सुखसुप्तयोः । कस्तं निरोद्भुमीशः स्याद् , गृहादमिमिवोत्थितम् ? ॥७१४ ॥ तभूपधूमैरधिकैर्जीवाकर्षाङ्कुटैरिव । प्राणप्रविष्टैस्तौ सद्यो, दम्पती मृत्युमापतुः ॥ ७१५ ॥
अथोत्तरकुरुष्वेतावुत्पन्नौ युग्मरूपिणौ । एकचिन्ताविपन्नानां, गतिरेका हि जायते ॥ ७१६ ॥ क्षेत्रानुरूपमायुश्च, पूरयित्वा तथा युतौ । तौ विपद्योदपद्येतां, सौधर्मे स्नेहलौ सुरौ ॥७१७ ॥ - वज्रजङ्घस्य जीवोऽथ, भोगान् भुक्त्वा निरन्तरम् । आयुःक्षयात् ततोऽच्योष्ट,हिमग्रन्थिरिवाऽऽतपात् ७१८ जम्बूद्वीपे विदेहेषु, पुरे क्षितिप्रतिष्ठिते । वैद्यस्य सुविधेः पुत्रः, स जीवानन्द इत्यभूत् ॥७१९ ॥ तदैव तसिन्नगरे, चत्वारोऽन्येऽपि दारकाः । उदपद्यन्त धर्मस्य, भेदा इव वपुर्जुषः ॥ ७२० ॥ अभूत् तत्रैक ईशानचन्द्रस्य पृथिवीपतेः । भार्यायां कनकवत्यां, सूनुर्नाम्ना महीधरः ॥ ७२१॥ 10 मत्रिणोऽन्यः शुनाशीरनाम्नः पल्यामजायत । लक्ष्म्यां श्रीनन्दन इव, सुबुद्धिर्नाम नन्दनः ॥७२२॥ अन्यः सागरदत्तस्य, सार्थवाहपतेरभूत् । भार्यायामभयमत्यां, पूर्णभद्राभिधः सुतः ॥ ७२३ ॥ चतुर्थश्च समुत्पेदे, पन्यां श्रेष्ठिधनस्य तु । शीलमत्यां शीलपुञ्ज, इव नाम्ना गुणाकरः ॥ ७२४ ॥ प्रयवाद् रक्ष्यमाणास्ते, बालधारैर्दिवानिशम् । समं ववृधिरे सर्वेऽप्यङ्गेऽङ्गावयवा इव ॥ ७२५ ॥ सहपांशक्रीडिनस्ते. जगहः सममेव हि। कलाकलापं सकलं, मेघाम्भः पादपा इव ॥ ७२६॥ 15 तत्रैव नगरे जीवः, श्रीमत्या अपि सोऽभवत् । सूनुरीश्वरदत्तस्य, श्रेष्ठिनः केशवाभिधः ॥ ७२७ ॥ समं च मिलितास्तेन, ते पण्मित्राणि जज्ञिरे । अवियुक्ताः करणान्तःकरणानीव सर्वदा ॥ ७२८ ॥ विदाञ्चकाराऽऽयुर्वेदं, जीवानन्दोऽपि पैतृकम् । अष्टाङ्गमौषधीश्चाऽपि, रसवीर्यविपाकतः ॥ ७२९ ॥ ऐरावण इवेभेषु, ग्रहेष्विव दिवाकरः । अभूत् प्राज्ञो निरवद्यविद्यो वैद्येषु सोऽग्रणीः ॥ ७३० ॥ सौदर्या इव सम्भूय, रममाणाः सदैव ते । कदाचित् कस्यचिद् वेश्मन्यन्योऽन्यस्याऽवतस्थिरे ॥ ७३१ ॥ 20
एकदा वैद्यपुत्रस्य, जीवानन्दस्य मन्दिरे । एतेषां तिष्ठतामेकः, साधुर्भिक्षार्थमाययौ ॥ ७३२ ॥ पृथ्वीपालस्य राज्ञः स, सूनुर्नाम्ना गुणाकरः । राज्यं मलमिवोत्सृज्य, शमसाम्राज्यमाददे ॥ ७३३ ॥ सरिदोघ इव ग्रीष्मातपेन तपसा कृशः । कृमिकुष्ठाभिभूतश्च, सोऽकालापथ्यभोजनात् ॥ ७३४ ॥ सर्वाङ्गीणं कृमिकुष्ठाधिष्ठितोऽपि स भेषजम् । ययाचे न क्वचित् कायानपेक्षा हि मुमुक्षवः ॥ ७३५ ॥ गोमूत्रिकाविधानेन, गेहाद् गेहं परिभ्रमन् । षष्ठस्य पारणे दृष्टः, स तैर्निजगृहाङ्गणे ॥ ७३६ ॥ 25
महीधरकुमारेण, स किश्चित् परिहासिना । जीवानन्दो निजगदे, जगदेकभिषक् ततः ॥ ७३७ ॥ अस्ति व्याधेः परिज्ञानं, ज्ञानमस्त्यौषधस्य च । चिकित्साकोशलं चाऽस्ति, नाऽस्ति वः केवलं कृपा ॥७३८॥ सदा संस्तुतमप्यार्त्तमपि प्रार्थकमप्यहो ! । वेश्या इव विना द्रव्यं, यूयं नाऽक्ष्णाऽपि पश्यथ ॥ ७३९ ॥ तथाऽप्येकान्ततो नाऽर्थलुब्धैर्भाव्यं विवेकिभिः । धर्ममप्युररीकृत्य, कृत्यं क्वापि चिकित्सितम् ॥७४०॥ चिकित्सायां निदाने च, धिक् ते सर्व परिश्रमम् । आयातमीदृशं पात्रं, सरोगं यदुपेक्षसे ॥ ७४१ ॥ 30
जीवानन्दोऽपि विज्ञानरत्नरत्नाकरोऽब्रवीत् । साधु साधु महाभाग, त्वया विसापितोऽस्म्यहम् ॥७४२॥ ब्राह्मणजातिरद्विष्टो, वणिग्जातिरवञ्चकः । प्रियजातिरनीालुः, शरीरी च निरामयः ॥ ७४३ ॥ विद्वान् धनी गुण्यगर्वः, स्त्रीजनश्चाऽपचापलः । राजपुत्रः सुचरित्रः, प्रायेण न हि दृश्यते ॥ ७४४ ॥
[सन्दानितकम् ] ___ * सर्वेऽप्यनझाव सं ॥ १ करणानि इन्द्रियाणि, अन्तःकरणं मनः, एतान्यपि षटूसङ्ख्याकानि । २ गोमूत्रधारावद्वत्वेन। ३ परिचितम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org