________________
प्रथमः सर्गः]
त्रिषष्ठिशलाकापुरुषचरितम् । मनोजमुरुपबाभिरष्सरोभिः सहस्रशः । परितः परिकरिता, सरिद्भिरिव जालवीम् ॥ ५०९ ॥ देवीं स्वयम्प्रभा नाम, प्रभाभग्नाचिरंप्रभाम् । प्रभूतप्रमदस्तत्र, ददर्श श्रीप्रभप्रभुः ॥५१०॥
[द्वादशभिः कुलकम् ], कृताभ्युत्थानया दूरात् , स्नेहातिशययुक्तया । तया सहैकपर्यङ्के, निषसादाऽमराग्रणीः ॥ ५११ ॥ एकत्र च निषण्णौ तौ, चकासामासतुर्भृशम् । एकालवालमध्यस्थौ, लताविटपिनाविव ॥ ५१२ ॥ 5 परस्परमभूञ्चेतस्तयोर्लीनं निरन्तरम् । निगडेनेव रागेण, निविडेन नियत्रितम् ॥ ५१३ ॥ रममाणस्तया सार्द्धमच्छिन्नप्रेमसौरभः । गमयामास भूयांसं, कालमेकां कलामिव ॥ ५१४ ॥ दलं वृक्षादिव दिवस्ततोऽच्योष्ट स्वयम्प्रभा । आयुःकर्मणि हि क्षीणे, नेन्द्रोऽपि स्थातुमीश्वरः ॥५१५।। आक्रान्तः पर्वतेनेव, कुलिशेनेव ताडितः । प्रियाच्यवनदुःखेन, ललिताङ्गोऽथ मूञ्छितः ॥ ५१६ ॥ लब्धसंज्ञः क्षणेनाऽथ, विललाप मुहुर्मुहुः । विमानं श्रीप्रभमपि, प्रतिशब्दैविलापयन् ॥ ५१७ ॥ 10 प्राप नोपवने प्रीति, न वाप्यामपि निर्ववौ । क्रीडाशैलेऽपि न स्वस्थान्नानन्दन्नन्दनेऽपि सः ॥ ५१८ ॥ हा प्रिये ! हा प्रिये ! क्वाऽसि, क्वाऽसीति विलपन्नसौ । खयम्प्रभामयं विश्वं, पश्यन् वाम सर्वतः ॥५१९॥ ___ इतश्च खामिमरणोत्पन्नवैराग्यवासनः । स्वयम्वुद्धोऽप्यात्तदीक्षः, श्रीसिद्धाचार्यसन्निधौ ॥ ५२० ॥ सुचिरं निरतीचारं, पालयित्वा व्रतं सुधीः । ऐशाने दृढधर्माख्य, इन्द्रसामानिकोऽभवत् ॥ ५२१ ॥
[सन्दानितकम् ] 15 स पूर्वभवसम्बन्धाद् , बन्धुवत् प्रेमबन्धुरः । आश्वासयितुमित्यूचे, ललिताङ्गमुदारधीः ॥ ५२२ ॥ किं मुह्यसि महासत्त्व !, महिलामात्रहेतवे ?। धीराः प्राणावसानेऽपि, न हि यान्तीदृशीं दशाम् ॥ ५२३ ॥ ललिताङ्गोऽप्युवाचेति, बन्धो ! किमिदमुच्यते । प्राणान्तः सुसहः कान्ताविरहस्तु सुदुःसहः ॥५२४॥ एकैव ननु संसारे, सारं सारङ्गलोचना । यां विना नूनमीदृश्योऽप्यसाराः सर्वसम्पदः ॥ ५२५ ॥ तदुःखदुःखितः सोऽपीशानसामानिकः सुरः । दत्त्वोपयोगमवधिज्ञानाज्ज्ञात्वाऽब्रवीदिति ॥ ५२६ ॥ 20 मा विपीद महाभाग !, भव स्वस्थोऽधुना ननु । मया मृगयमाणेन, प्राप्ताऽस्ति भवतः प्रिया ॥ ५२७ ॥
पृथिव्यां धातकीखण्डे, प्राग्विदेहेषु विद्यते । नन्दिग्रामे गृहपतिर्नागिलो नाम दुर्गतः ॥५२८॥ पूरणायोदरस्थापि, भ्रमन् प्रेत इवाऽन्वहम् । क्षुधितस्तृषितः शेते, चोत्तिष्ठति च तादृशः ॥ ५२९ ॥ दारिद्यस्य बुभुक्षेव, तस्सास्ति सहचारिणी । नागश्रीरित्यभिधया, मन्दभाग्यशिरोमणिः ॥ ५३० ॥ उपर्युपरि कन्यां षद् , कन्यास्तत्राऽस्य जज्ञिरे । पामनस्येव पिटका, अधोऽधः पिटकं तनौ ॥ ५३१॥ 25 प्रकृत्या बहुभक्षिण्यः, कुरूपा विश्वगर्हिताः । बभूवुस्तास्तयोः पुग्यो, ग्रामशूकरयोरिष ॥ ५३२॥ आपनसत्त्वा पत्न्यासीत् , पुनरप्यस्य कालतः । प्रायेण हि दरिद्राणां, शीघ्रगर्भभृतः खियः ॥ ५३३ ॥ सोऽथैतच्चिन्तयामास, कस्येदं कर्मणः फलम् ? । यदहं मर्त्यलोकेऽपि, प्रामोमि नरकव्यथाम् ॥ ५३४॥ अमुना जन्मसिद्धेन, दुश्चिकित्सेन भूयसा । उपदेहिकयेव दुर्दारियेणाऽसि विद्रुतः ॥ ५३५॥ इतः साक्षादलक्ष्मीभिरिव निर्लक्ष्ममूर्तिभिः । कन्यकाभिः पूर्वजन्मवैरिणीभिरिवादितः ॥ ५३६ ॥ 30 अधुना यदि भूयोऽपि, दुहिता प्रसविष्यते । तदा देशान्तरं यास्याम्युज्झित्वैतत् कुटुम्बकम् ॥ ५३७॥ एवं चिन्तां प्रपत्रस्य, सुषुवे तस्स गेहिनी । कर्णसूचीप्रवेशाभं, सुताजन्म च सोऽशृणोत् ॥ ५३८ ॥ ययावूर्ध्वमुखः सोऽथ, कुटुम्बं प्रोज्झ्य नागिलः । पर्यस्य भारं सहसा, बलीवर्द इवाऽधमः ॥ ५३९ ॥ तस्याः प्रसवजे दुःखे, पतिप्रवसनव्यथा । समजायत तत्कालं, क्षारक्षेप इव क्षते ॥ ५४० ॥
। विद्युतम् । २ शृङ्खलया। ३ शान्ति जगाम। * °स्वस्थो, नानन्दचन्द सं १, २॥ ४ दरिद्री । ५ पामायुक्तस्य । ६ निस्फोटाः। ७ सगर्भा। "उधेड"इति भाषायाम्। दुहितभिःसं, १॥ ९ त्यक्त्वा ।
त्रिषष्टि. ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org