________________
प्रथमः सर्गः]
त्रिषष्टिशलाकापुरुषचरितम् । क्षुधा-पिपासा-शीतोष्णा-ऽतिभारारोपणादिना । कशा-ऽङ्कुश-प्रतोदैश्च, सहन्ते वेद नाममी ॥ ५७५ ॥ खेचरास्तित्तिरि-शुक-कपोत-चटकादयः । श्येन-शिञ्चान-गृध्राद्यगृह्यन्ते मांसगृक्षुभिः ॥ ५७६ ॥ मांसलुब्धैः शाकुनिकै नोपायप्रपञ्चतः । सङ्ग्रह्य प्रतिहन्यन्ते, नानारूपैविडम्बनैः ॥ ५७७ ॥ जलादिशस्त्रादिभवं, तिरश्चां सर्वतो भयम् । अभनप्रसरं स्वस्वकर्मबन्धनिबन्धनम् ॥ ५७८ ॥ मानुष्यकेऽपि सम्प्राप्ते, जायन्ते केऽपि जन्मिनः । जन्मान्धवधिरा जन्मपङ्गयो जन्मकुष्टिनः ॥ ५७९ ॥ 5 चौरिकापारदारिक्यप्रसक्ताः केऽपि मानवाः । नवनवैनिंगृह्यन्ते, निग्रहर्नारका इव ॥ ५८० ॥ विविधैर्व्याधिभिः केऽपि, बाध्यमाना निरन्तरम् । प्रेक्षमाणाः परमुखमुपेक्ष्यन्ते सुतैरपि ॥ ५८१ ॥ मूल्यक्रीताश्च ताड्यन्ते, केचिदश्वतरा इव । अतिभारेण बाध्यन्तेऽनुभाव्यन्ते तृषादिकम् ॥ ५८२ ॥ परस्परपराभूतिक्लिष्टानां घुसदामपि । स्वस्वामिभावबद्धानां, दुःखमेव निरन्तरम् ॥ ५८३ ॥ अस्मिन्नसारे संसारे, निसर्गेणाऽतिदारुणे । अवधिन हि दुःखानां, यादसामिव वारिधौ ॥ ५८४ ॥ 10 संसारे दुःखनिलये, जैनो धर्मः प्रतिक्रिया । मत्राक्षरमिव स्थाने, भूतप्रेतादिसङ्कुले ॥ ५८५ ॥ जातु हिंसा न कर्त्तव्या, हिंसया हि शरीरिणः । पोता इवाऽतिभारेण, मजन्ति नरकार्णवे ॥ ५८६ ॥ असत्यं सर्वथा त्याज्यमसत्यवचनेन यत् । चिरं भ्रमति संसारे, जन्तुस्तृण्येव वात्यया ॥ ५८७ ॥ अदत्तं नाददीतार्थमदत्तादानतो यतः। कपिकच्छूफलस्पर्शादिव जातु सुखं न हि ॥ ५८८ ॥ अब्रह्म परिहर्त्तव्यमब्रह्मचरणेन हि । धृत्वा गले रङ्क इव, नीयते नरके जनः ॥ ५८९ ॥
15 परिग्रहो न कर्त्तव्यः, परिग्रहवशेन यत् । दुःखपङ्के जनो मजत्यतिभारेण गौरिव ॥ ५९० ॥ पश्चाऽप्यमूनि हिंसादीन्युत्सृजेद् देशतोऽपि यः । उत्तरोत्तरकल्याणसम्पदां सोऽपि भाजनम् ॥ ५९१ ॥ ___ अथ साऽऽसादयामास, संवेगमतिशायिनम् । अयोगोल इवाऽभेद्यः, कर्मग्रन्थिरभिद्यत ॥ ५९२ ॥ महामुनेः पुरः साऽथ, सम्यक् सम्यक्त्वमाददे । प्रतिपेदे जिनोपज्ञं, गृहिधर्मं च भावतः ॥ ५९३ ॥ अहिंसादीनि पञ्चाऽपि, तदेवाऽणुव्रतानि सा । परलोकाध्वपाथेयभूतानि प्रत्यपद्यत ॥ ५९४ ॥ 20 मुनिनाथं प्रणम्याऽथ, गृहीत्वा दारुभारकम् । जगाम कृतकृत्येव, मुदिता सा स्वमालयम् ॥ ५९५॥ ततः प्रभृति सा तेपे, तपो नानाविधं सुधीः । स्वनामेवाऽविसरन्ती, युगन्धरमुनेर्गिरम् ॥ ५९६ ॥ न हि कश्चिदुपायंस्त, दुर्भगां यौवनेऽपि ताम् । कदुतुम्ब्याः पक्कमपि, फलमश्नाति कोऽथवा ? ॥ ५९७ ॥ ततो विशिष्टसंवेगा, तत्राऽद्रावेयुषः पुनः । युगन्धरमुनेरग्रे, साऽस्त्यात्तानशनाऽधुना ॥ ५९८ ॥ तद् गच्छ दर्शयाऽस्याः खं, त्वयि रक्ता सती मृता। सा ते पत्नी भवेदन्ते, या मतिःसा गतिः किल ॥५९९।। 25 तच्चके ललिताङ्गोपि, साऽपि तद्रागिणी सती । मृत्वा स्वयम्प्रभा नाम, तत्पत्यजनि पूर्ववत् ॥६००॥ प्रणष्टां प्रणयक्रोधादिव प्राप्य प्रियां ततः । स रेमेऽभ्यधिकं तापे, रत्यै छाया हि जायते ॥ ६०१॥ रममाणस्तया सार्द्ध, गते काले कियत्यपि । आत्मच्यवनचिह्नानि, ललिताङ्गो व्यलोकयत् ॥ ६०२ ॥
तस्य रत्नाभरणानि, निस्तेजस्कानि जज्ञिरे । मम्लुश्च मौलिमाल्यानि, तद्वियोगभयादिव ॥६०३॥ मालिन्यं भेजिरे सद्यस्तस्याऽङ्ग वसनानि च । आसन्ने व्यसने लक्ष्म्या, लक्ष्मीनाथोऽपि मुच्यते ॥६०४॥ 30 भोगेष्वत्यन्तमासक्तिस्तस्याऽभूद् धर्मबाधया । प्रकृतिव्यत्ययः प्रायो, भवत्यन्ते शरीरिणाम् ॥ ६०५॥ जजल्प शोकविरसं, तस्य सर्वः परिच्छदः । भाविकार्यानुसारेण, वागुच्छलति जल्पताम् ॥ ६०६ ॥ आकालप्रतिपन्नाभ्यां, प्रियाभ्यां च सहैव हि । कृतापराध इव स, श्रीहीभ्यां पर्यमुच्यत ॥ ६०७ ॥ अदीनोऽपि हि दैन्येन, विनिद्रोऽपि हि निद्रया । स शिश्रिये मृत्युकाले, पक्षाभ्यामिव कीटिका ॥६०८॥
जलजन्तूनाम् । २ प्रतीकारः । ३ प्रवहणानि । १ तृणसमूह इव । ५ कोहगोलः। ६ जिनोपदिष्टम् । ७ गृहीतानशना । विष्णुः। ९ परिवारः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org