________________
१६
कलिकालमर्वजश्रीहेमचन्द्राचार्यप्रणीनं
[प्रथमं पर्व स्वामिन्नशानकल्पोऽयं, यथासङ्कल्पितप्रदः । अनल्पानश्वरश्रीकः, मदा सुग्वनिकेतनम् ॥ ४७५ ॥ अमुष्मिन् देवलोके च, त्वया पुण्यैरुपार्जितम् । विमानं श्रीप्रभमिदं, माधवलङ्कुरुपेऽधुना ॥ ४७६ ॥ त्वत्सभामण्डनममी, तव सामानिकाः सुराः । एकोऽप्यनेक इव यैर्विमानेऽस्मिंस्त्वमीक्ष्यसे ॥ ४७७ ॥ त्रायस्त्रिंशा अमी स्वामिन् !, पुरोधोमत्रितास्पदम् । त्वदादेशमपेक्षन्ते, यथासमयमादिशेः ॥ ४७८ ॥ पारिषद्याः सुराश्चैते, नर्मसाचिव्यकारिणः । लीलाविलासगोष्ठीषु, रमयिष्यन्ति ते मनः ॥ ४७९ ॥ सदा संवर्मितास्तीक्ष्णपत्रिंशच्छस्त्रधारिणः । स्वामिरक्षामहादक्षाश्चात्मरक्षा अमी तव ॥ ४८० ॥ लोकपाला अमी च त्वत्पुररक्षाधिकारिणः । अनीकपतयश्चैते, त्वदनीकधुरन्धराः ॥ ४८१ ॥ पौरजानपदप्रायाः, प्रकीर्णकसुरा इमे । देव ! त्वदाज्ञानिर्माल्यं, धारयिष्यन्ति मूर्धनि ॥ ४८२ ।।
दास्ययोग्याश्चाभियोग्याः, सेवन्ते त्वामितस्त्वमी । सुराः किल्विपिकाश्चैते, म्लेच्छकर्मकृतस्तव ॥ ४८३ ॥ 10 तवैते रम्यरमणीरमणीयतराङ्गणाः । मनःप्रसादजननाः, प्रासादा रत्ननिर्मिताः ॥ ४८४ ॥
अमूर्वाप्यो रत्नमय्यः, सौवर्णकमलाकराः । तवाँक्रीडनगाश्चैते, रत्नकाञ्चनसानवः ॥ ४८५ ॥ एताः स्वच्छजलाः क्रीडानद्यः सद्यः प्रमोददाः । क्रीडोद्यानानि चैतानि, नित्यपुष्पफलानि ते ॥ ४८६ ॥ सदःर्सदनमेतत् ते, स्वर्णमाणिक्यनिर्मितम् । आदित्यमण्डलमिव, द्युतिद्योतितदिङ्मुखम् ॥ ४८७ ॥ एताश्च चामरादर्शतालवृन्ताकपाणयः । सर्ववारं वारनार्यस्त्वत्सेवैकमहोत्सवाः ॥ ४८८ ॥ अयं चतुर्विधातोद्यचतुरः पुरतस्तव । गन्धर्ववर्गः सङ्गीतकृते सजोऽवतिष्ठते ॥ ४८९ ॥
दत्तोपयोगस्तत्कालमवधिज्ञानतस्ततः । स दिनं ह्यस्तनमिव, पूर्वजन्मैवमस्मरत् ॥ ४९० ॥ विद्याधरपतिः सोऽहं, स्वयम्वुद्धेन मत्रिणा । धर्ममित्रेण जैनेन्द्र, धर्ममस्मि विबोधितः ॥ ४९१ ॥ प्रयज्यां प्रतिपन्नोऽहं. तदैवाऽनशनं व्यधाम । आसदं तत्फलमिदमहो! धर्मस्य वैभवम ॥ ४९२ ॥
इति स्मृत्वा समुत्थाय, दत्तबाहुः स वेत्रिणा । सिंहासनमलञ्चक्रे, म्फूर्जजयजयध्वनिः ॥ ४९३ ॥ 20
ततोऽभिपिपिचे देवैरवीज्यत च चामरैः । अगीयत च गन्धर्वैः, कलमङ्गालगीतिभिः ॥ ४९४ ॥ समुत्थाय ततोऽप्येष, भक्तिभावितमानसः । गत्वा चैत्येऽर्हत्प्रतिमाः, पूजयामास शाश्वतीः ॥ ४९५ ॥ देवैमत्रयोद्गारमधुरे गीतमङ्गले । क्रियमाणे जिनाधीशं, सोऽस्तावीद् विविधैः स्तवैः ॥ ४९६ ॥ ततोऽसौ वाचयामास, पुस्तकान् ज्ञानदीपकान् । आनर्च माणवस्तम्भस्थितान्यस्थीनि चाऽर्हताम् ॥ ४९७ ॥
अथ दिव्यातपत्रेण, पार्वणेन्दुसनाभिना । भ्राजिष्णुार्यमाणेन, स लीलासदनं ययौ ॥ ४९८ ॥ 25 नितान्तसुकुमारानिपाणिनेत्राननच्छलात् । लावण्यसिन्धुमध्यस्थारविन्दवनिकामिव ॥ ४९९ ॥
आनुपूर्येण पृथुलौ, वृत्तावूरू च बिभ्रतीं । न्यासीकृताविव निजी, तूणीरौ पुष्पधन्वना ॥ ५०० ॥ राजमानां नितम्बेन, विपुलेनाऽच्छवाससा । कलहंसकुलालीढपुलिनेनेव निम्नगाम् ॥ ५०१॥ राजन्तीमुदरेणाऽतिक्षामेण पैविमध्यवत् । पीनोन्नतकुचद्वन्द्वभारप्रोद्वहनादिव ॥ ५०२ ॥ भान्ती रेखात्रयाङ्केण, कण्ठेन कलनादिना । कम्बुनेव सरनृपस्योच्चैर्विजयशंसिना ॥५०३ ॥ अधरीकृतबिम्बाभ्यामधराभ्यां चकासतीम् । नासया नेत्रनलिननाललीलाजुषाऽपि च ॥ ५०४॥ अर्कीकृतपार्वणेन्दुलक्ष्मीसर्वस्वहारिणा । हारिणा चित्तहरणी, स्निग्धगण्डालिकेन च ॥ ५०५॥ कर्णी रतिपतेः क्रीडादोलालीलामलिम्लुचौ । भ्रूयुगं च स्मरधनुर्यष्टिश्रीहारि विभ्रतीम् ॥ ५०६ ॥ शोभमानां कवर्या च, स्निग्धकजलकान्तया । वदनाम्भोरुहस्याऽनुसारिण्येवालिमालया ॥ ५०७ ॥ सर्वाङ्गीणं च विन्यस्तरत्नाभरणसम्पदा । जङ्गमीभावभाक्कल्पलताविभ्रमहारिणीम् ॥ ५०८॥
पुरोहितमश्रिस्वस्थानम् । २ कवधिमः । ३ क्रीडापर्वताः। ४ सभागृहम् । ५ व्यजनम् । ६ वेश्याः। ७ मधुरमङ्गलगीतैः । पूर्णिमाचन्द्रतुल्येन । ९ इषुधी। १० बनमध्यवत् । मनोहरेण । १२ केशापाशेन । १ सर्वाङ्गेषु ।
30
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org