________________
प्रथमः सर्गः ]
त्रिषष्टिशलाकापुरुषचरितम । अन्येयुः श्रीमती क्रीडोद्याने यातवती सती । एकान्ते समयं प्राप्य, धात्र्योचे पण्डिताख्यया॥६४३॥ मम प्राणा इवाऽसि त्वं, मातेवाऽस्मि तवाऽप्यहम् । अन्योन्यमावयोस्तेन, नाऽस्त्यविश्वासकारणम् ॥६४४॥ मौनमालम्बसे पुत्रि , हेतुना येन शंस तम् । तदुःखसंविभाग मे, दत्त्वा दुःखं लघूकुरु ॥ ६४५ ॥ ज्ञात्वा दुःखं यतिष्येऽहं, तत्प्रतीकारकर्मणे । न ह्यज्ञातस्य रोगस्य, चिकित्सा जातु युज्यते ॥ ६४६ ॥ पण्डितायाः स्ववृत्तान्तं, साऽपि प्राग्जन्मसम्भवम् । यथावदब्रवीत् प्रायश्चित्तार्थी सद्गुरोरिय ॥ ६४७॥ 5 पटे वृत्तान्तमालेख्य, श्रीमत्यास्तं च पण्डिता। उपायपण्डिता मङ्गु, बहिर्दर्शयितुं ययौ ॥ ६४८ ॥ __ चक्रिणो वज्रसेनस्य, वर्षग्रन्थिरभूत् तदा । प्रस्तावादाययुस्तत्र, भूयांसो वसुधाधवाः ॥ ६४९ ॥ पण्डिता राजमार्गेऽथ, तमालेख्यपटं स्फुटम् । विस्तार्य तस्थौ श्रीमत्या, मनोरथमिवाऽलघुम् ॥६५०॥ तत्राऽऽगमविदः केऽपि, स्वर्गनन्दीश्वरादिकम् । आगमार्थाविसंवादि, लिखितं परितुष्टुवुः ॥ ६५१ ॥ इतरे तु महाश्राद्धा, धूनयन्तः शिरोधराम् । प्रत्येकं वर्णयामासुर्बिम्बानि श्रीमदर्हताम् ॥ ६५२ ॥ 10 कूणिताक्षमभीक्ष्णं केऽपीक्षमाणाः प्रतिक्षणम् । रेखाशुद्धिं प्रशशंसुः, कलाकौशलशालिनः ॥ ६५३ ॥ इतरे तु सिति-श्वेत-पीत-नीला-ऽरुणादिकान् । सन्ध्याभ्राभीकृतपटान् , वर्णकानित्यवर्णयन् ॥ ६५४ ॥ ___ अत्रान्तरे च तनयो, दुर्दर्शनमहीपतेः । यथार्थनामा दुर्दान्त, इति तत्र समाययौ ॥ ६५५ ॥ स क्षणं तं पटं प्रेक्ष्य, प्रेक्षावान मूर्च्छया क्षितौ । अलीकयाऽपतदथ, लब्धसंज्ञ इबोत्थितः ॥ ६५६ ॥ मूर्छायाः कारणं पृष्ट, उत्थितश्च जनेन सः । कथयामास वृत्तान्तं, कृत्वा कपटनाटकम् ॥ ६५७ ॥ 15 मम प्राग्जन्मचरितं, पटे केनाऽप्यलेख्यत । जातिस्मरणमुत्पेदे, हन्त! तदर्शनादिह ।। ६५८ ॥ ललिताङ्गोऽस्म्यहं देवो, मम देवी स्वयम्प्रभा । इत्यादि संवदत्येव, यदत्र लिखितं पटे ॥ ६५९॥ __ पप्रच्छ पण्डिता चाऽथ, यद्येवं भद्र ! तद्वद । सनिवेशः पटे कोऽयमङ्गुल्या दर्शय स्वयम् ॥६६०॥ स ऊचे मेरुरेषोऽद्रिः, पूरियं पुण्डरीकिणी । पुनः पृष्टो मुने माऽब्रवीनामाऽस्य विस्मृतम् ॥ ६६१ ॥ भूयोऽपि पृष्टः को नाम, नृपोऽयं मत्रिभितः। तपस्विनी च का न्वेषेत्याख्यदाख्यां न वेद्यहम्॥६६२॥ 20 मायावीति च संज्ञातः, सोपहासं तयोदितः । पुत्रदं संवदत्येव, प्राग्जन्मचरितं तव ॥ ६६३ ॥
ललिताङ्गोऽसि देवस्त्वं त्वत्पत्नी तु खयम्प्रभा।नन्दिग्रामे कर्मदोषात् ,पङ्गभूताऽस्ति सम्प्रति॥६६४॥ सञ्जातजातिस्मरणादालिख्य चरितं निजम् । पटो मे धातकीखण्डगताया अर्पितस्तया ॥ ६६५ ।। तस्याः पवाः करुणया, त्वं मयाऽसि गवेषितः । तदेहि धातकीखण्डे, त्वां नयामि तदन्सिक॥६६६॥ वराकी त्वद्वियोगे सा, दुःखं जीवति पुत्रक!। समाश्वासय तामद्य, प्राग्जन्मप्राणयल्लभाम् ।। ६६७ ॥ 25 एवमुक्त्वा पण्डितायां, तूष्णीकायां स मायिकः । इत्थं वयस्यैः खैरेव, सोपहासमभाष्यत ॥ ६६८॥ कलत्ररत्नाधिगमादहो ! पुण्योदयस्य । अभिगम्या च पोष्या च, सा पङ्गः सर्वथा तव ॥ ६६९ ।। ततो वैलक्ष्यदीनास्यः, स दुर्दान्तः कुमारकः । विक्रीयमाणेभ्य इवाऽयशिष्टः कचिदप्यमात् ॥ ६७० ॥ __ लोहार्गलपुराद् वज्रजवोपि हि तदाऽऽययौ । चरितं चित्रलिखितं, तद् ददर्श मुमूर्छ च ॥६७१॥ व्यजनै जितो नीरैरुक्षितोऽथ स उत्थितः । जातजातिस्मृतिरभूत, सद्यः स्वर्गादिवागतः ॥ ६७२ ॥ 30 पटालेख्यमिदं दृष्ट्वा, किं कुमाराऽसि मूछितः । इति पण्डितया पृष्टो, वज्रजङ्घोऽब्रवीदिदम्।।६७३॥ चरित्रं सकलत्रस्य, मम प्राग्भयसम्भवम् । इदं हि लिखितं भद्रे !, तद् दृष्ट्वा मूछितोऽस्म्यहम् ।। ६७४॥ श्रीमानशानकल्पोऽयं, विमानं श्रीप्रभंत्विदम् । एषोऽहं ललिताङ्गाख्यः, प्रिया मेऽसौ स्वयम्प्रभा६७५ इसश्च धातकीखण्डे, नन्दीग्रामस्य मध्यतः । गृहे महादरिद्रस्य, सुता निर्मामिकेत्यसौ ॥ ६७६ ॥ शैलमम्बरतिलकमध्यारूदाऽस्ति सा त्विह । गृहीतानशनाऽमुष्य, युगन्धरमुनेः पुरः ॥ ६७७॥ 35 १चित्ररचना।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org