________________
प्रथमः सर्गः]
त्रिषष्ट्रिशलाकापुरुपचरितम् । यद्विज्ञप्तमकाण्डे तु, श्रूयतां तत्र कारणम् । यदद्य नन्दनेऽद्राक्षं, चारणश्रमणावहम् ॥ ४४३ ॥ जगत्प्रकाशजनकौ, महामोहतमच्छिदौ । एकत्र मिलितौ साक्षात् , सूर्याचन्द्रमसाविव ॥ ४४४ ॥ कुर्वन्तौ देशनां तत्र, ज्ञानातिशयशालिनौ । तौ मया समये पृष्टौ, प्रमाणं भवदायुषः ॥ ४४५ ॥ ताभ्यां तु भवतो मासमात्रमायुर्निवेदितम् । अतस्त्वां त्वरयाम्यद्य, धमोयैव महामते!॥४४६ ॥ महाबलोऽथाऽभिदधे, स्वयम्बुद्ध ! धियांनिधे ! । त्वमेवैकोऽसि मे बन्धुर्यन्मत्कार्याय ताम्यसि ॥४४७॥ 5 आक्रम्यमाणं विषयैर्निद्रालु मोहनिद्रया । मामजागरयः साधु, शाधि किं साधयाम्यतः ? ॥ ४४८ ॥ आयुष्यल्पेऽधुना धर्मः, साधनीयः कियान मया ? । कीदृशं कूपखननं, सद्यो लग्ने प्रदीपने ॥ ४४९ ॥ स्वयम्बुद्धोऽप्युवाचैवं, मा विपीद दृढीभव । परलोकैकसुहृदं, यतिधर्म समाश्रय ॥ ४५०॥ अप्येकं दिवसं जीवः, परिव्रज्यामुपेयिवान् । अपवर्गमपि प्रामोत्येव स्वर्गस्य का कथा ? ॥ ४५१ ॥ आमेत्युदित्वा स्वसुतं, स्खे पदे प्रत्यतिष्ठिपत् । महाबलस्तदाचार्यः, प्रासादे प्रतिमाभिव ॥ ४५२ ॥ 10 दीनाऽनाथजनेभ्योऽथ, दयादानमदत्त सः । तथा यथा न कोऽप्यासीद्, याज्जादीनो जनः पुनः॥४५३॥ विचित्रवस्त्रमाणिक्यसुवर्णकुसुमादिभिः । स चक्रेऽष्टाह्निका सर्वचैत्येष्विन्द्र इवाऽपरः ॥ ४५४॥ ततश्च क्षमयित्वा स्वजनं परिजनं तथा । दीक्षां मुनीन्द्रपादान्तेऽग्रहीन्मोक्षश्रियः सखीम् ॥ ४५५ ॥ सर्वसावंद्ययोगानां, विरत्या सममेव सः । चक्रे चतुर्विधाहारप्रत्याख्यानं महामनाः ॥ ४५६ ॥ असौ समाधिपीयूषहदमग्नो निरन्तरम् । अम्भोजिनीखण्ड इव, न हि मम्लो मनागपि ॥ ४५७ ॥ 15 भुञ्जान इव भोज्यानि, पेयान्यपि पिबन्निव । सोऽक्षीणकान्तिरभवन्महासत्त्वशिरोमणिः ॥ ४५८ ॥ समाहितः स्मरन् पञ्चपरमेष्ठिनमस्क्रियाम् । द्वाविंशतिदिनान् कृत्वाऽनशनं स व्यपद्यत ॥ ४५९ ॥
स स्वयं सम्भृतैः पुण्यैर्दिव्यैरिव तुरङ्गमैः । ऐशानकल्पं तत्कालमाससाद दुरासदम् ॥ ४६० ॥ विमाने श्रीप्रभेऽथोपपादे शयनसम्पुटे । विद्युत्पुञ्ज इवाऽम्भोदगर्भे समुदपादि सः ॥ ४६१ ॥ दिव्याकृतिः सुसंस्थानः, सप्तधातूज्झिताङ्गकः । शिरीषसुकुमाराङ्गः, कान्तिकान्तदिगन्तरः ॥ ४६२ ॥ 20 वज्रकायो महोत्साहः, पुण्यलक्षणलक्षितः । कामरूपोऽवधिज्ञानी, सर्वविज्ञानपारगः ॥ ४६३॥ अणिमादिगुणोपेतो, निर्दोषोऽचिन्त्यवैभवः । ललिताङ्ग इति ख्यातः, स यथार्थाभिधोऽभवत् ॥४६४॥ पादयो रत्नकटके, कटिसूत्रं कटीतटे । हस्तयोः कङ्कणद्वन्द्वं, भुजयोरङ्गदद्वयम् ॥ ४६५॥ वक्षःस्थले हारयष्टिः, कण्ठे ग्रैवेयकं तथा । कुण्डले कर्णलतयोः, स्रकिरीटौ च मूर्धनि ॥ ४६६ ॥ इत्यादिभूषणग्रामो, दिव्यानि वसनानि च । सर्वाङ्गभूषणं तस्य, यौवनं च सहाऽभवत् ॥ ४६७ ॥
[त्रिभिर्विशेषकम् ] ननाद नादयन्त्राशाः, प्रतिनादेन दुन्दुभिः । पेठुर्जय जगन्नन्देत्यादि मङ्गलपाठकाः ॥ ४६८ ॥ गीतवादित्रनिर्घोषवन्दिकोलाहलाकुलम् । तद्विमानं जगर्जेव, नाथागेमभुवा मुदा ॥ ४६९ ॥ सोऽथ सुप्तोत्थित इव, पश्यन्नेवं व्यतर्कयत् । किमिन्द्रजालं ? किं स्वमः ?, कि माया? किमिवेदृशम् ? ॥४७०॥ किमेतद् गीतनृत्तादि, मामुद्दिश्य प्रवर्तते ? । अयं लोको विनीतः किं, मह्यं नाथाय तिष्ठते ? ॥ ४७१ ॥ 30 इदं श्रीमदिदं रम्यमिदं सेव्यमिदं प्रियम् । इदमानन्दसदनं, सदः किमिदमासदम् ॥ ४७२ ॥ स्फूर्जतिर्कसम्पर्क, तमकर्कशया गिरा । इति विज्ञपयामास, प्रतीहारः कृताञ्जलिः ॥ ४७३ ॥
अद्य नाथ ! वयं धन्याः, सनाथाः स्वामिना त्वया । कुरु प्रसादं नमेषु, पीयूषसदृशा दृशा ॥ ४७४॥
शिक्षय । २ अग्नौ। * दाभिशः सं ॥ चक्रे सर्वचैत्येषु, पूजां शक्र इवापरः आ ॥ ३ सर्वसदोष'योगानाम् । आत्माराममनाः प्राप, मासान्ते सोऽथ पश्चताम् आ॥ ५ प्रीवाभरणम् । ५ स्वामिसमागमजनितया । ६ स्फुरद्विकल्पसम्पर्कम् । ७ कोमलया।
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org