________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[प्रथमं पर्व आत्मसन्दर्शनायाऽस्या, आगतोऽहमिहाऽसि च । मयि रक्ता मृता जज्ञे, नॅनमेषा स्वयम्प्रभा॥६७८ ॥ इह नन्दीश्वरे जैनबिम्बार्चनपरोऽस्म्यहम् । गच्छनितोऽन्यतीर्थेषु, च्यवमानोऽहमंस्म्यहम् ॥ ६७९ ॥ इह चैकाकिनी दीना, वराकीयं स्वयम्प्रभा । इह च च्यवमानेयं, मन्ये सैव मम प्रिया ॥ ६८०॥ साऽस्तीह मन्ये लिखितं, जातिस्मृत्या तया त्वदः। अन्यानुभूतं न ह्यन्यो, जनो जानाति जातुचित् ॥६८१॥ आमेति पण्डिताऽप्युक्त्वा, श्रीमत्याः पार्श्वमेत्य च । तत्सर्वमाख्यत् हृदयविशल्यकरणौषधम् ॥ ६८२॥ श्रीमती दयितोदन्तगिरा रोमाञ्चिताऽभवत् । अम्भोदध्वनिना रत्नाङ्कुरितेव विदूरभूः ॥ ६८३ ॥ . पितुर्व्यज्ञपयत् तच्च, श्रीमती पण्डितामुखात् । अस्वातत्र्यं कुलस्त्रीणां, धर्मो नैसर्गिको यतः॥६८४ ॥ तद्गिरा मुदितः सद्यः, स्तनितेनेव बर्हिणः । वज्रसेननृपो वज्रजङ्घमाजूहवत् ततः ॥ ६८५ ॥
कुमारमूचे भूपालोऽसत्पुत्री श्रीमतीत्यसौ । भवत्विदानी भवतो, गृहिणी पूर्वजन्मवत् ॥ ६८६ ॥ 10 तथेति प्रतिपन्ने च, कुमारेणोदवाहयत् । श्रीमती भूपतिः प्रीतो, हरिणेवोदधिः श्रियम् ॥ ६८७ ॥
ज्योत्स्त्रीचन्द्राविव युतौ, तौ सितक्षौमवाससौ । लोहार्गलपुरं राज्ञाऽनुज्ञातौ जग्मतुस्ततः ॥ ६८८ ॥ योग्यं ज्ञात्वा वज्रजङ्घ, स्वर्णजङ्घोऽथ भूपतिः । राज्ये निवेशयामास, स्वयं दीक्षामुपाददे ॥ ६८९ ॥ सूनोः पुष्कलपालस्य, दत्त्वा राज्यश्रियं निजाम् । प्रात्राजीद् वज्रसेनोऽपि, जज्ञे तीर्थकरश्च सः॥६९०॥
विलसन् वज्रजङ्घोऽपि, श्रीमत्या सह कान्तया । उवाह लीलया राज्यमम्भोजमिव कुञ्जरः ॥ ६९१ ॥ 15 अप्राप्तयोर्विप्रयोगं, गङ्गासागरयोरिव । तयोर्भुञ्जानयो गान् , सुतः समुदपद्यत ॥ ६९२ ॥ ___ अथ पुष्कलपालस्य, व्यभिंद्यन्त महारुषः । समन्तात् सीमसामन्सः, सर्पभारोपमाजुषः ॥ ६९३ ॥ तेन तेषां द्विजिह्वानामिव साधनहेतवे । नरेन्द्रो वज्रजङ्घोऽथ, समाहूतोऽचलद् बली ॥ ६९४ ॥ श्रीमत्यपि समं वज्रजङ्घन जगतीभुजा । अचालीदचला भक्तिः, पौलोमीव बिडौजसा ॥ ६९५ ॥
स गच्छन्नर्द्धमार्गेऽथ, महाशरवणं पुरः । ददर्श दर्शयामिन्यामपि ज्योत्स्नाभ्रमप्रदम् ॥ ६९६ ॥ 20 दृग्विषोऽहिरिहाऽस्तीति, विज्ञप्तः सोऽध्वगैरगात् । पथाऽन्येन नयज्ञा हि, प्रस्तुतार्थेषु तत्पराः ॥ ६९७ ॥
आययौ पुण्डरीकिण्यां, पुण्डरीकोपमोऽथ सः । सामन्तमण्डलं सर्व, वशेऽभूत् पुष्कलस्य च ॥६९८॥ राजा पुष्कलपालोऽपि, पुष्कलानि विधेयवित् । विविधानि व्यधादस्य, स्वागतानि गुरोरिव ॥ ६९९ ॥ श्रीमन्तं श्रीमतीबन्धुमनुज्ञाप्याऽन्यदा तु सः । श्रीमत्या सहितोऽचालीच्छ्रियः पतिरिव श्रिया॥७००॥
सोऽथ प्राप्तः शरवणं, निकषा कषणो द्विषाम् । इत्यूचे कुशलैर्यात, मध्येनाऽप्यस्य सम्प्रति ॥ ७०१ ॥ 25 उत्पेदे केवलज्ञानं, द्वयोरत्राऽनगारयोः । तत्र देवागमोयोताद् , दृग्विषो निर्विषोऽभवत् ।। ७०२ ॥
नाम्ना सागरसेनश्च, मुनिसेनश्च तौ मुनी । राजन्नत्रैव विद्यते, सूर्याचन्द्रमसाविव ॥ ७०३ ॥ सोदयौं तौ मुनी ज्ञात्वा, विशेषमुदितो नृपः । उवास तत्रैव वने, वनमालीव वारिधौ ॥ ७०४ ॥ कुर्वाणौ देशनां तत्र, तौ वृतौ देवपर्षदा । भक्तिभारादिवाऽऽनम्रः, सभार्यः सोऽभ्यवन्दत ॥७०५ ॥
देशनान्ते च पानानवस्त्रोपकरणादिभिः । तौ प्रत्यलाभयद् राजा, चिन्तयामास "चेति सः॥७०६॥ 30 धन्यावेतौ निष्कषायौ, निर्ममौ निष्परिग्रहौ । सोदर्यभावे सामान्येऽप्यहो! नाऽस्म्यहमीदृशः ॥ ७०७ ॥
आत्तव्रतस्य तातस्य, सत्पथेनाऽनुगामिनौ । एतावेचौरसौ पुत्रौ, पुत्रः क्रीत इवाऽस्म्यहम् ॥ ७०८ ॥ एवं स्थितेऽपि मे किश्चिन्नायुक्तं प्रव्रजामि चेत् । प्रवज्या दीपिकेवाऽऽत्तमात्राऽपि हि तमश्छिदे ॥७०९॥ तदिदानी पुरीं गत्वा, दत्त्वा राज्यं च सूनवे । हंसस्येव गतिं हंसः, श्रयिष्येऽहं पितुर्गतिम् ॥ ७१० ॥ संवादिन्या व्रतादानेऽनुस्यूतमनसेव सः । सहितः श्रीमतीदेव्या, प्राप लोहार्गलं पुरम् ।। ७११॥
* पुनरेषा स्व° ता, खं ॥ मसम्ययम् ता॥ दखनिना र खं ॥ ज्योत्स्नाच संता॥ १ अन्तर्भेदं प्राप्ताः। इन्द्राणी । ३ समीपे । ४ संहारकः । ५ सहोदरौ। ६ विष्णुरिव । चेतसि सं १,२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org