________________
कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यप्रणीतं
[ प्रथमं पर्व
नामापि तस्या नागश्रीर्नाकार्षीदतिदुःखिता । निर्नामिकेति नाम्नाऽसौ ततो लोकैरुदीरिता ॥ ५४१ ॥ साsपालयन्न तां सम्यगवर्द्धिष्ट तथाऽपि सा । जन्तोर्वज्राहतस्याऽपि मृत्युर्नाऽत्रुटितायुः || ५४२ ॥ अत्यन्तदुर्भगा मातुरप्युद्वेगविधायिनी । सा कालं गमयत्यन्यगृहे दुष्कर्म कुर्वती ॥ ५४३ ॥ एकस्मिन्नुत्सवेऽन्येद्युराढ्यबालकपाणिषु । ईक्षित्वा मोदकान् साऽपि ययाचे मातरं निजाम् ।। ५४४ ॥ दन्तैर्दन्तान् धर्षयन्ती, तामम्बाऽपीदमत्रवीत् । याचसे मोदकान् युक्तं, मोदकांदी पिताऽपि ते ।। ५४५ ।। यदि मोदकलिप्सुस्त्वं रज्जुमादाय गच्छ तत् । शैलमम्बरतिलकं, दारुभारकृते हले ! ॥ ५४६ ॥ करीपानिसोदरया, दह्यमाना तया गिरा । रुदती रज्जुमादाय, तं पर्वतमियाय सा ।। ५४७ ॥
अस्तस्य शिरस्यैकरात्रिकप्रतिमाजुषः । केवलज्ञानमुत्पेदे, युगन्धरमुनेस्तदा ।। ५४८ ॥ तस्याऽथ सन्निहिताभिर्देवताभिः प्रचक्रमे । तत्कालं केवलज्ञानमहिमाख्यो महोत्सवः ।। ५४९ ॥ पर्वतासन्ननगरग्रामवासी ततो जनः । अहंपूर्विकया तत्र, तं चन्दितुमुपाययैौ ॥ ५५० ॥
यान्तं जनं दृष्ट्वा नानाभरणभूषितम् । तस्थौ निर्नामिका चित्रलिखितेवाऽतिविस्मयात् ।। ५५१ ॥ सा परम्परया ज्ञात्वा, लोकागमनकारणम् । दारुभारं दुःखभारमिवोत्सृज्याऽचलत् ततः ।। ५५२ ।। जनेन सह तेनाथ, साऽपि निर्नामिका गिरिम् । तमारुरोह तीर्थानि सर्वसाधारणानि यत् ।। ५५३ ॥ कूल्पपादपवत् पादौ, मन्यमाना महामुनेः । सा सानन्दमवन्दिष्ट, मतिर्गत्यनुसारिणी ।। ५५४ ॥ लोमाह्लादयन्नब्द, इव गम्भीरया गिरा । मुनिर्विश्वजनीनोऽथ, विदधे धर्मदेशनाम् ।। ५५५ ।। ऑमसूत्र व्यूतखाधिरोहणसहोदरम् । भवभूमौ निपाताय, नृणां विषयसेवनम् ॥ ५५६ ।। एकग्रामसभावाससुप्तपान्थजनोपमः । पुत्रमित्रकलत्रादिसङ्गमः सर्वदेहिनाम् ।। ५५७ ।। लक्षेषु चतुरशीत, योनिषु भ्रमतामिह । अनन्तो दुःखसम्भारः, स्वकर्मपरिणामजः ।। ५५८ ।।
अथ निर्नामिकाऽवोचद्, भगवन्तं कृताञ्जलिः । तुल्यो राज्ञि च रङ्के च, यत् त्वं विज्ञप्यसे ततः ॥ ५५९ ॥ मारो दुःखसदनं, भगवद्भिः प्रकीर्त्तितः । अस्ति किं कश्चिदप्यत्र, मत्तोऽप्यधिकदुःखितः १ ।। ५६० ॥ भगवानप्युवाचैवं दुःखं दुःखितमानिनि ! । भवत्याः कीदृशं भद्रे !, दुःखितानपरान् शृणु ।। ५६१ ।। स्वकर्मपरिणामेनोत्पद्यन्ते नरकावनौ । भैदिकाछेदिकाः शीर्षच्छेद्याश्वाऽपि शरीरिणः ।। ५६२ ।। तिलपीडं निपीड्यन्ते, यत्रैस्तत्र हि केचन । दारुदारं च दार्यन्ते, क्रकचैः केऽपि दारुणैः ।। ५६३ ॥ शूलतूलिकशय्यासु, शाय्यन्ते केऽपि सन्ततम् । असुरैर्वस्त्रवत् केचिदास्फाल्यन्ते शिलातले ॥ ५६४ ॥ 25 कुट्यन्ते केऽप्ययस्पात्राणीव लोहघनैर्घनैः । खण्ड्यन्ते शाकपणिका, इव केचन खण्डशः ॥ ५६५ ॥ भूयोऽपि मिलिताङ्गास्ते, भूयो भूयस्तथैव हि । तद्दुःखमनुभाव्यन्ते, क्रन्दन्तः करुणस्वरम् || ५६६ ।। पिपासिताश्च पाय्यन्ते, तप्तत्रपुरसं मुहुः । छायार्थिनो निषाद्यन्ते, चाऽसिपत्रतरोस्तले ।। ५६७ ।। मुहूर्त्तमपि न स्थातुं लभन्ते वेदनां विना । नरके नारकाः कर्म, स्मार्यमाणाः पुराकृतम् ॥ ५६८ ॥ वत्से ! नारकर्षेण्डानां यद् दुःखं तदशेषतः । श्राव्यमाणमपि प्राणभाजां दुःखाय जायते ।। ५६९ ।। किश्च प्रत्यक्षमीक्ष्यन्ते, जल-स्थल - खचारिणः । प्राणिनो विविधं दुःखमापेदीनाः स्वकर्मजम् ॥ ५७० ॥ तत्र वारिचराः खैरं खादन्त्यन्योन्यमुत्सुकाः । धीवरैः परिगृह्यन्ते, गिल्यन्ते च बकादिभिः ॥ ५७१ ॥ उत्कीलयन्ते त्वचयद्भिर्भृज्यन्ते च भटित्रवत् । भोक्तुकामैर्विपच्यन्ते, निगाल्यन्ते वसार्थिभिः ॥ ५७२ ॥ प्राणिनश्च स्थलचरा, अबला बलवत्तरैः । मृगाद्याः सिंहप्रमुखैर्मार्यन्ते मांसकामिभिः ।। ५७३ ।। मृगयासक्तचित्तैश्च, क्रीडया मांसकाम्यया । नरैस्तत्तदुपायेन, हन्यन्तेऽनपराधिनः ॥ ५७४ ॥
5
10
15
20
30
१८.
१ धनि बालककरेषु । २ मोदकभक्षकः । * तत्रायान्तं आ ॥ ३ विश्वहितकर्ता । ४ अपकसूत्रम्यूतखट्टाधिरोहणसदृशम् । ५ भेदनीयाः । ६ छेदनीयाः । ७ लोहपात्राणि । ८ शाकावयवाः । ९ नारकिनाम् । १० प्रामुवन्तः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org