________________
कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
हृदयेन समं तस्य विश्लिष्यत्सन्धिबन्धनाः । महाबलैरप्यकम्प्याः, कल्पवृक्षाचकम्पिरे ।। ६०९ ।। तस्याऽरुजोऽप्यभज्यन्त, सर्वाङ्गोपाङ्गसन्धयः । भाविदुर्गतियानोत्थवेदनाशङ्कनादिव ।। ६१० ॥ पदार्थग्रहणे तस्यापदुष्टिरजायत । तथैव स्थितिमन्येषामक्षमेव निरीक्षितुम् || ६११ ॥ गर्भावास निवासोत्थदुःखागमभयादिव । प्रकम्पतरलान्यङ्गान्यस्याज्जायन्त तत्क्षणम् ।। ६१२ ।। 5 क्रीडागिरि सरिद्वापी दीर्घिकोपवनेषु सः । रम्येष्वपि रतिं नाप, सैंपार्कल इव द्विपः ॥ ६१३ ॥
ततः स्वयम्प्रभावोचदपराद्धं न किं मया ? । विमनस्कतया देव !, यदेवमुपलक्ष्यसे ।। ६१४ ॥ ललिताङ्गोऽप्युवाचैवं नाऽपराद्धं प्रिये ! त्वया । अपराद्धं मया सुभ्रु !, यदल्पं प्राकृतं तपः ।। ६१५ ।। भोगेषु जागरूकोsहं, धर्मे सुप्त इवाऽनिशम् । पूर्वजन्मन्यभूवं हि, विद्याधरनरेश्वरः ।। ६१६ ।। मद्भाग्यप्रेरितेनेव, स्वयम्बुद्धेन मन्त्रिणा । धर्मं प्रबोधितो जैनमायुः शेपेऽहमाप्तवान् ॥ ६१७ ॥ इयत्कालं च तद्धर्मप्रभावाच्छ्रीप्रभे प्रभुः । सञ्जातोऽहमत योष्ये, नाऽलभ्यं लभ्यते क्वचित् ॥ ६१८ ॥ एवमाभाषमाणस्य, तस्याऽऽदिष्टो विडौजसा । दृढधर्माभिधो देवो, जगादैवमुपेत्य तम् ॥ ६१९ ॥ जिनेन्द्रप्रतिमापूजां कर्तुं नन्दीश्वरादिषु । यास्यत्यैशानकल्पेन्द्रस्त्वमप्येहि तदाज्ञया ।। ६२० ।। अहो ! भाग्यवशात् कालोचितं मे स्वामिशासनम् । इति प्रमुदितोऽचालीललिताङ्गः सवल्लभः ॥६२१॥ गत्वा नन्दीश्वरे सोsहृत्प्रतिमाः शाश्वतीस्ततः । आनर्च विस्मृतासन्नच्यवनः परया मुदा ।। ६२२ ।। 15 ततोऽप्यन्येषु तीर्थेषु गच्छन् स्वच्छेन चेतसा । सोऽगादभावं क्षीणायुः, क्षीणतैलप्रदीपवत् ॥ ६२३ ॥ जम्बूद्वीपे ततः पूर्वविदेहेषूपसागरम् । महानद्याश्च सीताभिधानाया उत्तरे तटे ।। ६२४ ॥ विजये पुष्कलावत्यां, लोहार्गलमहापुरे । राज्ञः सुवर्णजङ्घस्य, लक्ष्म्यां पत्ल्यां सुतोऽभवत् ||६२५|| [ युग्मम् ॥ ] अथ कन्दलितानन्दाप्य दिवस शुभे । वज्रज इति श्रीता, पितरो नाम चक्रतुः ।। ६२६ ।। स्वयम्भा दुःखाता, कालेन कियताऽप्यथ । धर्मकर्मणि संलीना, व्यच्योष्ट ललिताङ्गवत् ॥ ६२७ नगर्यां पुण्डरीकियां, विजयेऽत्रैव चक्रिणः । वज्रसेनस्य भार्यायां गुणवत्यां सुताऽभवत् ।। ६२८ ।। सर्वलोकातिशायिन्या, श्रियाऽसौ संयुता ततः । श्रीमतीत्यभिधानेन, पितृभ्यामभ्यधीयत ।। ६२९ ॥ लतेवोद्यानपालीभिर्धात्रीभिललिता सती । मृद्वङ्गी विलसत्पाणिपल्लवा ववृधे क्रमात् ॥ ६३० ॥ स्निग्धया पल्लवयन्तीमिव कान्त्या नभस्तलम् । तां यौवनमलञ्चक्रे, रत्नं स्वर्णोर्मिकामिव ॥ ६३१ ॥
अन्येद्युः सर्वतोभद्रं, नाम प्रासादमुच्चकैः । शैलं सन्ध्याभ्रलेखेव, क्रीडयाऽध्यारुरोह सा ।। ६३२ ॥ ततो मनोरमोद्याने, सुस्थितस्य महामुनेः । उत्पन्ने केवलज्ञाने, ददर्शाऽऽगच्छतः सुरान् ॥ ६३३ ॥ पूर्वं मया दमित्यूहापोहकारिणी । जन्मान्तराणि पूर्वाणि, निशास्त्रममिवाऽस्मरत् ।। ६३४ ॥ हृदये प्रभवज्ञानभारं वोढुमिवाऽक्षमा । क्षमासले क्षणादेव, मूच्छिता निपपात सा ।। ६३५ ।। चन्दनापचारेण, सखीभिः कल्पितेन सा । लब्धसंज्ञा समुत्तस्थौ, चित्ते चैवमचिन्तयत् ।। ६३६ ।।
पूर्वजन्मपत्ति स, ललिताङ्गो दिवश्युतः । व सम्प्रत्यवतीर्णोऽस्तीत्यज्ञानं हा ! दुनोति माम् ||६३७ || तस्मिन् हृदयसङ्कान्ते, नान्यो मे हृदयेश्वरः । कर्पूरभाण्डे को नाम, लवणं विनिवेशयेत् ? ।। ६३८ ।। स च प्राणाधिनाथो मे, न चेद् वचनगोचरः । आलप्याडलं तदन्येनेत्याददे मौनमेव सा ॥ ६३९ ॥ आधिदैविकदोषाभिशङ्कया तत्सखीजनैः । अकारि मत्रतन्त्रादिरुपचारो यथोचितम् ॥ ६४० ॥ सा मुमोच न मृकत्वमुपचारशतैरपि । व्याधेरन्यस्य न ह्यन्यदौषधं जातु शान्तिकृत् ॥ प्रयोजने परिजनं, स्वं नियोजयति स्म सा । अक्षराणि लिखित्वा भ्रूहस्तादेरथ संज्ञया ॥। ६४२ ॥ * सपङ्किल° सं १ ॥ १ पाकलो गजज्वरः । + 'तीमङ्गका' सं १ ॥ २ तर्कवितर्ककारिणी । + 'दैवतदो' वा ॥
६४१ ॥
10
0
25
30
२०
35
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org